चन्देरी
चन्देरी-पत्तनं ( ( शृणु) /ˈxəndɛriː/) (हिन्दी: चन्देरी, आङ्ग्ल: Chanderi) मध्यप्रदेशराज्यस्य अशोकनगरमण्डले स्थितम् एकम् ऐतिहासिकं पत्तनम् अस्ति । एतत् पत्तनं मालवा, बुन्देलखण्ड इत्येतयोः प्रान्तयोः सीमायां स्थितमस्ति । इदं पत्तनं शिवपुरी-नगरात् १२७ कि. मी., ललितपुर-नगरात् ३७ कि. मी., ईसागढ-नगरात् ४५ कि. मी. दूरे अस्ति ।
Chanderi | |
---|---|
Town | |
View of Chanderi town from Qila Kothi. The Chaubisi Jain temple with 24 shikharas, installed in 1836 by Bhattaraka Harichand of Sonagir, is in the center. | |
Country | India |
State | Madhya Pradesh |
District | Ashok Nagar |
Elevation | ४५६ m |
Population (2001) | |
• Total | २८,३१३ |
Languages | |
• Official | Hindi |
Time zone | UTC+5:30 (IST) |
Telephone code | 7547 |
Vehicle registration | MP 08 |
इदं पत्तनं बेटवानद्याः समीपे स्थितम् अस्ति । लघुशैले स्थितम् इदं पत्तनं शान्तियुक्तम् अस्ति । इदं पत्तनं परितः वनानि, सरोवराः सन्ति । हृदयाह्लादाय जनाः तत्र गच्छन्ति । अस्मिन् पत्तने बहूनि भवनानि सन्ति । तेषां भवनानां निर्माणं बुन्देल सुल्तान, मालवा सुल्तान इत्येताभ्यां कृतम् अस्ति । महाभारते अपि अस्य पत्तनस्य उल्लेखः दृश्यते । एकादश्यां शताब्द्याम् इदं पत्तनं सैनिकानां महत्वपूर्णं केन्द्रम् आसीत् । बुन्देलखण्ड-शैल्यां हस्तनिर्मिताभ्यः शाटिकाभ्यः प्रसिद्धं पत्तनम् अस्ति चन्देरी ।
इतिहासः
सम्पादयतुमहाभारतकाले शिशुपालः चेदि-देशस्य राजा आसीत् । तस्य राजधानी चेदिपुरी आसीत् । कालान्तरे अपभ्रंशकारणात् अस्य नाम चन्देरी अभवत् इति जनमान्यता । अपरा जनश्रुतिः अस्ति यत् अष्टम्यां शताब्द्यां चन्देरी-पत्तनस्य स्थापना चन्द्रवंशीयेन क्षत्रियेण चन्देल राजपूत इत्याख्येन कृता आसीत् । तेन अस्य पत्तनस्य नाम चन्द्रपुरी इति दत्तम्, कालान्तरे तदेव चन्देरी अभवत् इति । चित्तौड-नगरस्य राणा साङ्गा इत्याख्येन राज्ञा सुलतान खिलजी इत्यस्मात् चन्देरी-पत्तनं जितम् । १५२७ तमे वर्षे मेदिनीराय इत्याख्येन चन्देरी-पत्तनस्य शासनं कृतम् आसीत् । ततः परं पूरनमल जाट इत्यनेन चन्देरी-पत्तनस्य शासनं कृतम् । अन्ते शेर शाह इत्याख्येन चन्देरी-पत्तनस्य शासनं कृतम् ।
आकर्षणकेन्द्राणि
सम्पादयतुचन्देरी-दुर्गम्
सम्पादयतुइदं दुर्गं चन्देरी-पत्तनस्य प्रमुखम् आकर्षणकेन्द्रमस्ति । इदं दुर्गं चन्देरी-पत्तनात् ७१ मी. उपरि स्थितमस्ति । पुरा चन्देरी-पत्तनस्य केनचित् मुस्लिम-शासकेन अस्य दुर्गस्य निर्माणं कारितम् आसीत् । अस्य दुर्गस्य द्वारत्रयम् अस्ति । यद्यपि प्रथमं द्वारं मुख्यत्वेन गण्यते तथापि नाम्नः कारणात् अपरे द्वे द्वारे विशिष्टे गण्येते । तयोः नामनी स्तः – ‘हवा पौर’, ‘खूनी दरवाजा’ इति । इदं दुर्गं पत्तनात् बहुसुन्दरं दृश्यते ।
कौशक महल
सम्पादयतुमालवा-प्रान्तस्य महमूद शाह खिलजी इत्यनेन चन्देरी-पत्तने सप्तभूमभवनं निर्मापितम् । किन्तु क्लेशकारणात् तस्य निर्माणकाले अवरोधः जातः इत्यतः बहूनि वर्षाणि यावत् अपूर्णावस्थायामासीत् । ततः परम् अष्टादशशताब्द्यां बुन्देल-प्रान्तस्य मुख्यजनैः अस्य भवनस्य निर्माणं पूर्णं कारितम् ।
परमेश्वर-तडागः
सम्पादयतुअस्य तडागस्य निर्माणं बुन्देल राजपूत राज्ञैः कारितम् । तडागस्य समीपे एकं मन्दिरं वर्तते । तत्र तेषां राजपूत-राज्ञां स्मारकत्रयम् अस्ति । अयं तडागः चन्देरी-पत्तनात् १ कि. मी. दूरे स्थितः अस्ति ।
ईसागढ
सम्पादयतुचन्देरी-पत्तनात् ४५ कि. मी. दूरे ईसागढ-उपमण्डलस्य कडवाया-ग्रामे अनेकानि सुन्दराणि मन्दिराणि निर्मितानि सन्ति । तेषु मन्दिरेषु एकं मन्दिरं दशमशताब्द्यां कच्चापगहटा-शैल्यां निर्मितमस्ति । गर्भगृहं, मण्डपः च मन्दिरस्य मुख्याकर्षणमस्ति । अत्रस्थः चन्देल-मठः अन्यत् लोकप्रियं प्राचीनं च मन्दिरमस्ति । अत्र एकः बौद्धमठः अपि विद्यते ।
बूढी चन्देरी
सम्पादयतुपुरातनं चन्देरी-पत्तनं बूढी चन्देरी इति नाम्ना प्रसिद्धमस्ति । अत्र बहूनि जैन-मन्दिराणि सन्ति । तेषां निर्माणं दशमशताब्द्याम् अभवत् । तानि मन्दिराणि अस्य आकर्षणकेन्द्राणि सन्ति । जैनमतस्य अनुयायिनः दर्शनार्थं तत्र गच्छन्ति ।
जामा मस्जिद्
सम्पादयतुजामा मस्जिद् चन्देरी-पत्तने अस्ति । इदं मध्यप्रदेशराज्यस्य बृहत्तमेषु मस्जिद् इत्येतेषु अन्यतमम् अस्ति ।
देवगढ-दुर्गम्
सम्पादयतुदेवगढ-दुर्गं चन्देरी-पत्तनात् २५ कि. मी. दूरे स्थितमस्ति । दुर्गेऽस्मिन् जैन-मन्दिराणां समूहः अस्ति । तेषु प्राचीनकालस्य मूर्तयः अपि सन्ति । दुर्गस्य समीपे विष्णोः दशावतारस्य एकं मन्दिरम् अपि अस्ति यस्मिन् सुन्दराः मूर्तयः, स्तम्भाः च सन्ति ।
मार्गाः
सम्पादयतुवायुमार्गः
सम्पादयतुचन्देरी-पत्तनस्य निकटतमं विमानस्थानकं ग्वालियर-नगरे वर्तते । चन्देरी-पत्तनात् ग्वालियर-नगरं २२७ कि. मी. दूरे स्थितमस्ति ।
धूमशकटमार्गः
सम्पादयतुचन्देरी-पत्तनस्य निकटतमं रेल-स्थानकम् अशोकनगर अशोकनगरे, ललितपुरे च वर्तते ।
भूमार्गः
सम्पादयतुझान्सी, ग्वालियर, टीकमगढ इत्यादिभिः नगरैः चन्देरी-पत्तनाय बस्-यानानि प्राप्यन्ते ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये चन्देरी सम्बन्धिताः सञ्चिकाः सन्ति। |
- http:/ /www.chanderigi.com/index.htm