कुट्टमत्त् कुञ्ञम्बुक्कुरुप्प् कृष्णक्कुरुप्प् महोदयाभ्यां विरचितं नाटकं भवति चिदम्बरनाटकम् । एकोदरसहोदरौ व्याघ्रपादपाणिनौ ग्रहणसमये पत्नीभिः सह जलक्रीडायां व्यापृतौ आस्ताम् । तद् दृष्ट्वा चन्द्रः तौ अशाप । यदि चिदम्बरे शिवनृत्तं द्रक्ष्यति तर्हि पूर्वावस्थां प्राप्नोति इति शापमोक्षं च दत्तवान् । तौ तिल्लावनं गत्वा तपश्चकार । देवताः पार्वतीमुपगम्य 'तयोः कृते वरं प्रदातुं शिवं प्रेरयतु' इति अयाचन्त । एतदेव नाटकस्यास्य इतिवृत्तम् । अस्य सम्पादनम् अभवद्वा न वा इति न ज्ञायते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चिदम्बरनाटकम्&oldid=409247" इत्यस्माद् प्रतिप्राप्तम्