ग्रीष्म-ऋतुवर्णनम्
ग्रीष्मर्तुवर्णनम्
1. अधुना ग्रीष्मनामा ऋतुः प्रवर्तते ।
- 1. अद्यत्वे ( सम्प्रति , अधुनातने काले ) स्रोतस्विनीनाम् ( नदीनाम् )
- सरसाम् ( तडागानाम् ) च पयांसि ( जलानि ) संशोषयन् ( परिशोषयन् )
- भृशं भीष्मो ( भीमः, भयंकरः ) ग्रीष्मनामा ( निदाघनामा ) ऋतुः प्रवर्तते ।।
2. अस्याम् ग्रीष्मर्तौ दिनकरो जगत्तापयति ।
- 2. अस्याम् ग्रीष्मर्तौ दवीयानपि ( भयंकरः ) दिनकरो ( भास्करः )
- दिनवृद्धिमाप्य ( दिनानि दीर्घीकुर्वन् ) स्वकीयेन ( तीव्रतमेन ),( तीव्रतमैः
- तेजोराशिभिः) करत्विषा (करकिरणेन) अगान् (पर्वतान् , गिरिगह्वरान् )
- म्लापयन् ( सर्वम् ) जगत्तापयति ।
- 2. (अ) स्पृहणीयो∫पि स्पर्शिनः सूर्यौष्ण्यसमायोगात् सूर्यकान्तमणिरिव
- ज्वलन् लोकैर्न पूज्यते ।
- 2.(अ) तिग्मांशुः प्रभूतं तापमातनोति तीक्ष्णांशुभिस्तृणसमूहम् भस्मसात्
- करोति च ।
- 2. (आ) आश्चर्यमस्ति यत् दिनस्य विषमे∫नेहस्यपि वराकाः कृषकाः
- स्वान्नियोगान् सम्पादयितुमुत्कमनसः संलक्ष्यन्ते ।
3. समीराः तापं पुष्णन्ति ।
- 3. क्रूरकराश्रयोष्णा समीराः (पवनाः, अनिलाः, समीराः) स्वयं तपन्तः
- विश्वस्य तापं पुष्णन्ति ।
4. तृषाकुलो भास्करः अपगानां वारि पिबति ।
- 4. सुतरां तृषाकुलो भास्करः आपगानां भूरि वारि पिबति ।
5. नभो धूलिधूसरितं भवति ।
- 5. अस्मिन् ऋतौ यदा कदा नभो धूलिधूसरितं भवति ।
6. वाताः वेगेन वहन्ति । 7. पृथिवी सस्यरहिता भवति ।
- 7. वृक्षाः कान्तिमपहाय शोकान्विताः सञ्जायन्ते । लता विपाण्डुताम्
- भजन्ते ।
8. क्षणदाः क्षयं यान्ति, दिनानि वृद्धिं गच्छन्ति च ।
- 8. निदाघकाले स्पृहणीयाः क्षणदाः क्षयं यान्ति, अस्पृहणीयानि दिनानि
- च वृद्धिम् गच्छन्ति च ।
- 8. प्राणिनः सूर्यममित्रं मन्यन्ते∫स्मिन् ऋतौ । प्रकृतिसुधावर्षी
- शर्वरीश्वरः खरद्युतितप्तानाम् प्राणिनामत्यन्तमेव प्रियो वर्ते रात्रौ ।
9. अध्वगाः वृक्षच्छायाः संश्रयन्ते ( आश्रयन्ते ) ।
- 9. उद्दाम-चण्डांशु-कर-ताप-तप्ताः, घन-घर्म-खेदं ( घनेन घर्मेण
- उत्पन्नम् खेदम् ( तापम् ) लघूकर्तुं बद्धपरिकराः अध्वगाः ( यात्रिणः,
- मार्गगाः, पथिकाः ) पीयूषम् ( अमृतम्,शीतसुखम् ) स्रवन्तीः वृक्षच्छायाः
- संश्रयन्ते ( आश्रयन्ते ) ।
- 9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः
- सन्तः खेदम् दूरीकर्तुम् पीयूषतुल्याम् तरुवरच्छायाम् आश्रयम् कामयमानाः
- दृश्यन्ते ।
9. प्रचण्डेन तापेन तप्ताः मार्गे गच्छन्तः पथिकाः घनेन घर्मेण सखेदाः
- सन्तः खेदम् दूरीकर्तुम् , जगत्तापेन तप्ताः भक्तजनाः यथा तापम् दूरे कर्तुम्
- परमात्मनः आश्रयम् इच्छन्ति, तथैव एतेपि पीयूषतुल्यायाः तरुवरच्छायायाः
- आश्रयम् इच्छन्ति ।
10. पिपासवः पयांसि पायं पायं तृप्यन्ति ।
- 10. पिपासवः (तृषा पीडिताः) पान्थसार्थाः (यात्रिसंघाः) पयांसि सरसाम्
- पायं पायं न ( परितोषम् लभन्ते ) तृप्यन्ति । सरसाः कौपीरपः पीत्वैव
- प्राणी सन्तोषमावहति ।
- 10. पिपासया भृशम् पीडिताः पथिकाः पयःपाने प्रवृत्ताः सन्तः स्वोदरे
- सम्पूर्णे जाते अपि पुनः पुनः ( पौनःपुन्येन ) पयः पातुमिच्छन्ति ( पयः
- पातुकामाः सन्तः अपि समुपस्थितमपि – सलिलम् , जलराशिम् वा ), न च
- तत् पातुम् पारयन्तीति ।
- 10. पिपासया परम् पीडिताः पथिकाः प्रथमम् पयःपाने प्रवृत्ताः भवन्ति ।
- ततः सद्यः एव उदरपूर्तिम् गताः ते पुनरपि पयः पातुमिच्छन्ति, परन्तु
- समुपस्थितमपि सलिलम् ते पातुम् न पारयन्ति ।
11. कासराः कासारेषु दिनं यावत् निलीना वर्तन्ते ।
- 11. औष्ण्यं ( उष्णताम् ) निवारयितुकामाः कासराः कासारेषु दिनम्
- यावत् ( आ दिनम् , निखिले∫पि दिवसे ) निलीना वर्तन्ते ।
12. खगाः वृक्षोपेताः जनाश्च गृहोपेताः भवन्ति ।
- 12. चण्डांशुखरकिरणान् सोढुमसमर्था जना दिनपर्यन्तम्
- गृहमधिवसन्ति । दिवा निदाघकालो∫ग्निस्फुलिङ्गानुद्गिरति । असहायाः पशु
- -पक्षिणः स्थित्वैव कालम् यापयन्ति । साधनसंपन्नैः मनुष्यैः जललवैः
- विलोलव्यजनोत्पन्नैः पवनैश्चाढ्यानामौष्ण्यम् लघूक्रियते ।
13. तापेन ताडिताः स्वभाववैरिणः प्राणिनः वैरम् परित्यज्य छायाकामिनः भवन्ति । 14. निदाघे दिनान्तः कालः कमनीयः भवति । 15. रात्रौ शीतलतायाः अनुभवः भवति ।
- 15. दिगन्तरालेषु स्वं प्रतापं प्रथयन्निव दिनाधिनाथो दिनम्
- यावज्ज्वलति । ततः संजातासु रात्रिषु शशिनः शीतलैः किरणैः
- शान्तिमनुभवन्ति समे अपि जीवाः ।।