तुङ्गानद्याः तीरे विद्यमाने अस्मिन् प्रदेशे श्रीसिद्धिविनायकः देवालयः वर्तते । पुराणप्रसिद्धे अस्मिन् प्रदेशे गुहासु मुनयः तपः चक्रुः । विशेषेण आकर्षणं नाम अत्र नद्यां मीनाः दृश्यन्ते । देवालयस्य विशेषो नाम मीनानां कृते तण्डुलं वा मण्डक्किं वा ददामि, नारिकेलफलनैवेद्यं च विनायकस्य कृते करोमि इति देवालये प्रतिजानाति चेत् सिब्बुरोगः निवारितः भवति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चिब्बलगुड्डे&oldid=409248" इत्यस्माद् प्रतिप्राप्तम्