गुग्गुलुसस्यम्
इदं गुग्गुलुसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं भारते सर्वेषु प्रदेशेषु अपि वर्धते । इदं गुग्गुलुसस्यं गुल्माकारकं भवति । इदं गुग्गुलुसस्यं १.२ तः १.८ मीटर् यावत् दीर्घं वर्धते । अस्मिन् गुग्गुलुसस्ये आर्द्रतांशः अधिकः भवति । तथिव बाष्पीभवनं तैलं किञ्चित्, निर्यासांशाः चापि भवन्ति ।
गुग्गुलुवृक्षः | |
---|---|
गुग्गुलुवृक्षः |
गुग्गुलु | |
---|---|
गुग्गुलु |
इतरभाषाभिः अस्य गुग्गुलुसस्यस्य नामानि
सम्पादयतुइदं गुग्गुलुसस्यम् आङ्ग्लभाषया“गम्-गुगुगल्” अथवा “इण्डियन् बेडिलियम्” इति च उच्यते । इदं सस्यं सस्यकुले Commiforamukul कुले अन्तर्भवति । हिन्दीभाषया इदं गुग्गुलुसस्यं “गुगल्” इति, तेलुगुभाषया“मैपाक्षि गुम्बुलु” इति, तमिळ्भाषया “गुक्कुलु” इति, मलयाळभाषया“गुग्गुलु” इति, गुजरातीभाषया “गुगल्” इति, कन्नडभाषया“गुग्गुलु” अथवा “काण्ठगण” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य गुग्गुलुसस्यस्य प्रयोजनानि
सम्पादयतुअस्य गुग्गुलोः रसः तिक्तः कटुः च । अयं पचनार्थं लघु, रूक्षः, तीक्ष्णः चापि । अयं स्निग्धः, त्रिदोषहरः चापि । अत्र पुरातनः गुग्गुलुः सूक्ष्मः, रसः, सुगन्धयुक्तः चापि । नूतनः गुग्गुलुः उष्णवीर्यः, विपाके कटुः च । १. अस्य गुग्गुलोः उपयोगेन वातः वातजन्याः रोगाः, कफः, कफजन्याः रोगाः च अपगच्छन्ति । २. गुग्गुलुः शोथं, वेदनां च निवारयति । तस्मात् कारणात् कीलवाते, आमवाते, गण्डमूले च शोथः अनेन एव लिप्यते । ३. गुग्गुलुः अयं व्रणं शुद्धीकरोति । क्रिमिनाशकः चापि । अतः व्रणानाम् उपरि क्रिमिनाशार्थं अस्य धूपस्थापनं क्रियते । ४. सर्वविधानां शोथेषु, व्रणेषु, वेदनासु च अयं गुग्गुलुः हितकरः । ५. पार्श्ववायुरोगे अपि गुग्गुलुः उपयुज्यते । (कन्नडभाषया“लक्व”रोगः इति उच्यते) ६. मधुमेहे पुरातनस्य गुग्गुलोः उपयोगः हितकरः । ७. अयं गुग्गुलुः शरीरस्य स्थौल्यं निवारयति । ८. अयं गुग्गुलुः अधिकेन प्रमाणेन उपयुज्यते चेत् यकृत् तथा श्चासकोशस्य अपायकरः भवति ।