छत्रपतिशिवाजीटर्मिनस्
छत्रपतिशिवाजीटर्मिनस् भारतस्य वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् भारतस्य किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।
छत्रपतिशिवाजीटर्मिनस् | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम्, |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | ९४५ |
क्षेत्रम् | एषियापेसिफिक् |
निर्देशाङ्कः | ii, iv |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.२००४ (२८तमं सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
इतिहासः
सम्पादयतुअस्य निर्माणं फ्रेड्रिक् विलियम् स्टीवन्स् इति वस्तुतन्त्रज्ञः १६.१४लक्षरूप्यकाणां व्ययेन क्रि.श. १८८८तमे वर्षे निर्मितवान् । एषः स्टीवन्स् अस्य मानचित्रम् एक्सल् हर्मन् इत्यनेन लेखितवान् । अस्य जलवर्णचित्रं स्वयं रचयित्वा तस्य शुल्कं स्वीकृत्य यूरोपदेशस्य प्रवासार्थं प्रस्थितवान् । तत्र अनेकानि रेल्वेनिस्थानकानि परिशीलनार्थम् अटितवान् । अन्तिम रूपणेन एतत् निस्थनकं लण्डन् नगरस्य सेण्ट् पैङ्क्रास् निस्थानकस्य प्रतिरूपमिव दृश्यते स्म । निर्मणास्य आरम्भात् दशवर्षाणाम् अवधौ कार्यं सम्पन्नम् । भारतस्य स्वातन्त्रपूर्वकालः इति कारनेन विक्टोरिया राज्ञ्याः प्रशासनं चलति स्म इति कारणेन तस्याः नम्ना रेल्निस्थानकस्य लोकार्पणम् अभवत् । क्रि.श. १९९६तमे वर्षे शिवसेनायाः अभ्यर्थनानुसारं नम्नापि भारतीकरणस्य सर्वकारीयनीत्यनुगुण अस्य निस्थानकस्य नाम परिवर्त्य, मराठाशूरवीरशासकस्य छात्रपतिशिवाजीवर्यस्य नाम महाराष्ट्रस्य राज्यसर्वकारः अकरोत् । क्रि.श. २००४तमवर्षस्य जुलै मासस्य द्वितीये दिने एतत् युनेस्कोसंस्थया विश्वपरम्परास्थानम् इति उद्घुष्टम् ।
भौतिकविशेषता
सम्पादयतुअस्य निस्थानकस्य भवनं विक्टोरियन् गोथिक् शैल्या निर्मितम् अपि तत्र तत्र भरतीयपरम्परागतयाः स्थापत्यकलायाः अपि केचनंशाः अनुसृताः । अस्य अन्तर्भागे काष्टनिर्मितचित्रकलाः, लोहैः पीतललोहेन च अलङ्कृताः जालन्द्राः, चिटिकागवाक्षाः, वृहत्सोपानमार्गालङ्कारः,इत्यादयः मुम्बैकलामहाविद्यालयस्य छात्राणां कुशलकर्मयोगदानम् अस्ति । एतत् निस्थानकं विशिष्टोन्नतं संरचनया, एकविंशतिशतकस्य स्थापत्यकलायाः विचित्रैः च विश्रुतः अस्ति । मुम्बै उपनगरीयरेल्वेयानानि येषां स्थानीययानम् इति कथयन्ति तानि सर्वाणि एतस्मात् निस्थानकात् एव निस्सरन्ति । महानगरस्य जनजीवनस्य सुविधायै अस्य योगदानं महत् अस्ति । इतः उपनगरीयनिस्थानकानां, नौकानिस्थानकस्य अन्यलघुनिस्थानकानां च सम्पर्कः अपि रेल्यनैः कृतः ।
वीथिका
सम्पादयतु-
क्रि.श.१९०३तमे वर्षे विक्टोरियाटर्मिनस् ।
-
शिवाजीटर्मिनस् इति नूतननामाङ्कितम् ।
-
मुबै सि.एस्.टि.
-
शतं वर्षपूर्वस्य किञ्चिच्चित्रम् ।
-
शिवाजीनिस्थानकस्य उपनगरीयस्टेशन् ।
-
निस्थानके जनसम्मर्दस्य कालः ।
बाह्यानुबन्धाः
सम्पादयतु- छत्रपति शिवाजी टर्मिनस युनेस्को जालस्थान पर
- छत्रपति शिवाजी टर्मिनस Mumbai
- छत्रपति शिवाजी टर्मिनस का सैटीलाइट नक्शा