अजयमेरुः
अजयमेरू (हिन्दी: अजमेर, आङ्ग्ल: Ajmer) राजस्थानराज्ये स्थितस्याजयमेरुमण्डलस्य केन्द्रमस्ति । अन्यथैतद् नगरमज्मेरिति नाम्ना ख्यातमस्ति । एतन्नगरं हिन्दूनां यवनानां च यात्रास्थलमस्ति । इतिहासानुसारमाङ्ग्लराजदूतः श्री थामो मन्रो मुघलवंशीयं जहाङ्गीरनामकं राजानं क्रिस्ताब्दे १६१६तमे वर्षेऽत्रैव मिलितवानासीत् । क्रिस्ताब्दे १८१८तमे वर्षे प्रशासनमाङ्ग्लानां वशेऽभवत् ।
अजयमेरुः अज्मेर् | |
---|---|
नगरम् | |
मेयो कालेज् | |
देशः | भारतम् |
राज्यम् | राजस्थानम् |
मण्डलम् | अजयमेरुमण्डलम् |
Elevation | ४८६ m |
Population (२०११ census) | |
• Total | ५४२५८० |
Languages | |
• Official | हिन्दी, आङ्ग्लभाषा |
• Regional | हिन्दी, राजस्थानी |
Time zone | UTC+5:30 (IST) |
PIN |
3050 xx |
Telephone code | +0145 |
Vehicle registration | RJ01 |
Nearest city | जयपुरम्, उदयपुरम्, देहली |
Website | www.ajmer.nic.in |
अजयमेरुसमीपे पुष्करतीर्थे (११कि.मी) हिन्दूजनाः पवित्रस्नानं कुर्वन्ति । पुष्करतीर्थे चतुर्मुखब्रह्मदेवालयोऽपूर्वोऽस्ति । तारागढपर्वततले ख्वाजा मोयिनुद्दीन् दर्गास्ति । एतदमृतशिलया निर्मितमस्ति । अक्बर्नामकस्य मुघलराज्ञो राजगृहमिदानीं वस्तुसङ्ग्रहालयत्वेनोपयुज्यमानोऽस्ति । नासियान् जैनमन्दिरमानासागरतडागस्तारागढदुर्गः १३०० पादोन्नत इत्यादीन्याकर्षणीयस्थलानि नगरेऽस्मिन् सन्ति ।
अजयमेरु
श्चौहानवंशस्योत्कर्षस्य पराभवस्य च जीवन्तसाक्ष्यजयमेरुर्वर्तते । यतो ह्यजयराजस्य कालेऽजयमेरो राजधानीत्वेन घोषणोत्तरं पृथ्वीराजतृतीयस्य नरायणस्य द्वितीये युद्धे पराजयं यावदजयमेरुश्चौहानवंशस्य राजधान्यासीत् । पृथ्वीराजतृतीयस्य मृत्युरप्यजयमेरावेवाभवत् [१] [२] । अजयमेरुरेवारावल्याः विशालपर्वतमालायां स्थितश्चौहानवंशस्य केन्द्रियशक्तेर्विराटः स्वरूप आसीत् । द्वादश्यां शताब्द्यां भारतीयत्वस्य रक्षणं यः कृतवान् सोऽजयमेरुरेवासीत् । अजयमेरोर्हुङ्कारेणैव गोरगझनीबसराबगदाद इत्यादयः प्रदेशा भयभीता भवन्ति स्म । अजयमेरावेव विग्रहराजेन शपथः स्वीकृत आसीद् यदहं भारतवर्षं म्लेच्छमुक्तं (यवनमुक्तं) करिष्यामीति । सोऽजयमेरुरद्याप्यज्मेरिति नाम्ना जीवन्तोऽस्ति ।
इतिहासः
सम्पादयतुअजयमेरोर्दुर्गस्य अजयगढोऽजयदुर्गोऽजयमेरोऽजयपुरा तारागढ इत्यादीनि नामानि प्रसिद्धानि सन्ति [३] । अजयमेरोरजयमेरुदुर्गस्य च स्थापना कदाभवदित्यस्यानेकानि प्रमाणान्युपलभ्यन्ते । चौहावंशीयेनाजयपालेन सप्तम्यां शताब्द्यामजयमेरोः स्थापना कृता [४] । उक्तं मतं डॉ. दीवान बहादुर हरविलास सारदा इत्येतस्य अस्ति । हरविलासमहोदयस्य मतस्य आधारः प्रबन्धकोशः अस्ति [५] । हरविलासमहोदयस्य मतस्यान्ययाधारा अपि सन्ति । यथाजयमेरोः प्राप्ताः शिलालेखाः । तेषु शिलालेखेषु यते रत्नकीर्तिमहाराजस्य हेमराजाख्येन शिष्येन ८१७ (ई. ७६०) तमे विक्रमसंवत्सरे प्रस्थापितः शिलालेखोऽप्यन्तर्भवति । अन्ये शिलालेखा अप्यजयमेरोः प्राप्ताः । तेषां प्रस्थापनकालः क्रमेण ई. ८४५, ८५४, ८७१ मन्यते [६] [७] [८] ।
अजयमेरुस्थानन्तरणस्य कारणम्
सम्पादयतु७१२ ई. मध्ये अरब-देशीयः सेनापतिः मुहम्मद बिन कासिम इत्यस्य नेतृत्वे सिन्धप्रदेशस्योपरि आक्रमणम् अभवत् । अबर-देशस्य लुण्ठकैः सिन्धप्रदेशस्य अनेकेषां प्रदेशानां धनं लुण्ठितम् । तस्मिन्नेव काले अरब-देशीयानाम् उत्पातैः स्वाराज्यस्य धनकोशस्य रक्षणं कर्तुं मण्डोरप्रदेशस्य शासकेन नागभट्टेन (ई. ७३०-७५६) स्वराजधानी मण्डोर-प्रदेशात् मेडान्तक-प्रदेशे (मेडता) स्थानन्तरिता [९] । इतिहासविदानां मतानुसारं मण्डोर-प्रदेशस्य शासकः चौहानवंशीयानां प्रबलप्रतिद्वन्द्वी आसीत् । अतः स्वराज्यस्य सुरक्षायै तत्कालीनः राजा अजयराजः भारतस्य प्राचीनतमतीर्थक्षेत्रस्य पुष्करस्य रक्षायै सैन्यशिबिराणि प्रास्थापयत् । अजयराजस्य पितुः पृथ्वीराजप्रथमस्य कालयेव शाकम्भरीप्रदेशस्योपरि तुर्कजनानाम् आक्रमणे वेगः आसीत् । अपरत्र चालुक्यवंशीयाः अपि पुष्करतीर्थस्योपरि आक्रमणानि अकुर्वन् [१०] । अतः अजयराजः स्वपुरातनसैनिकस्थलाय एव विराड्रूपं दत्त्वा तस्मिन् स्थले एकस्य विशालस्य दुर्गस्य स्थापनाम् अकरोत् । अजयमेरुः राजपूतानां हृदयस्थलवत् आसीत् । यतो हि तत् स्थलं प्रमुखमार्गैः सँल्लग्नम् आसीत् । अजयमरोः गुजरातराज्यस्य, दक्षिणभारतस्य, पश्चिमराजस्थानस्य, पञ्चनद्यस्य कृते साक्षात् मार्गाः आसन् । अतः अजयराजः स्वनाम्ना अजयमेरोः स्थापनम् अकरोत् [११] ।
अजयमेरुदुर्गम्
सम्पादयतुअजयमेरुदुर्गं तारागढ इत्यपि प्रसिद्धम् अस्ति । लोकगीतेषु अजयमेरुदुर्गस्य 'गढ बीठली', अजयगढ इत्येते नामनी प्राप्येते । समुद्रतलात् २८५५ फीट्, पृथ्वीतलात् ८०० फीट् च उन्नते गिरिमालिकाभिः आच्छादितं गिरिदुर्गम् अजयमेरुदुर्गं ८० एकड् भूमौ विस्तृतम् अस्ति । चतसॄषु दिक्षु विशालप्रस्तरैः निर्मिताः प्राचीराः सन्ति । ते प्राचीराः २० फीट् लम्बमानाः सन्ति । कुत्रचित् गिरिकायाः भागः अनुन्नतः अस्ति, तत्र प्राचीराणां वर्तुलाकारस्य सुदृढस्य अट्टालस्य (watchtower) निर्माणं कृतम् अस्ति । अजयमेरुदुर्गस्य सुदृढां सुरक्षाव्यवस्थां दृष्ट्वा पादरी हेबर् इत्याख्यः (१८२५ तमे वर्षे अजयमेरुदुर्गस्य यात्राम् अकरोत् सः ।) प्रवासी अवदत्, अजयमेरोः दुर्गं द्वितीयं 'जिब्राल्टर्' अस्ति इति [१२] ।
अजयमेरोः दुर्गं प्रवेशं कर्तुं त्रयः मार्गाः सन्ति । दुर्गस्य अग्रे, पृष्ठे च एकैकं द्वारम् अस्ति । अपरं मुख्यद्वारम् अस्ति । तद्द्वारं 'लक्ष्मीपोल' इति प्रसिद्धम् अस्ति । तस्य द्वारस्य निर्माणं प्राचीनपद्धत्या अभवत् । लक्ष्मीपोल-द्वारम् उभयतः अट्टालौ स्तः । तयोः अट्टालयोः मध्ये एका भित्तिका अस्ति । तस्याः भित्तिकायाः अध एव द्वारम् अस्ति । लक्ष्मीद्वारात् तसृषु दिक्षु प्राचीराणां पङ्क्तयः विस्तृताः सन्ति । लक्ष्मीद्वारात् यः गोलाकारमार्गः निर्गच्छति, सः १०० फीट् दूरे अपरं द्वारं प्रति नयति ।
अजयमेरुदुर्गे १४ विशालाः अट्टालकाः सन्ति । तेषां सर्वेषां नामानि क्रमेण अधः सन्ति ।
१. घूङ्घट-अट्टालकः
२. गुगडी-अट्टालकः
३. फूटा-अट्टालकः
४. नक्कार्ची-अट्टालकः
५. शृङ्गार-अट्टालकः
६. अर्पर्कात्रा-अट्टालकः
७. जानूनायक-अट्टालकः
८. पिप्पली-अट्टालकः
९. हुतात्मा-अट्टालकः
१०. दुराई-अट्टालकः
११. मर्कट-अट्टालकः
१२. इमली-अट्टालकः
१३. खिडकी-अट्टालकः
१४. फतेह-अट्टालकः
अजयमेरुदुर्गे पञ्च विशालजलाशयाः सन्ति । तेषां नामानि क्रमेण 'नाना साहब'-जलाशयः, गोल-जलाशयः, इब्राहीम-जलाशयः, बडा-जलाशयः, कर्बला-जलाशयः च ।
अजयमेरुदुर्गस्य सामरिकेतिहासः
सम्पादयतुनरायनस्य द्वितीये युद्धे पराजयोत्तरम् अजयमरुदुर्गे कुतुबुद्दीन ऐबक् इत्यस्य प्रभुत्वम् अभवत् । युद्धानन्तरम् अजयमेरुदुर्गे कानिचन दिनानि पृथ्वीराजतृतीयस्य पुत्रः गोविन्दः सामन्तत्वेन शासनम् अकरोत् । परन्तु ततः पृथ्वीराजतृतीयस्य भ्रातुः कृते दासत्वस्य स्थितिः असह्या अभवत् । अतः तेन अजयमेरौ स्थिताः सर्वे तुर्कजनाः निष्कासिताः । ततः ११९४ तमस्य वर्षस्य अन्ते उत ११९५ तमस्य वर्षस्य आरम्भे कुतुबुद्दीन ऐबक् इत्येषः पुनः अजयमेरुदुर्गे अधिकारम् अस्थापयत् ।
१५०५-३५ मध्ये अजयमेरुदुर्गं देहलीशासकानां, मेवाडप्रदेशीयानां महाराजानां च आधिपत्ये आसीत् । १४५५ मध्ये माण्डू-प्रदेशस्य राजा महमूद खलजी इत्येषः अजयमेरुदुर्गम् अजयत् । परन्तु बहुस्वल्पेषु दिनेषु एव माहाराणा कुम्भा इत्यस्य आक्रमणानन्तरम् अजयमेरुदुर्गस्योपरि मेवाडदेशीयानां शासनं स्थिरम् अभवत् । ततः अजयमेरुदुर्गं ११३३-३५ मध्ये गुजरातराज्यस्य बहादुर शाह इत्याख्यस्य शासने आसीत् । मेडता-प्रदेशस्य वीरमदेवः अजयमेरौ स्थितान् बहादुर शाह इत्यस्य जनान् उच्चाटितवान् (driven away, भगा दिया) । वीमरदेवस्य अजयमेरौ आधिपत्यं दृष्ट्वा जोधपुरस्य मालदेवः वीरमदेवस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे पराजितः वीरमदेवः देहलीम् अगच्छत् । तत्र देहल्याः शासकाय शेरशाह इत्यस्मै साहाय्यार्थं विप्रालपत् (न्यवेदयत्) । शेहशाह इत्येषः १५५६ ई. मध्ये स्वसेनापतिं हाजी खाँ इत्येनम् अजयमेरौ आक्रमणाय प्रैषयत् । तस्मिन् युद्धे शेरशाह इत्यस्य सेनापतेः विजयत्वात् अजयमेरुदुर्गं देहलीशासनस्य भागम् अभवत् । ततः मुघलशासनकाले अकबर इत्यस्य सेनापतिना कासिम खाँ निशापुरी इत्यनेन अजयमेरौ आधिपत्यं प्रस्थाप्य तुर्कजनानां वर्चस्वस्य अन्तः कृतः ।
अजमेरुदुर्गादेव अकबर इत्येषः राजस्थानस्य विभिन्नेषु भागेषु, गुजरातराज्ये च आक्रमणाय स्वसेनां प्रेषयति स्म । १७२० पर्यन्तं मुगलसाम्राज्यस्य आधिपत्ये अजमेरुदुर्गं मुख्यसैनिकशिबिरत्वेन आसीत् । ततः मुगलसाम्राज्यस्य पराभवेन ग्वालियर-प्रदेशीयानां सिन्धियावंशीयाः अजयमेरुदुर्गे आधिपत्यम् अस्थापयन् । ततः १८१८ मध्ये आङ्गलसर्वकारस्य आधिपत्यानन्तरं १९४७ मध्ये अजयमेरुदुर्गं भारतसर्वकारस्य अधिकारक्षेत्रे सामाहितः ।
प्राचीनकालादेव अजयमेरुदुर्गं परितः प्रकृतिः देदीप्यमाना आसीत् । आक्रान्तानां शासनकालेऽपि दुर्गं परितः प्राकृतिस्थितिः सातत्यपूर्णा आसीत् । १२१० (ई.) तः १२२५ पर्यन्तम् अजयमेरुदुर्गे अल्तमश इत्याख्यस्य यवनशासकस्य परमेष्ठिता (आधिपत्यम्) आसीत् । ताजुल मासिर इत्याख्यस्य ग्रन्थस्य रचयिता हसन निजामी इत्येषः अजयमेरौ कानिचन दिनानि अयापयत् । हसन निजामी इत्येषः अजयमेरुदुर्गं परितः स्थितायाः प्राकृतिकसुन्दरतां वर्णयन् अलिखत्, अजयमेरोः उद्यानानि सप्तरङ्गिपुष्पैः उत्सङ्गिताः (युक्ताः) सन्ति । उद्यानात् दृश्यमानानि गिरिकाणां, वनमालिकानां च दृश्यानि चीन-देशस्य प्रसिद्धचित्रशालायाः अपेक्षा अतिरमणीयानि (मनोहराणि) सन्ति । उद्यानस्य दृश्येन प्रतीतिः भवति यत्, कदाचित् एतत् उद्यानं स्वर्गात् अवतरितम् इति । प्रातःकालीनवायुः वातावरणे सौरभं (सुगन्धं) प्रसारयति । उषायाः वक्षस्थलं पाटलपुष्पैः आच्छादितं भवति । अजयमेरोः धूलिकायां मृगकस्तूरीणां सुवासः विद्यते । अजयमेरुदुर्गस्य जलाशयानां जलम् एतावत् स्वच्छम् अस्ति यत्, अमावास्याः रात्रौ अपि जलाशयस्य तले स्थितं लघुं पाषाणम् अपि स्पष्टतया द्रष्टुं शक्यते । जलाशयस्य मधुरं जलम् अमृततुल्यम् एवम् आरोग्यप्रदम् अस्ति । पुष्पाणां सुन्दरतायाः, वायुपृथ्व्योः स्वच्छतायाः, जलवृक्षाणां बाहुल्यतायाः च कारणेन सुखकरः अजयमेरुः अत्यन्तं रणयीस्थलम् अस्ति इति ।
वाहनमार्गः
सम्पादयतुजयपुर-तः १३८ कि.मी दूरे, उदयपुर-तः ३०२ कि.मी दूरे इदं नगरं तिष्ठति ।
सम्बद्धाः लेखाः
सम्पादयतुसन्दर्भः
सम्पादयतु- ↑ इलियट् एण्ड् डाउसन्, (प्रो. हबीब संस्कररणम्), भागः २, पृ. ६६४-६५
- ↑ स्टडीज् इन् इन्डो मुस्लिम् हिस्ट्री, भागः १, पृ. १७९-१८०
- ↑ डॉ. के सी जैन, एन्सियेन्ट् टाउन्स् एण्ड् सिटीज् ऑफ् राजस्थान, पृ. ३०१
- ↑ अजमेर – हिस्टोरिकल एण्ड् डिस्क्रिप्टिव्, पृ. २९
- ↑ स. आचार्य जिनविजय, पृ. १३३
- ↑ डॉ. जैन, एन्सियन्ट् सिजीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. ३०१
- ↑ डॉ. जैन, वीरवाणी (ई. १९५४)
- ↑ लहरें (ई. १९५७) अजमेर की छतरियाँ
- ↑ वि. ८९४ (ई. ८३२) मध्ये लिखितः बाउक-आख्यः जोधपुरस्य शिलालेखः, एपिग्राफिया इण्डिका, भागः १८, पृ. ८७-९९
- ↑ पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ८६-९२, पृ. १९१-९२
- ↑ पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. १९२, पृ. १४६
- ↑ हेबर्स् जर्नल्, भागः २, पृ. ४८, सारदामहोदयद्वारा उल्लेखः पृ. ६
- ↑ ताजुल मासिर, पृ. २९-३०