आयुर्वेदे जीवनशक्तिप्रदायिद्रव्येषु क्षीरं श्रेष्ठं परिगणितमस्ति । क्षीरेषु गोक्षीरम् अतिश्रेष्ठं मन्यते वैद्यै: । क्षीरं जीवनीयानम् (च.सू.25) गोक्षीरं क्षीराणाम् (हिततमम्) (च.सू.26)

गोक्षीरम्
स्वादु शीतं मृदु स्निग्धं बहुलं क्ष्लक्षणपिच्छलम् ।
गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पय: ॥ (च.सू.27)

इत्यादिवचनानि तत्र प्रमाणम् । (अजामहिष्यादीनामपि क्षीरे ओषधीयगुणा: सन्त्येव । अत्र गव्यं श्रेष्ठमिति मात्रमुक्तम् ।)

  • गोक्षीरं हृदयस्य हितकरं, बलवर्धकम्, आयुर्वृद्धिकरम्, उपयोगानुसारं दोषनिवारकं च भवति ।
  • आयुर्वेदे केषाञ्चिदोषधानां सेवनानन्तरम् ‘अनुपानम्’ विहितम् अस्ति । बहुत्र गोक्षीरम् अनुपानार्थं निर्दिष्टं भवति ।
  • उष्णक्षीरस्य फेनं लेपयाम: चेत् नेत्रपक्ष्मे जाता: दुष्टरक्तपिटका: निवारिता: भवन्ति ।
  • जलोदरोगबाधिता: केवलं गोक्षीरं गोमूत्रं च वैद्यकीयनिर्देशानुसारं स्वीकृत्य रोगमुक्ता: भवन्ति ।
  • गोक्षीरे या पीतिमा भवति सा आहारगतविषहारिणी भवतीति तज्ञा: अभिप्रयन्ति । (अयं विशेषगुण: सामान्यत: मातृस्तन्ये एव भवति ।)
  • गोक्षीरे ए. बि. सि. डि. - इत्येते सर्वेऽपि पोषकंाशा:भवन्ति।
  • मासे एकवारं शरीरे क्षीरं लेपयित्वा स्नानकरणम् आरोग्याय भवति इति वदन्ति ।
  • नूतनगृहप्रवेशसन्दर्भे धार्मिककार्यस्य अङ्गतया गोक्षीरम् उष्णीकृत्य तद् उद्गमयन्ति ।
  • वृक्षायुर्वेदरीत्या गोक्षीरे संस्कृतानि सस्यबीजानि कृषिक्षेत्रे अद्भुतं परिणामं जनयन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोक्षीरम्&oldid=410345" इत्यस्माद् प्रतिप्राप्तम्