गुस्तावः मालेरः
गुस्तावः मालेरः औस्त्रियदेशी हीब्रुवंशी च । अयं कश्चन उत्तमसंगीतरचयिता । स १८६० तमे वर्षे बोहेमियदेशस्य कलिष्टनगरे अजायत । १९११ तमे वर्षे औस्त्रियदेशस्य वियेननगरे निधनं गतः। तेन नव वाद्यगणप्रबन्धाः संरचिताः । तस्मिन् मृते एकः असम्पूर्णः अतिष्ठत् । पृथिव्याः गीतम् इति नाम्ना अपि गायकसहितः वाद्यगणप्रबन्धः कश्चन अस्ति । अनेकानि गीतानि अपि तेन रचितानि सन्ति । प्रसिद्धः वाद्यगणनेता अपि आसीत् सः ।
गुस्तावः मालेरः | |
---|---|
जन्म |
७ जुलै १८६० Kaliště, Kaliště |
मृत्युः |
१८ मे १९११ (आयुः ५०) वियना |
शान्तिस्थानम् | Grinzing Cemetery |
शिक्षणस्य स्थितिः | वियना विश्वविद्यालय, University of Music and Performing Arts Vienna |
वृत्तिः | Conductor, संगीत रचयिता, शास्त्रीय संगीतकार, bandleader |
भार्या(ः) | Alma Mahler-Werfel |
अपत्यानि | Anna Mahler, Maria Anna Mahler |
जालस्थानम् | http://www.gustav-mahler.org |
गुस्तावस्य जन्मनः अनन्तरं मालरकुटुम्बम् इग्तौ इति नामकं नगरं प्रति प्रर्थितम् । अग्रे तत्रैव न्यविशत् । मालरस्य बाल्ये एव तस्य अनेके भ्रातरः विविधैः कारणैः अम्रियन्त । तस्य पिता अपि अतिहिंस्रः पुरुषः सन् आत्मजान् पत्नीं च बहुधा अपीडयत् । पितुः एप्सतैन् इति नामकस्य सङ्गीतपारङ्गतस्य च उपकारात् गुस्तावः वियेनसङ्गीतशालायाम् अभ्यासम् अकरोत् त्रीणि वर्षाणि यावत् । तत्र तु मालरस्य रुक्षस्वभावात् अनेके तस्य शत्रवः अभवन् । महान् सङ्गीतरचयिता अन्तोनः ब्रुक्नरः तस्य गुरुः सुहृत् च बभूव। सङ्गीतशालायां विद्यार्थी सन् एव प्रथमं संगीतप्रबन्धं स रचितवान् । शालां विहाय १८८० तमे वर्षे स वाद्यगणनेतुः कर्म कर्तुम् आरब्धवान् । बाद् हाल् इतिनाम्न्यां संगीतसभायां तस्य प्रथमं स्थानं प्राप्तम् । अस्मिन् एव वाद्यगणनेतुः कर्मणि मालरः भूयः भूयः यशः अलभत वर्तमानेषु वर्षेषु । तस्य तु स्वरचितं सङ्गीतं बहुजनः बहु न अमन्यत । १८९३ प्रभृति १८९६ पर्यन्तं प्रथमं द्वितीयं तृतीयं च वाद्यगणप्रबन्धान् कुमारस्य मायावेणोः नाम्ना वाद्यगणसहितं सङ्गीतसङ्ग्रहम् अपि स अरचयत् ।
१८९७ तमे वर्षे मालरः संराज्यसङ्गीतनाटकसभायां वाद्यगणनेतुः कर्म अलभत । औस्त्रियसंराज्ये सङ्गीतलोके इदम् उत्तमं स्थानं प्राप्नोत् । औस्त्रियसंराज्यस्य धर्मः रोमककतोलिकख्रिस्तधर्मः एव । अतः अस्मिन् स्थाने अधिष्ठात्रा रोमककतोलिकधर्मिणा एव भवितव्यम् । मालरस्य जातिधर्मे हिब्रुधर्मे अपि स श्रद्धावान् आसीत् । किन्तु हिब्रुः न कदाचित अभवत् । कञ्चित् कालं मालरः रोमककतोलिकधर्मवादी अभवत् । तस्य धर्मस्य अनेकाः मूलकल्पना मालराय अरोचन्त । इदम् अष्टमः वाद्यगणप्रबन्धः विशेषतः प्रकाशते यस्मिन् एहि विश्वकर्ता अध्यात्मन् इति नाम पुराणं ख्रिस्तधार्मिकं स्तोत्रं तेन सङ्गीते योजितम् । सर्वस्मिन् च मालरस्य सङ्गीते विशेषतः प्रथमस्य वाद्यगणप्रबन्धस्य तृतीये विभागे तस्य हिब्रुवंशित्वं व्यक्ततया दृश्यते । स तु तत्त्वतः न ख्रिस्तधर्मी वा न हिब्रुधर्मी वा अभवत् । स्वभावात् तु बहु अध्यात्मिकः तत्त्वचिन्तकः च पुरुषः आसीत् सः । विशेषतः जर्मनस्य तत्त्वज्ञस्य शोपन्हावरस्य उपनिषन्मूलः विचारः मालरस्य प्रियः अभवत् । स तु बहु अरण्यप्रियः आसीत् । अतः सर्वस्य वर्षस्य ग्रीष्मे काले स औस्त्रियस्य अचलप्रदेशे सङ्गीतरचनम् अकरोत् । दश वर्षेषु वियेनसङ्गीतनाट्यसभायां वाद्यगणनेता सन् मालरः सततं कलाश्रेष्ठतां प्राप्तुं प्रायतत । स कलाभक्तः कर्मयोगी च आसीत् । कला अध्यात्मिकं कर्म एव भवति इति तस्य निर्णयः आसीत् । अतः कलाकर्मणि आत्मानं च अन्यान् च सततं नियोजयत्। मालरसम्पादितायाः उत्तमायाः संस्कृत्याः तस्य नेतृत्वस्य च कालः तदानीन्तनस्य सङ्गीतलोकस्य कृतयुगः यथा तथा आसीत् ।