चित्तौडगढ (हिन्दी: चित्तौड़गढ़, आङ्ग्ल: Chittorgarh) राजस्थानराज्ये स्थितस्य चित्तौडगढमण्डलस्य केन्द्रम् अस्ति । इदं नगरं प्राक् महाराणा प्रतापसिंहस्य मेवाडराज्यस्य राजधानी आसीत्‌ इत्यतः अद्यापि अस्य नगरस्य प्रसिद्धिः वर्तते । नगरमिदं राणा कुम्भः, महाराणा प्रतापसिंहः, राणा सङ्ग्रामसिंहः, कुम्भस्य पत्नी तथा भगवतः कृष्णस्य परमभक्ता मीराबाई इत्यादीनां महतां वासस्थानम् आसीत् इति कश्चन विशेषः ।

चित्तौडगढ

चित्तौडगढ
नगरम्
Nickname(s): 
चित्तूर्
देशः  भारतम्
राज्यम् राजास्थानम्
मण्डलम् चित्तौडगढ
Elevation
३९४ m
Population
 (2001)
 • Total ९६,०२८
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
चित्तौडगढदुर्गः
विजयस्तम्भः

इतिहासः

सम्पादयतु

भारतीय-इतिहासम् अवलोकयामश्चेत् ज्ञायते यत् अनेकवारम् अत्र युद्धम् अभवत् इति । अनेकानां 'राजपूत'वीराणां स्थानमेतत् । अत्यन्तं बलिष्ठदुर्गः पर्वतप्रदेशे अस्ति । भारतस्य इतिहासे चित्तौडगढदुर्गस्य किञ्चन वैशिष्ट्यं, महत्वं च अस्ति । १७२८ तमे वर्षे प्रसिद्धः 'रजपूत'वीरः बप्परावलनामकः राजा एतं दुर्गं निर्मापितवान् । 'रजपूत'राजानः शौर्येण, पराक्रमेण, प्रगतिपरैः कार्यैः, संस्कृतिपरत्वेन च ख्याताः आसन् । बप्परावलनामकेन राज्ञा निर्मितम् एतत् नगरं मुघलराज्ञैः ध्व्स्तीकृतम् । विश्वविख्यातायाः सुन्दर्याः पद्मिन्याः पतिः राजा भीमसिंहः अत्रत्यः एव । कृष्णभक्त्यै समग्रे देशे ख्यातया मीरया निर्मितः कृष्णालयः अत्रैव अस्ति । तस्याः पतिना महाराणाकुम्भेन निर्मापितम् एकं मन्दिरम् अपि अत्र अस्ति । अत्रत्येषु स्थलेषु अतिविशिष्टं स्थलम् अस्ति विजयस्तम्भः । मालवराजा मोहम्मदखिलजी चित्तौडगढप्रान्तस्य वशीकरणाय गत्वा पराज्यं पाप्य प्रतिगतः । तस्यैव विजयस्य स्मरणार्थम् एषः विजयस्तम्भः निर्मितः । १४४० तमे क्रिस्ताब्दे राणा कुम्भः एतं स्तम्भं निर्मापितवान् । एषः १२२ पादोन्नतः अस्ति ।

स्थलविशेषाः

सम्पादयतु

राणा कुम्भः मोहम्मदखिलजीनामकं यवनराजानं पराजित्य नवस्तरीयं विजयस्तम्भं निर्मापितवान् । एषः स्तम्भः प्रवासिनाम् अत्याकर्षकः स्थलविशेषः अस्ति । चित्तौडगढदुर्गः मुख्यं वीक्षणीयस्थलम् अस्ति । चित्तौडगढदुर्गं गन्तुं विशालः मार्गः अस्ति । १२ शतके निर्मितः द्वितीयः दुर्गः अस्ति । त्रिकूटपर्वते स्थितः अयं दुर्गः २५० पादोन्नतः अस्ति । अत्र ९९ वीक्षकस्थानानि ३० पादोन्नते स्थिते अट्टे सन्ति । 'रङ्गमहल्', 'गजमहल्' इत्यादयः प्रासादाः अत्र सन्ति । अत्र शिलासु सुन्दराणि चित्राणि निर्मितानि सन्ति । अस्मिन् दुर्गे जैनमुनीनां देवालयाः अपि सन्ति । महाराणाकुम्भराजगृहं, 'पद्मिनीमहल्', 'मीराबाई महल्', कीर्तिस्तम्भः, जटाशङ्करदेवालयः, गिरिधरमन्दिरम् अत्र द्रष्टव्यानि स्थलानि सन्ति । १४५८ तः १४६८ वर्षावधौ निर्मितः विजयस्तम्भः ३७ मीटर् उन्नतः (१२१ पादमितः) अस्ति । स्तम्भस्य बाह्यभागे रमणीयः हिन्दूशिल्पालङ्कारः अस्ति । द्वादशशतके निर्मितः कीर्तिस्तम्भः २२ मीटर् उन्नतः अस्ति । केनचित् जैनवणिजा अयं स्तम्भः जैनतीर्थङ्कराय आदिनाथाय अर्पितोऽस्ति । अत्र समीपे मृगोद्यानं, भीमलतासरोवरः, नीलकण्ठमहादेवजैनदेवालयः, कालीमातादेवालयः इत्यादयः सन्ति । नगरेऽस्मिन् विद्यमानं चेतकस्मारकं दर्शनीयम्‌ अस्ति । गडसीसरोवरः क्रिस्ताब्दे १३४० तमे वर्षे निर्मितः अस्ति । कृतकसरोवरस्यास्य मध्ये निर्मितः जलमण्डपः सरोवरस्य सौन्दर्यं वर्धयति । पार्श्वे एकः वस्तुसङ्ग्रहालयः अस्ति । सरोवरे नौकाविहारः राजस्थानप्रवासविभागेन कल्पितः अस्ति । अत्र अनेकानि सुन्दरभवनानि सन्ति । तेषु १८०० तमे वर्षे निर्मितं पटवरभवनं, १८२५ तमे वर्षे निर्मितं सालीं सिंहभवनं च उत्कृष्टशिल्पकलायाः उदाहरणम् अस्ति । अत्र वालुकापर्वतेषु उष्ट्रारोहणं कृत्वा आनन्दमनुभवितुम् उत्तमः अवसरः अस्ति ।

व्यवस्थाः

सम्पादयतु

'सहाराटूरिस्ट', 'थारसफारी' इत्यादयः प्रवासव्यवस्थापकसंस्थाः सन्ति । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति ।

धूमशकटयानमार्गः

सम्पादयतु

चित्तौडनामकं धूमशकटयाननिस्थानं नगरस्य मध्यभागात् द्वादश कि.मी दूरेऽस्ति ।

वाहनमार्गः

सम्पादयतु

उदयपुर-तः ८० कि.मी, अजमेरतः ५०० कि.मी, जयपुर-तः ६१८ कि.मी, उदयपुर-तः ६६३ कि.मी, बीकानेर-तः ३२८ कि.मी, देहली-तः ८९७ कि.मी, जोधपुर-तः २९० कि.मी दूरे अस्ति इदं नगरम् । एतेभ्यः नगरेभ्यः 'बस्'यानानि सन्ति ।

 
कालिकामातामन्दिरम्
"https://sa.wikipedia.org/w/index.php?title=चित्तौडगढ&oldid=465564" इत्यस्माद् प्रतिप्राप्तम्