ग्वालियर ( /ˈɡvɑːlɪjərə/) (हिन्दी: ग्वालियर, आङ्ग्ल: Gwalior) इत्येतन्नगरं मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतस्य ग्वालियरमण्डलस्य केन्द्रम् अस्ति । ग्वालियर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं प्राचीननगरेषु प्रमुखम् अस्ति । अस्य नगरस्य दुर्गाः अपि प्रसिद्धाः सन्ति । इदं नगरं गुर्जर, प्रतिहार, तोमर, कछवाडा इत्येतेषां राजवंशानां केन्द्रमासीत् । अस्मिन् नगरे विद्यमानाः स्मारकाः, दुर्गाः, भवनानि च प्रसिद्धानि सन्ति । अत्र सङ्ग्रहालये बहूनि स्मृतिचिह्नानि सङ्गृहीतानि सन्ति । एतानि स्मृतिचिह्नानि अस्य नगरस्य पर्यटनदृष्ट्या महत्वपूर्णानि मन्यन्ते ।

ग्वालियर-महानगरम्

Gwalior
'Tourist Capital of Madhya Pradesh'
ग्वालियर-महानगरम्
ग्वालियर-महानगरस्य आकर्षणकेन्द्राणि
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियर नगरम्
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियर नगरम्
देशः भारतम्
राज्यम् मध्यप्रदेशराज्यम्
मण्डलम् ग्वालियरमण्डलम्
महानगरविस्तारः ३६२ च. कि. मी.
जनसङ्ख्या (२०११) ११, ०१, ९८१
Founded by राजा सूरज सेन
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body ग्वालियर म्युनिसिपल् कोर्पोरेशन्
 • महापौरः समीक्षा गुप्ता
 • म्युनिसिपल कमीशनर् विनोद शर्मा
Time zone UTC+५:३० (भारतीयमानकसमयः (IST))
पिन कोड
४७४ xxx
Area code(s) ०७५१
Vehicle registration एम पी - ०७
साक्षरता ८७.३८%
भाषाः हिन्दी, आङ्ग्लं, मराठी
लिङ्गानुपातः पु.-५०%, स्त्री.-४३.५%
Website Gwalior Municipal Corporation

जनसङ्ख्या संपादित करें

२०११ जनगणनानुगुणं ग्वालियर-महानगरस्य जनसङ्ख्या ११,०१,९८१ अस्ति । अत्र ५,८८,७५२ पुरुषाः, ५,१३,२२९ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु ग्वालियर-महानगरस्य एकादशक्रमाङ्कः अस्ति । अत्र पुं-स्त्री अनुपातः १०००-८७२ अस्ति । अत्र साक्षरता ८७.३८% अस्ति ।

भौगोलिकी स्थितिः संपादित करें

ग्वालियर-महानगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २६ º २२ उ., ७८ º १७ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं १९६ मी. अस्ति । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं १५ oC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ३१ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति ।

इतिहासः संपादित करें

अष्टमशताब्द्याम् अत्रत्यः राजा सूरज सेन इत्याख्यः आसीत् । सः एकस्मात् अज्ञातरोगात् ग्रस्तः आसीत् । तदा ग्वालिप इत्याख्यः तपस्वी आगतः । तेन तपस्विना सूरज सेन इत्यस्मै जीवनदानं प्रदत्तम् । अतः राजा सूरज सेन इत्याख्यः तपस्विनः सम्माने अस्य नगरस्य ग्वालियर इति नामकरणं कृतवान् । ततः परं इदं नगरं राजवंशानां राजधानी अभवत् । अस्मिन् प्रान्ते महान्तः योद्धारः, राजानः, कवयः, सङ्गीतज्ञाः अभवन् । एतैः सर्वैः अस्मै नगराय महत्वपूर्णं योगदानं प्रदत्तम् । इदानीं ग्वालियर किञ्चित् आधुनिकं महानगरम् अस्ति ।

प्रमुखकला संपादित करें

इदं नगरं मृद्शिल्पकलाभ्यः प्रसिद्धमस्ति । अत्र बहवः कुम्भकाराः सन्ति । ते मृत्तिकाभिः पात्राणि, क्रीडनकानि निर्मान्ति । नगरेऽस्मिन् उत्सवदिनेषु कुम्भकाराः एतेषां अधिकमात्रायां व्यापारं कुर्वन्ति । इदानीं कुम्भकाराः मृत्तिकायाः क्रीडनकानि न निर्मान्ति । कर्गदैः क्रीडनकानि निर्मान्ति । तेषामुपरि चकास्तिकार्यं (polish) कुर्वन्ति ।

शिक्षा, शिक्षणसंस्थानानि च संपादित करें

ग्वालियर-महानगरे जीवाजी विश्वविद्यालयः स्थितः अस्ति । एतेन विश्वविद्यालयेन सह अनेकाः महाविद्यालयाः संलग्नाः सन्ति । कला, विज्ञानं, वाणिज्यं, चिकित्साविज्ञानं, कृषिः इत्यादीनां विषयाणां महाविद्यालयाः नगरेऽस्मिन् सन्ति । अस्य नगरस्य साक्षरतास्तरम् उच्चतरम् अस्ति । नगरेऽस्मिन् सङ्गीतकलायाः विशिष्टा परम्परा अस्ति ।

ग्वालियर-महानगरस्य प्रमुखानि शिक्षणसंस्थानानि -

  • मिस हिल विद्यालय
  • गजरा राजा चिकित्सा महाविद्यालय
  • कमला राजा महिला महाविद्यालय
  • सिन्धिया स्कूल
  • सिन्धिया कन्या विद्यालय
  • माधव प्रौद्योगिकी एवं विज्ञान संस्थान

वीक्षणीयस्थलानि संपादित करें

 
ग्वालियर-दुर्गम्

ग्वालियर-दुर्गम् संपादित करें

ग्वालियर-दुर्गं ग्वालियर-महानगरस्य प्रमुखं पर्यटनं स्थलमस्ति । अस्य दुर्गस्य निर्माणं ’सेन्ड’ पाषाणैः कृतम् अस्ति । इदं दुर्गम् एकस्मिन् शैलप्रस्थे स्थितमस्ति । अस्य दुर्गस्य औन्नत्यं ३५ फीट् अस्ति । अतः केनापि इदं दुर्गं जेतुं न शक्यते इति स्पष्टम् ।

मान मन्दिर महल संपादित करें

अस्य दुर्गस्य निर्माणं राज्ञा मान सिंह इत्याख्येन कारितम् । अस्मिन् दुर्गे भव्यकलाकृतीनाम् अवशेषाः मिलन्ति । अस्मिन् दुर्गे कश्चित् सङ्गीतप्रकोष्ठः अस्ति । तस्य प्रकोष्ठस्य भित्तयः जालयुताः सन्ति । अस्मिन् प्रकोष्ठे राजपरिवारस्य स्त्रियः सङ्गीतस्य आनन्दं प्राप्नुवन्ति स्म । दुर्गेऽस्मिन् किञ्चित् कारागारम् अपि अस्ति । उच्यते औरङ्गजेब इत्याख्येन स्वस्य भ्राता मुराद इत्ययं कारागारे पूरितः । ततः परं तेन स्वस्य भ्रात्रे मृत्युदण्डः अपि प्रदत्तः आसीत् । अस्मिन् दुर्गे कश्चित् कुण्डः अपि अस्ति । अस्य कुण्डस्य नाम सूरज कुण्ड इति । नवमशताब्द्यां गुर्जर प्रतिहार वंशजैः अद्वितीयवास्तुकलायुतं विष्णुमन्दिरं निर्मापितम् । तस्य मन्दिरस्य उच्चता १०० फीट् अस्ति । अस्य मन्दिरस्य निर्माणं द्रविड-वास्तुकलायाम्, आर्य-वास्तुकलायां च कृतम् अस्ति ।

 

जयविलास महल एवं सङ्ग्रहालय संपादित करें

इदं भवनं सिन्धिया-वंशजानां निवासस्थलम् अस्ति । अत्र कश्चित् भव्यः सङ्ग्रहालयः अपि अस्ति । अस्मिन् भवने पञ्चत्रिंशत्प्रकोष्ठाः सन्ति । अस्य भवनस्य अधिकतरः भागः इटालियन् इत्यनया वास्तुकलया निर्मितम् अस्ति । अस्मिन् सङ्ग्रहालये रजतमयं रेलयानम् अस्ति । इदं रेलयानं भोजनपीठस्योपरि उपयुज्यते । कस्मिंश्चित् सम्भोजने इदं रेलयानं भोजनं परिवेषयति । अत्र इटली, फ्रान्स्, चीन इत्यादीनां देशानां दुर्लभाः कलाकृतयः सन्ति ।

तानसेन स्मारक संपादित करें

तानसेन इत्याख्यः भारतस्य शास्त्रीयसङ्गीतस्य सङ्गीतज्ञः आसीत् । तानसेन इत्ययं अक्बर् इत्याख्यस्य राज्ञः आस्थाने विद्यमानेषु नवरत्नेषु अन्यतमः आसीत् । तस्य स्मारकः अत्र स्थितः अस्ति । अयं मुगल-वास्तुकलायाः प्रतिरूपम् अस्ति । तानसेन इत्याख्यस्य स्मृतौ ग्वालियर-महानगरे प्रतिवर्षं तानसेन-समारोहः आयोज्यते ।

विवस्वान सूर्य मन्दिर संपादित करें

अस्य मन्दिरस्य निर्माणं बिरला इत्यनेन कारितम् । अस्य निर्माणकार्यस्य प्रेरणा कोणार्कस्थात् सूर्यमन्दिरात् सम्प्राप्ता अस्ति ।

रानी लक्ष्मीबाई स्मारक संपादित करें

रानी लक्ष्मीबाई स्मारक अपि अस्मिन् नगरे स्थितमस्ति । उच्यते यदा रानी लक्ष्मीबाई इत्यस्याः ब्रिटिश इत्येतैः सह युद्धं प्रचलति स्म, तदा रानी लक्ष्मीबाई इत्यनया स्वस्याः सेनाभिः सह अत्र विश्रामः कृतः । तत्कालीनस्य ग्वालियर-प्रान्तस्य शासकात् रानी लक्ष्मीबाई इतीयं साहाय्यम् अयाचत किन्तु तत्रत्यः राजा सदैव मुगल-ब्रिटिश इत्येतयोः अधीनः आसीत् । अतः सः राजा किमपि साहाय्यं कर्तुम् असमर्थः आसीत् । तदा रानी लक्ष्मीबाई वीरगतिं प्राप्तवती । तेन अत्रत्यानां राजवंशजानां गौरवं सन्देहयुक्तं जातम् । अत्र तात्या टोपे इत्यस्य अपि स्मारकः अस्ति ।

ग्वालियर-महानगरस्य प्रसिद्धाः व्यक्तयः संपादित करें

मार्गाः संपादित करें

वायुमार्गः संपादित करें

ग्वालियर-नगरे राजमाता विजया राजे सिन्धिया-विमानस्थानकम् अस्ति । देहली, मुम्बई, भोपाल, इन्दौर, जबलपुर इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगराय विमानयानानि सन्ति ।

धूमशकटमार्गः संपादित करें

मुम्बई, देहली, बेङ्गळूरु, चेन्नै, हैदराबाद्, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरं प्रति रेलयानानि सन्ति ।

भूमार्गः संपादित करें

मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः च ग्वालियर-नगराय बस्-यानानि सन्ति ।


बाह्यसम्पर्कतन्तुः संपादित करें

http://www.census2011.co.in/census/city/284-gwalior.html
http://gwaliormunicipalcorporation.org

"https://sa.wikipedia.org/w/index.php?title=ग्वालियर&oldid=463964" इत्यस्माद् प्रतिप्राप्तम्