चैतन्यः महाप्रभुः

(चैतन्यमहाप्रभुः इत्यस्मात् पुनर्निर्दिष्टम्)


चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन वैष्णवधर्मगुरुः। समाजपरिवर्तयिता च । तेन अधुनातन-बाङ्ग्लादेशः,पश्चिमवङ्गस्य राज्यानि, बिहार्,झार्खण्ड्, मणिपुर,असमप्रदेशेषु कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः गौडीयवैष्णवभक्ताः तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् ।भागवतपुराण-भगवद्गीतयोः तत्त्वस्य आधारः तेन आश्रितः । हरे कृष्ण महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । संस्कृते तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य कृष्णजन्माष्टमी|अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।

Sri Chaitanya Mahaprabhu
Sri Chaitanya Mahaprabhu
जन्मतिथिः 4th February, 1486
जन्मस्थानम् Mayapur Dham (present-day Nadia, West Bengal, India)
पूर्वाश्रमनाम Vishvambar Mishra (Nimai)
मृत्युतिथिः 14th June,[] 1534 (aged 47–48)
मृत्युस्थानम् Puri (present-day Odisha, India)
तत्त्वचिन्तनम् Bhakti yoga, Achintya Bheda Abheda Vedanta
सम्मानाः Followers of Gaudiya Vaishnavism believe him to be the full incarnation of Lord Krishna.

सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना,निम्बवृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः ग्रन्थाःउपलभ्यन्ते । तेषु कृष्णादास कविराज गोस्वामिना लिखितं चैतन्यचरितामृतं, वृन्दावनदासेन लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।

चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्यः द्वितीयः पुत्रः आसीत् । ते पश्चिमवङ्गे नदीयाप्रदेशे (नवद्वीपे) अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः ओरिस्साराज्यस्य जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।

 
चैतन्यस्य जन्मस्थानम्

तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः कृष्णजपे नितराम् आसक्तः आसीत् । संस्कृताध्ययने ज्ञानार्जने च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय [[गया| प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।

कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।

चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-अद्वैताचार्ययोः उपस्थितौ ।

चैतन्येन 'शिक्षाष्टकम्' इति कश्चन ग्रन्थः संस्कृतेन लिखितम् । तस्य उपदेशस्य सारसङ्ग्रहः 'दशमूलम्' इति कथ्यते । ते -

  1. कृष्णः अन्तिमः परमसत्यस्वरूपः ।
  2. कृष्णः सर्वशक्तः ।
  3. कृष्णः रससागरः ।
  4. जीवाः परमात्मनः पृथग्भूताः भागाः
  5. जीवानां तटस्थावस्थायाः कारणतः जीवाः विषयवस्तुभिः बद्धाः भवन्ति ।
  6. स्वतन्त्रावस्थायां जीवाः विषयवस्तुभिः मुक्ताः भवन्ति ।
  7. जीवाः प्रापञ्चिक
  8. जीवैः निर्मलभक्तिः अभ्यसितव्या ।
  9. निर्मलकृष्णभक्तिः एव परमं लक्ष्यम् ।
  10. कृष्णाशीर्वादः एव प्राप्तव्या निधिः ।
 
चैतन्यसङ्कीर्तनम्

चैतन्यसम्प्रदायः

सम्पादयतु

मध्वाचार्यसम्प्रदायेन दीक्षितः चैतन्यःशङ्करसम्प्रदायेन संन्यासं स्व्यकरोत् इति कारणतः तदीयानि तत्त्वानि वैष्णवसम्प्रदायतः भिन्नः इति परिगण्यते । सः ईश्वरपुरिणा मन्त्रोपदेशं केशवभारत्या संन्यासदीक्षां च स्व्यकरोत् । एतौ उभौ अपि शङ्करस्य अद्वैतवादिनौ ।

शिक्षाष्टकं विना चैतन्यमहाप्रभुणा न किमपि लिखितम् । शिक्षाष्टकमपि तेन न लिखितम् अपि तु उक्तम् । तत् केनचित् समीपवर्तिना ध्वनिमुद्रितम् । एतेषु अष्टसु श्लोकेषु गौडीयवैष्णवमतस्य समग्रतत्त्वानि विद्यन्ते । स्वस्य भक्तितत्त्वानां व्यवस्थितक्रमेण उपस्थापनाय तेन षट् अनुयायिनः प्रार्थिताः । ते षड् जनाः अग्रे वृन्दावनस्य षड् गोस्वामिनः इति प्रसिद्धाः । ते - रूपागोस्वामी, सनातनगोस्वामी, गोपालभट्टगोस्वामी, रघुनाथभट्टगोस्वामी, रघुनाथदासगोस्वामी, जीवगोस्वामी । गौडीयवैष्णवतत्त्वानां व्यवस्थितरूपदानाय एते कारणभूताः ।

नरोत्तमदासठाकूरः, श्रीनिवासाचार्यः, श्यामानन्दपण्डितश्च जीवगोस्वामिनः सकाशात् अध्ययनम् अकुर्वन् । ते पश्चिमवङ्गे, ओरिस्सा इत्यादिषु प्रदेशेषु चैतन्यस्य उपदेशस्य प्रचारं व्यापकतया अकुर्वन् । रामचन्द्रकविराजः गङ्गानारायणचक्रवर्ती च प्रचारकार्यम् अकुर्वन् ।

खेतुरि-उत्सवावसरे एदम्प्राथम्येन चैतन्यस्य सर्वे अनुयायिनः एकत्र सम्मिलिताः । तदा नित्यानन्दप्रभोः पत्नी जाह्नवठाकुरानि आध्यक्षम् अवहत् । तादृशेषु उत्सवेषु विभिन्नशाखानाम् अनुयायिनः एकत्र सम्मिलन्ति स्म । अस्मिन् एव समये नित्यानन्द-अद्वैताचार्ययोः शिष्याः विरभद्र-कृष्णमिश्रश्च सम्प्रदायस्य रक्षणाय कौटुम्बिकपरम्पराम् आरब्धवन्तौ । आधुनिकगौडीयसम्प्रदायस्य प्रमुखशाखायाः प्रतिनिधिः अस्ति नित्यानन्दस्य पुत्रः वीरभद्रः । अद्वैताचार्यस्य वंशीयाः अन्ये अनुयायिनश्च वङ्गराज्यस्य ग्रामप्रदेशेषु विशेषपरिश्रमम् अकुर्वन् । चैतन्यस्य युवसहवर्ती वक्रेश्वरपण्डितस्य अनुयायी गोपालगुरुगोस्वामी ओरिस्साराज्ये अन्यां शाखाम् आरब्धवन्तः । सम्प्रदायस्य आन्तरिकपूजाविधानेषु गोपालस्य तच्छिष्यस्य ध्यानचन्द्रस्य च महान् प्रभावः दृश्यते ।

चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता । ए सि भक्तिवेदान्त स्वामी प्रभुपादेन पाश्चात्यदेशं प्रति चैतन्यतत्त्वानि नीतानि । अयं भक्तिसिद्धान्तसरस्वती ठाकुरशाखायाः अनुयायी । भक्तिवेदान्तस्वामी समग्रे जगति चैतन्यस्य उपदेशानां प्रसाराय आन्दोलनम् आरब्धवान् -इस्कान् (International Society for Krishna Consciousness) नाम्ना । सारस्वतगुरवः आचार्याः, गोस्वामीवंशस्य सदस्याः मथुरा-पश्चिमवङ्ग-ओरिस्सादिषु प्रदेशेषु निवसन्तः भक्ताः, चैतन्ये आदरवन्तः अन्ये च कृष्ण-चैतन्ययोः मन्दिराणि पाश्चात्यदेशेषु २० तमशतकस्य अन्तिमभागे निर्मितवन्तः । २१ तमे शतमाने बह्वीषु शैक्षणिकसंस्थासु विष्णवभक्तिः कृष्णतत्त्वञ्च अध्ययनविषयः जातः अस्ति ।

सांस्कृतिकपरम्परा

सम्पादयतु

चैतन्यस्य सांस्कृतिकपरम्परा वङ्गराज्ये ओरिस्साराज्ये च दृढमूलं जातमस्ति । तत्रत्य निवासिनः बहवः तं कृष्णस्य अवतारमिति मत्त्वा पूजयन्ति प्रतिदिनम् । वङ्गस्य पुनरुत्थापकः इति कैश्चित् मन्यते । प्रसिद्धभाषातज्ञेन सलिमुल्लखानेन उच्यते - षोडशशतकं चैतन्यदेवस्य एव कालः । वङ्गे आधुनिककालः तदा एव आरब्धः ।' इति ।

बाह्यशृङ्खला

सम्पादयतु
  1. [१]
"https://sa.wikipedia.org/w/index.php?title=चैतन्यः_महाप्रभुः&oldid=482799" इत्यस्माद् प्रतिप्राप्तम्