छन्दश्शास्त्रस्य इतिहासः
छन्दश्शास्त्रस्य इतिहासः वेदानाम् ऋचाभ्यः आरभ्य अनन्तं यावत् गच्छति। (छन्दः पादौ तु वेदस्य) छन्दो वेदस्य पञ्चममङ्गमस्ति । पाणिनीयशिक्षायां कथितमस्ति यत् 'छन्दः । तु वेदस्य' यथा कोऽपि मनुष्य: पादाभ्यां प्रचलति तद्वत् वेदपुरुषस्य पादौ छन्दांकि पादेन हीनो जनः खञ्जः कथ्यते तथैव छन्दोभ्यो हीनो वेदपुरुषः खञ्ज एव । अर वेदाध्ययने छन्दसां ज्ञानमावश्यकं भवति ।
वेदमन्त्राणामुच्चारणस्य निमित्तं छन्दमा ज्ञानमत्यावश्यकमस्ति । छन्दसां ज्ञानं विना मन्त्राणामुच्चारणं पाठश्च समुचितरीत्या न भवति । प्रत्येकस्मिन् सूक्ते देवतायाः, ऋषेः, छन्दसश्च ज्ञानमावश्यकं भवति । कात्यायनस्येदं सुस्पष्टं कथनमस्ति यत्-यो वेदपाठको याजको वा जनः छन्दसः. ऋषेः, देवतायाश्च ज्ञानेन हीनः सन् मन्त्रस्याध्ययनं, अध्यापनं, यजनं वा करोति कारयति वा, तस्येदं प्रत्येक कार्य निष्फलमेव भवति । तथा चोक्तं सर्वानुक्रमण्यां ११ स्थले-'यो ह वा अविदितार्षेयच्छन्दो-दैवत-ब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्ने वा पात्यते या पापीयान् भवति' इति ।
मुख्यच्छन्दसां नामानि संहितायां ब्राह्मणग्रन्थेषु चोपलब्धानि भवन्ति । येन प्रतीयते यत्-अस्याङ्गस्योत्पत्तिः वैदिके युगे एवाभूत् । अस्य पंचमवेदाङ्गस्याधारग्रन्थोऽस्ति पिङ्गलाचार्यकृतं छन्दःसूत्रम् । अस्य महनीयस्य ग्रन्थस्य रचयिता पिङ्गलः कदा बभूवेत्यस्य पर्याप्तः परिचयो न मिलति । अयं ग्रन्थः सूत्ररूपे विद्यते, अष्टाध्यायेषु च विभक्तोऽस्ति । प्रारम्भात् चतुर्थाध्यायस्य सप्तमसूत्रपर्यन्तं वैदिकच्छन्दसां लक्षणानि सन्ति । तदनन्तरं लौकिकच्छन्दसां वर्णनमस्ति । अस्योपरि भट्टहलायुधकृता 'मृत सञ्जीवनी' नाम्नीव्याख्या सुप्रसिद्धा विद्यते । अस्य प्रकाशनमनेकस्थानेभ्योऽभूत् ।।
प्रचलितेषु लौकिककाव्येषु च्छन्दसः पादबद्धतायाश्च सम्बन्धस्तथा घनिष्ठो विद्यते यत्-पद्येष्वेव छन्दसां योजना भवति, गद्यञ्च छन्दोविरहितं भवति । वैदिकच्छन्दसः विषये इयं धारणा नितान्तं भ्रान्ता विद्यते । प्राचीनार्यपरम्परानुसारं गद्यमपि छन्दो युक्तं स्वीक्रियते । दुर्गाचार्येण निरुक्तस्य वृत्तौ कस्यापि ब्राह्मणस्य वाक्यं समुद्धतम्, यस्याशयोऽस्ति छन्दसा विना वाणी-उच्चरिता न भवति–'नाच्छन्दसि वागुच्चरति' इति । भरतमुनयोऽपि छन्दसा विरहितं शब्दं न स्वीकुर्वन्ति । तथा च तत्र निर्दिष्टं यत्-'छन्दहीनो न शब्दोऽस्ति, न छन्दः शब्दवजितम्' इति । अपरञ्च कात्यायनमुनेः नाम्ना प्रख्यातं 'ऋग्यजुष परिशिष्टम्'-पूर्वोक्ततथ्यस्य समर्थनं करोति, तद्यथा--
छन्दोभूतमिदं सर्व वाङ्मयं स्याद् विजानतः ।
नाच्छन्दसि न चापृष्टे शब्दश्वेरति कश्चन ॥
एषां समुद्धतानां मतानामनुसारेण वेदस्यतादृशः कोऽपि मन्त्रो नास्ति यः छन्दा माध्यमेन निर्मितो न भवेत् । फलतो यजुर्वेदस्य मन्त्रा अपि ये निश्चयेन गद्यात्मकाः सन्ति--छन्दोभिस्ते विरहिताः न सन्ति । अतएव प्राचीनाचार्यैः १ अक्षरादारभ्य १०४ अक्षरपर्यन्तं छन्दसां विधानं स्वग्रन्थेषु कृतम् ।
ऋग्वेद-सामवेदयोः समस्ता: मन्त्राः छन्दोबद्धाः ऋचः सन्ति । हृदयस्य कोमल भावानामभिव्यक्तेर्नैसर्गिकानि माध्यमानि छन्दांस्येव सन्ति । हृदि स्थितान आन्तरिकान मर्मस्पशिनो भावान् प्रकटीकरणाय कवयः छन्दसा कमनीयं कलेवरमेवान्वेषयन्ति । मन्त्राणां प्रधानमुद्देश्यं यज्ञेषु उपासनीयस्य देवस्य प्रसादनकार्यमेवास्ति, एतच्चापि निश्चयेन कथनीयमस्ति यत्-देवानां प्रसादनस्य मुख्यं साधनं मन्त्राणां सस्वरं गायन मेव भविष्यति ।
अनया दृष्टया अपि छन्दसां महत्ता निर्विवादाऽस्ति । कस्यापि मन्त्रस्य फलवत्ता तदैव भविष्यति यदा तस्य मन्त्रस्य द्रष्ट्रा ऋषिणा वणितेन देवेन च सह वयं तच्छन्दसापि परिचिताः स्मः । अतो मन्त्राणां छन्दोभिः सह परिचय स्थापनमेकं सविशेषमावश्यक कार्यमस्ति । अपरञ्च व्याकरणे दश लकाराणां विधाने पञ्चमो लेट् लकारः 'छन्दोमात्रगोचरः' 'छन्दस्' शब्दोऽत्र वेदवाचकः । वेद-छन्दसोः पर्यायवाचकत्वं विद्यते ।
सुप्रसिद्धन प्राच्यभाषावैज्ञानिकेन यास्केन 'छन्दः' इत्यस्य व्युत्पत्तिः 'छद्' धातुना विज्ञापितः । छन्दांसि 'छन्दः' इति कथनस्य रहस्यमिदमेवास्ति यत्--एतानि छन्दांसि वेदानामावरणानि सन्ति । आवरणसाधनानि सन्ति । निरुक्ते तेन कथितं यत्-'छन्दांसि छादनात्' इति । अस्यैवार्थस्य पुष्टौ श्रीमता दुर्गाचार्येणेतद् सार गर्भितं वाक्यं समुद्धृतम् – 'यदेभिरात्मानमाच्छादयन् देवा मृत्योबिभ्यतः तच्छन्दसा छन्दस्त्वम्' । पश्चात्काले वेदाय छन्दसः प्रयोग उपचारवशात् भवतिस्म । वेदानां बाह्यरूपं छन्दोबद्धत्वात् एष गौणप्रयोगोऽवान्तरकाले प्रचलितः ।
पाणिनिना संभाषणस्य भाषाय यत्र 'भाषा' शब्दस्य प्रयोगः कृतस्तत्रैव सूत्रेषु वैदिकभाषाय छन्दस्' इत्यस्य प्रयोगो विहितः । लौकिकसंस्कृतस्य दृष्टया वैदिकसंस्कृतस्य शब्द रूपेषु छन्दसु च नियमस्य सामान्याभावो विद्यते । अतश्छान्दस'शब्दस्यार्थ एव समभवत्-अनिश्चितः, अनियमतः अस्यैवार्थे चायं शब्दः साम्प्रतं बहुधा प्रयुक्तो भवति ।
वैदिकच्छन्दांसि
सम्पादयतुवैदिकच्छन्दसामिदमेव वैशिष्टयं विद्यते यत्-एतान्यक्षरगणनायां नियतानि सन्ति, अर्थात् तेप्वक्ष राणां गुरोः लघोः क्रमस्य न कोऽपि विशेषो नियमो विद्यते । अत एव कात्यायनेन 'सर्वानुक्रमण्यां' एतल्लक्षणं 'यदक्षरपरिमाणं तच्छन्दः' कृत मस्ति । परञ्च लौकिकसंस्कृतस्य छन्दःसु नैव नियमो वरीवति । तत्र तु वृत्तस्थानाम क्षराणां गुरुता लघुता च नियता विद्यते । एतदपि स्मर्तव्यं यत्-अनेकशताब्दीना मनन्तरं वैदिकच्छन्दोभ्य एव लौकिकच्छन्दसामाविर्भावो बभूव । लौकिकेषु छन्दस्सु चत्वारः पादाः भवन्ति, परञ्च वैदिकेषु छन्दस्सु नैष नियमो विद्यते ।
प्राच्यभारतीयाचार्याणां मतानुसारं वैदिकच्छन्दसां लक्षणनिर्धारणेऽस्य विषयस्य सविशेष महत्त्वं नास्नि यत्तेषु कोऽक्षरो लघुः कश्च गुरु विद्यते । परञ्चाचार्यशौनकेन 'ऋक्प्राप्तिशाख्ये'ऽस्य विषयस्य विचारः प्रस्तुतः । तेषां महत्त्वपूर्ण कथनमस्ति यदा क्षराणां पादे ( गायत्रे ) द्वादशाक्षराणां पादे ( जागते ) उपोत्तमाक्षरो लघुर्भवति । दशाक्षराणां पादे ( वैराजे ) एकादशाक्ष राणां पादे ( त्रैष्टुभे ) चोपात्तमोऽक्षरो गरु र्भवति । एतद् 'वृत्त'मुदीर्यते । शौनकस्यैतद् कथनं ऋग्वेदीय-च्छन्दस्सु सुसंगतं भवति । पाश्चात्यविद्वद्भिरप्येतादृशानां तथ्यानामाविष्कारः स्वानुशीलनबलेन कृतः।।
प्रत्येकस्याः संहितायाश्छन्दसां वर्णनमनुक्रमणीषु-अतिसूक्ष्मतया कृतमस्ति । कात्यायनेन ऋग्वेदस्य प्रत्येकस्य मन्त्रस्य छन्दसां निर्देशः 'सर्वानुक्रमण्यां महत्प्रामाण्येन कृतः । प्रातिशाख्येषु, विशेषत: ऋक्प्रातिशाख्ये छन्दसां विस्तृत विवेचनमस्ति । अपि च पिङ्गलस्य ग्रन्थे वैदिक-लौकिकच्छन्दसां सविशेषं वर्णनमस्ति । इमे ग्रन्थाः छन्दसां परिज्ञानाय विशेषरूपेणादरणीयाः सन्ति ।
इति तु पूर्वमेव प्रतिपादितं यत्--वैदिकेषु छन्दस्सु अक्षराणां गौरव-लाघवयोरु परिध्यानमप्रदाय तेपां संख्याया उपर्येव विचारः क्रियते । कदाचिदन्यपादानामक्षराणां समसंख्यके स्थितेऽपि---एकस्मिन् पादे कदाचित् संख्या न्यूना भवति कदाचिच्चाधिका। सेयं स्वाभिमताऽनियमितता नास्ति, अपि तु नियमेनैव क्रियते । एकस्य द्वयक्षरयोर्वा अधिकतया न्यूनतया वा छन्दः परिवर्तितं न भवति । तेन तत्स्वरूपस्य हानिन भवति । यदि कस्यापि छन्दसोऽक्षरमेकं न्यूनं भवेत्तदा तं 'निचत्' इति विशेषणेन संयोजयन्ति, एकमधिकं भवेच्चेत् तं 'भरिक' विशेषणेन योजयन्ति ।
नियमतस्त्रिपदाया अष्टाक्ष रायाः गायत्र्या अक्षराणां संख्या चतुर्विशत्येव भवति, परञ्च त्रयोविंशत्यक्षराणां गायत्री 'निचद् गायत्री' पञ्चविंशत्यक्ष राणाञ्च 'भुरिग गायत्री कथ्यते । अनेनैव प्रकारेण द्वयक्षरविरहिते छन्दसि 'विराट' यक्षराधिक्ये च 'स्वराट्' इति विशेषणेन योज यन्ति । अत्रैतद् स्मर्त्तव्यं यत् 'विराट् गायत्री' द्वाविंशत्यक्ष राणां 'स्वराट् गायत्री' च षड्विशत्यक्षराणां भवति । तथा चोक्तं सर्वानुक्रमण्याम् -
'ऊनाधिकेनैकेन निद्-भुरिजौ । द्वाभ्यां विराट स्वराजो' ।
अन्यच्च-
ऋक् प्रातिशाख्ये, तथैव 'एकद्वयूनाधिका सैव निवृद् ऊनाधिकाभुरिक्' इति ।
यदा कदा अवलोकने समायाति यत् छन्दः एकस्याक्षरस्याभावेन खञ्जमिव ( पादेन हीनम् ) प्रतीयते । अस्यामवस्थायां छन्दः नियमाबद्धं कर्तुमित्यभिप्रायेण एकमेवाक्षरं द्वयक्षरविधानस्य व्यवस्था 'सर्वानुक्रमण्यां' सुस्पष्टरूपेण प्रदत्ता विद्यते । यस्याः पारिभाषिकशब्द: 'व्यूहन'मस्ति । एतस्य सूत्रमस्ति-'पादपूरणार्थ क्षेप्र संयोगेकाक्षरीभावान् व्यूहेत्' अर्थात् पादपूरणार्थ क्षेप्रसंयोगं ( यकार-वकारयोः संयोगं) तथा च-सन्धिजन्यकाक्षराणां पृथग्भावेन कर्त्तव्यम् । तथोदाहरणानि कानिचित्
(१) यस्मिन् स्थाने 'यण' सन्धिना ( सन्धिद्वारेण ) यकारोऽथवा वकारो भवेत् तत्र तं पृथक्कृत्य मूलाक्षरयोरुच्चारणं विधेयमिति, यथा--'त्रिपदा उष्णिक इत्यस्योदाहरणे प्रदत्तमन्त्रस्य द्वितीयचरणे "पिबति सोम्यं मधु' इत्यत्र अष्टाक्षरषु एकस्याक्षरस्य न्यूनता विद्यते । अतः पादपूरणाय-'सौम्यं' इत्यस्य स्थाने 'सौमित्रम्" इत्युच्चारणीयम् । तथैव 'जगती' छन्दसः अन्तिम चरणे 'झुमद' इत्यस्य स्थाने 'दिउमद' इति एवमेव 'तत्सवितुर्वरेण्यं' इत्यत्र 'वरेण्यं' इति स्थाने च 'वरेणिअं' इत्युच्चारणीयम् ।
( २ ) वकारस्य पृथक्करणम्-अधिकांशमन्त्रेषु 'त्वं' इत्यस्योच्चारणं 'तुअम्' भवति । तथैव ‘क्ष्वि गच्छ स्वः पते' इत्यत्र 'स्वः' सुअः इति कथनीयम् ।
(३ ) रेफस्य पृथक्करणम्-अनेकमन्त्रेषु 'इन्द्र' इत्यस्योच्चारणं 'इन्दर' इति भवति, यथा-ऋग्वेदे, त्वं ह त्यदिन्द्रः' इत्यस्योच्चारणं भविष्यति-'तुअं ह त्यदिन्दरः'।
(४) 'ए' अथवा 'ओ' ( गुणस्य ) एवमेव 'ऐ' 'औ' इति ( वृद्धिस्वरयोः ) द्वयोः स्वरयोः पृथक्करणं भवति । तद्यथा-ज्येष्ठ =ज्ययिष्ठ, धेष्ठ = धयिष्ठ, प्रब्रह्म त्विति = ब्रह्म एतु इति । एतान्युदाहरणामि ऋग्वेदस्य सप्तममण्डलस्य सन्ति ।
(५) एकार-ओकारयोरनन्तरं लुप्ताकारं ( एङ: पदान्तादति ) इत्यस्य पुनः स्थापनं विधायोच्चारणीयम्, यथा-'इन्द्रं वाजेषु नोऽव' इत्यत्र 'नोऽव' नो अव । _ 'इन्द्रं सखायोऽनु संरभध्वम्' इत्यत्र-अनु इत्यस्योच्चारणेन पूरणीयम् ।
(६ ) दीर्घसन्धिनोत्पन्न माकारं द्वयक्षरयोः स्वरूपे परिवर्तनं कृत्वा समुच्चार णीयम् । यथा-ऋग्वेदे, 'वदन् ब्रह्मा वदती वनीयाम्' इत्यत्र 'ब्रह्म अवदतो' । 'आद्याद्याश्वः श्वः' इत्यत्र आद्याद्या= अद्य अद्या, तथा च 'वात' 'व अत' इति परिवर्तनीयम् ।
मुनित्रयेष्वन्यतमेन कात्यायनेन सर्वानुक्रमण्यां ऋग्वेदस्य समस्तानां मन्त्राणां छन्दसाञ्च निर्देशः कृतः । तदनुसारं ऋग्वेदे छन्दसां संख्या-अधोलिखिता वर्तते गायत्री = २४६७, उष्णिक् = ३४१, अनुष्टुप् = ८५५, बृहती = १८१, पंक्तिः = ३१२, त्रिष्टुप् = ४२५३, जगती-१३५८, पूर्णयोगः ९७६७ । अनुमानतः शतत्रयमन्त्राः = अतिजगती, शक्वरी, अतिशक्वरी, अष्टि, अत्यष्टयादिषु विविधे छन्दस्सु निबद्धाः सन्ति । एकपदा--ऋचः षट् ६, नित्यद्विपदा सप्तदशसंख्यकाः सन्ति । इत्थमवलोक नेन सुस्पष्टं भवति यत् ऋग्वेदे निष्टुबितिछन्दो विद्यते । यस्मिन् ऋचां द्विधा निबन्धनं विद्यते ।
वैदिकच्छन्दसां विभाग:
सम्पादयतुवेदप्रयुक्तेषु छन्दस्सु क्वचित् लघु-गुरु-मात्राणामनुगमनं नास्ति । तत्र केवलम क्षराणामेव गणना भवति । तेन समस्तानि वैदिक छन्दांसि अक्षरेष्वाश्रितानि सन्ति । तत्रभेदद्वयमवधारणीयम् । तत्र प्रथमे केवलमक्षरगणना छन्दस्सु भवति । येषु छन्दस्सु पादविभाजनस्यावश्यकता न भवति, तानि केवलमक्षरगणनानुसारीणि भवन्ति । द्वितीयप्रकारस्य छन्दस्सु अक्षराणां पादेषु नियमतो विभाजनस्य व्यवस्था विद्यते । तथा च तत्र पादेस्थितानामक्षराणां गणनायामाग्रहः, तस्मादिमे पादाक्षरगणनानुसारिणः कथ्यन्ते । अक्षरेणात्र तात्पर्य स्वरेणास्ति ।
वैदिकच्छन्दसां मुख्यभेदानां विषयेनकमत्यं तिष्ठति । परञ्च समस्ताना च्छन्दसां संख्या षड्विंशति स्वीकृता विद्यते । एषु प्राथमिकानि पञ्च च्छन्दांकि प्रयुक्तानि भवन्ति । तानि परित्यज्यावशिष्टानि च्छन्दांसि वयं त्रिषु सप्तकेपनि शक्नुमः । प्रयुक्तेषु छन्दस्सु 'गायत्री' प्रथमं छन्दः, यस्य प्रत्येकस्मिन् पादे षडक्षर भवन्ति । एतदथं प्रथमः सप्तकः गायत्र्याः प्रारभ्यते । एतत्पूर्वकानि पञ्च च्छा 'गायत्रीपूर्वपञ्चकस्येति नाम्ना विख्यातानि सन्ति । तथा च तेषां नामानि स्वरूप यथा-गायत्रीपूर्वकपञ्च च्छन्दसां नामानि -
१. मा ( अक्षराणां संख्या ४ ), २. प्रमा ( अष्टाक्षराणां समूहः ), ३. प्रतिमा ( द्वादशाक्षराणि ), ४. उपमा ( षोडशाक्षराणि ), ५. समा ( विशदक्षराणि )। एतानि नामानि ऋक्प्रातिशख्यानुसारीणि सन्ति । अन्येषु ग्रन्थेषु तु एतद्भिन्नानि नामानि सन्ति-यथा भरतस्य नाटयशास्त्रे-क्रमानुसारेण-उक्त, अत्युक्त, मध्यम, प्रतिष्ठा, सुप्रतिष्ठा चेति ।
(क) प्रथमसप्तकस्य सप्त च्छन्दसां नामानि तुल्यानि सन्ति । तानि च यथा गायत्री ( चतुर्विशत्यक्षरान्विता ), उष्णिक ( अष्टादशाक्षरयुता ), अनुष्टुप् ( ३२ अ०), बृहती ( ३६ अ० ), पंक्ति ( ४० अ० ), त्रिष्टुप् ( ४४ अ० ), जगती च ( अष्टचत्वारिंशत् अक्षरसमन्विता )।
( ख ) द्वितीयसप्तकस्य सप्त च्छन्दांसि 'अतिच्छन्दसः' नाम्ना प्रख्यातानि सन्ति । एषामक्षरसंख्या पूर्वापेक्षया चतस्रोऽधिका भवति ।
तत्र प्रथम-सप्तकस्य च्छन्दसां प्रयोगः देवानां स्तुत्यवसरे क्रियते ।
अतएवेतानि च्छन्दांसि 'दिव्य' इति नाम्ना गीयन्ते । द्वितीये सप्तके च मानवानां स्तुतिषु प्रयुक्तानि भवन्त्यतो मानवनाम्ना ख्याति लभन्ते ।
अपरञ्च--दिव्य-मनुष्ययोरुभयोः प्रकारयोजनेभ्यः प्रयुक्तत्वात् तृतीयः सप्तकः दिव्यमानुषयोर्नाम्ना सुविदितोऽस्ति ।
लौकिकसंस्कृतस्य च्छन्दसां विकासोऽप्येभिर्वैदिकश्छन्दोभिरभवत् । संस्कृतस्य कविभिः श्रतिमाधुर्य संगीतमयमारोहावरोहं मनसि निधाय एषां छन्दसामक्षराणां गौरवं लाघवं च दृष्ट्वा नियमितं कृतं छन्दः । अन्येषां लौकिकच्छन्दसामाविर्भाव काणां नामानि तु लुप्तान्यभवन्, परञ्चानुष्टुप् छन्दसः प्रणेतुर्महर्षे र्वाल्मीकेः कथा अद्यापि सुप्रद्धिा श्रूयते च व्याधबाणविद्धं क्रौञ्चमवलोक्य केनप्रकारेण कथं वा महर्षे हृद्गतः शोक: श्लोकरूपे परिणत इति कथनस्यावश्यकताऽत्र न प्रतीयते । तथा च
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥
अन्यच्च-
लोकत्वमापद्यत यस्य शोकः । ( रघु० १४१७०)
वैदिक त्रिष्टुप्छन्दसैव-एकादशाक्षरच्छन्दसां विशेषतः इन्द्रवज्रोपेन्द्रवजसमुत्पत्तिरुदयोवाऽभवत् । एवमेव जगत्या द्वादशाक्षरयुक्तानां छन्दसां वंशस्थादीनां तथा च सामगानामतिप्रियया शक्वर्या वसन्ततिलकायाः समुत्पत्तिर्बभूवेति । अनेनैवप्रकारेणान्येषां छन्दसामुत्पत्तिः उदयो वा ज्ञातव्या ।
छन्दसां शास्त्रीय भेदोपभेदविवरणम्
सम्पादयतुप्रथमसप्तकस्य निर्दिष्टानां छन्दसां भेदाः केवलमक्षरसंख्यानानुसारिषु छन्दस्तूं प्राप्यन्ते । इमेऽष्टविधाः भवन्ति भेदाः । तद्यथा--देव-असुर-प्राजापत्य-आर्ष-याजुष साम्न-आर्चब्राह्म च इत्येते भेदाः सन्ति च्छन्दसाम् । एष्वष्टसु च्छन्दस्सु अपि द्वौ चतुष्को स्तः–प्रथमतः चतुर्णा छन्दसां प्रथमश्चतुष्कश्चान्तिमानां चतुण्णां छन्दसां द्वितीय चतुष्कः । अत्र ध्यातव्यमस्ति यत्-प्रथमचतुष्कस्य दैव-आसुर-प्राजापत्य एषां त्रयाणां छन्दसां यावन्त्यक्षराणि भवन्ति तावन्त्येवाक्षराणि-आर्षच्छन्दसि भवन्ति, यद्धि अस्य चतुष्कस्यान्तिमं छन्दः विद्यते ।
अनेनैव प्रकारेण द्वितीयस्य चतुष्कस्य याजुष, साम्न आचं छन्दसां चाक्षराणां सम्मिलिता संख्या-अस्य चतुष्कस्यान्तिमे छन्दसि ब्राह्मे उपलब्धा भवति । एकमुदाहरणमत्र पश्यन्तु-गायत्री छन्दसः एष्वष्टसु । भेदेषु दृष्टिपातं कुर्वन्ति । गायत्र्याः दैव-आसुर-प्राजापत्यभेदेषु क्रमशः १, १५ तथा ८ अक्षराणि भवन्ति, तथा चैषां सम्मिलिता संख्या आर्षगायत्र्यां भवति । अनेनैव प्रकारेण गायत्र्याः याजुष-साम्न-आर्चभेदेषु च क्रमशः ६, १२, १८ अक्षराणि भवन्ति येषां सम्मिलिता संख्या ३६ अक्षराणां ब्राह्मी गायत्र्यामुपलब्धा भवति ।
एषु सर्वेषु आर्षप्रकार एव वेदेषु सर्वतोऽधिक: प्रधानः बहुशश्च प्रयुक्तश्चचितश्च प्राप्यते । अधुना ऋक्षु प्रयुक्तानां छन्दसां संक्षेपतमं विवरणमुपस्थाप्यते इति तु सर्वे विद्वांसः जानन्ति यत् ऋचः पादबद्धाः भवन्ति । अतः एषु पादबद्धाक्षराणां गणना भवति । आर्ष च्छन्दस एव भेदोपभेदानां वर्णनं शास्त्रेषूपलभ्यते ।
(१) गायत्री- अस्मिन् छन्दसि प्रमुखतया त्रयः पादा भवन्ति परञ्चार एकस्मादारभ्य पञ्चपादपर्यन्तमवलोक्यन्ते । परिणामतः इयं गायत्री-एक पदा, द्विपदा, त्रिपदा, चतुष्पदायाश्च रूपे ऋग्वेदे समुपलब्धाभवति । परञ्च मुख्यतया त्रिपदायाः गायत्र्या: प्राचुर्यमस्ति । अस्याः गायत्र्याः मुख्यभेदाः सन्ति-( क ) त्रिषु पादेषु एकैकाक्षरस्य न्यूनतायां सा 'पादनित्' गायत्री कथ्यते । (ख ) यदा त्रयो पादाः क्रमेण एकाक्षरेण वर्द्धमाना भवेयुः तदा सा वर्धमाना गायत्री कथ्यते । (ग) एतद्विपरीता पादाक्षरागायत्री-प्रतिष्ठा गायत्री नाम्न्या प्रख्याता विद्यते । (घ) यदा च पादानामक्षराणि क्रमशः सप्त + दश+ सप्त = चतुर्विशत्यक्ष राणि भवेयु स्तदा सा यवमध्या गायत्री निगद्यते । (ङ) यवमध्यात: विपरीता पादाक्षरसमन्विता (९+६+ = २४ ) गायत्री पिपीलिकामध्या प्रकीर्तिता विद्यते ।
(२) उष्णिक-अस्मिन् छन्दसि अष्टविंशत्यक्षराणि प्रायशश्च त्रयः पादाः भवन्ति । गायत्र्या अस्मिन् चतुर्णामक्षराणामाधिक्यं विद्यते । तेषां परिवद्धिताना मक्षराणां पादालोचनेनास्य छन्दसोऽनेके भेदाः भवन्ति । ( अ ) पुरउष्णिक - प्रथमे पादे द्वादशाक्षराणि, अन्तिमेषु पादेषु चाष्टौ--अष्टौ। (आ) कफुबुष्णिक - मध्यपादे द्वादश आदावन्ते चाष्टावष्टौ। (इ) परोष्णिक वा उष्णिक - अवसाने द्वादशाक्षराणि प्रारम्भस्य चाष्टावष्टौ। ( ई ) पिपीलिकामध्या उष्णिक एकादश+ षड़+ एकादश ( = अप्टाविंशति ) अक्षराणां सत्ता भनी
( ३ ) अनुष्टुप- अस्मिन् लघुकाये छन्दसि--अक्षराणां संख्या ही तथा च प्रधानतया चत्वारः पादाः भवन्ति । परञ्च--त्रिपादान संख्या विद्यते । एषामनेके भेदप्रभेदाः सन्ति । ( क ) घिरा अक्षर संख्या क्रमेण दश+देश+दश =प्रिंशदक्षराणि । ( ख ) विराट त्रिषु पादेषु--अक्षरसंख्या प्रत्येकस्मिन् एकादशाक्षराणि भवन्ति ।।. अनुष्टुप्---प्रत्येकस्मिन् पादे अष्टावष्टाक्षराणि भवन्ति । (ग)-चतुष्पादात् अनुष्टप् त्रिपादानुष्टुभामपि विशिष्टा ति। ( क ) विराङ् अनुष्टप-त्रिषु पादेषु दिशाक्षराणि भवन्ति ।
(४) ब्रहती-अस्मिन् छन्दसि-अक्षराणां संख्या पत्रिंशत् पादाश्च चत्वारो भवन्ति । अस्य प्रधानभेदाः सन्ति--( क ) पुरस्ताद बृहती- अस्मिन् पादेष्वक्षराणां संख्या क्रमश: द्वादश + अष्टौ + अष्टो+ अष्टौ=षट्त्रिंशत् भवन्ति । ( ख ) उरो ग्रहती- अथवा स्कन्धोग्रीवी न्यङ्कुसारिणी वा = द्वितीये पादे द्वादक्षराणां शेषपादे ध्वष्टावष्टावक्षराणि भवन्ति । (ग) पथ्याबृहती-तृतीये पादे द्वादशाक्षराणि, अन्येष त्रिषु चाष्टावष्टावक्षराणि भवन्ति । ( घ) उपरिष्टात् बृहती- अस्मिन् छन्दस्यन्तिमः पादः द्वादशाक्षराणां, शेषपादेषु चाष्टावष्टावक्षराणि भवन्ति । (ङ) सतोबृहती महावृहती-त्रिषु पादेषु प्रत्येकस्मिन् पादे द्वादशाक्षराणि भवन्ति । ऋक्सर्वानु क्रमण्यामेतत् छन्द: 'ऊध्र्वबृहती' इति संज्ञया विनिर्दिष्टमस्ति ।
(५ ) पंक्ति- बृहत्त्यपेक्षया चतुर्णामक्षराणां वृद्धया पंक्तिश्छन्दसः रचना भवति । एतच्च चत्वारिंशदक्षराणां भवति । अस्मिन् विशेषतश्चत्वारः पादाः भवन्ति । पञ्चपादात्मिका पंक्तिरतिस्वल्पा भवति । अस्याः भेदेषु केचन महत्त्वपूर्णाः भेदास्सन्ति । तद्यथा-विराटपंक्तिः- दश-दशाक्षराणां चत्वारो पादाः भवन्ति । सतो बृहतीपंक्तिः चतुर्ष पादेष्वक्षराणां संख्या क्रमशः १२+८+१२+८=४० अक्षराणि समस्तानि भवन्ति । विपरीतापंक्तिः- यस्मिन् पूर्वलक्षणस्य वैपरीत्यं तिष्ठति । तद्यथा ८+ १२+८+१२= ४० एवं क्रमेण । आस्तारपंक्तिः –यस्मिन् छन्दसि ८+ ८+ १२+ १२ अक्षराणां सत्ता क्रमशः पादेषु भवति। अपरञ्च पूर्वतः विपरीतावस्थामा यत्र द्वादश+दश+ अष्ट + अष्ट == अष्टत्रिंशदक्षराणां सत्ता भवति, तत् 'प्रस्तार पंक्तिश्छन्नः' कथ्यते । संस्तारपंक्तिः- यस्मिन् छन्दसि क्रमशः १२+८+ १२८ १० चत्वारिंशदक्षराणां पादाः स्युः । विष्टारपंक्तिः- यत्र ८+ १२+१२ + ८० क्रमशः पादाः स्यूस्तत्र विष्टारपंक्तिर्भवति । पथ्यापंक्तिः--अथवा फेवल पास यत्राष्टाक्षराणां पञ्चपादाः स्युस्तत्र पथ्यापंक्तिः केवलं पंक्तिर्वा भवति । १ समस्तमिन्द्रसूक्तं पंक्तावेव निबद्ध मस्ति ।
(६) त्रिष्टप- अस्मिन् छन्दसि चतुश्चत्वारिंशदक्षराणि चत्वारः । भवन्ति अस्य छन्दसोऽनेके भेदोपभेदाः भवन्ति । ( क ) त्रिष्टुप-यस्मिन् " क्षराणां चत्वारः पादाः भवेयुः । (ख ) अभिसारिणी- यस्मिन् छन्दसि १० १२+१२= चत्वारिंदक्षराणि प्रत्येकस्मिन् पादे स्युः । (ग) महावृहतीच्छन्दसः पञ्चपादेषु क्रमशः १२+८+८+८+८=चतुश्चत्वारिंशदक्षराणि विद्य मानानि स्युः । (घ) यवमध्यात्रिष्टुप् - यस्य पञ्चपादेषु क्रमशः ८+ ८+ १२ +७+८= चतुश्चत्वारिंशदक्षराणि विद्यमानानि स्युस्तत्र यवमध्या त्रिष्टुप् भवति ।
(७) जगती-अस्मिन् छन्दसि अष्टचत्वारिंशदक्षराणि चत्वारः पादाश्न भवन्ति । अत्रायमाशयो यत्-प्रत्येकस्मिन् पादे द्वादशाक्षराणि भवन्ति तदेव जगत्याः सामान्यं स्वरूपं विद्यते । अस्य छन्दसोऽनेके भेदाः भवन्ति । तेषु ( क ) उपजगती यत्र प्रथमतः द्वयोः पादयोः द्वादशाक्षराणि स्युः अन्तिमे च द्वयोः पादयोः एकादशा क्षराणि भवेयुरेतत् 'उपजगती' छन्द: नितरां प्रसिद्ध मस्ति । ( ख ) महासतोबृहतो यस्मिन् छन्दसि केऽपि त्रयः पादाः अष्टाप्टाक्षराणां स्युः तथा च द्वो पादौ द्वादश द्वादशाक्षराणां भवेयुस्तत्रतत् छन्दः । इयमेव ‘पञ्चपदा' जगती इत्यपि कथ्यते । ( ग ) महापंक्तिजगती- यत्र अष्टाष्टाक्षराणां षट् पादाः भवन्ति तत्र महापंक्तिजगती भवति।
द्वितीय-तृतीयसप्तकयोश्छन्दांसि 'अतिछन्दसः' नाम्ना प्रख्याताः सन्ति । आचार्य शौनकस्य वेङ्कटमाधवस्य च कथनानुसारं द्वितीयसप्तकस्यच्छन्दांसि तु ऋग्वेदे _ विद्यमानानि सन्ति, तृतीयसप्तकस्यच्छन्दसामत्रात्यन्ताभावोऽस्ति । अतएव 'ऋक् सर्वानुक्रमण्यां तृतीयसप्तकस्योल्लेखो न मिलति । अपरञ्च ऋप्रातिशाख्ये आचार्य शौनकस्य स्पष्टं कथनमस्ति-सर्वादशतयीप्वेता, उत्तरास्तु सुभेपजे' । अस्यायमाशयः गायत्र्या आरभ्य-अतिधृतिपर्यन्तं चतुर्दशच्छन्दांसि ऋग्वेदस्य मन्त्रेषु उपलब्धाः भवन्ति तदुत्तरञ्च अग्रिमसप्तकस्य छन्दांसि सुभेषजऋक्षु मिलन्ति । अपि च वेङ्कटमाधवेनापि छन्दोऽनुक्र मण्यामस्य तथ्यस्यावृत्तिविहिता । तद्यथा
'चतुरधिकच्छन्दांसि दर्शितानि चतुर्दश ।
यानि दशतयीष्वासन् उत्तराणि सुभेषजे ॥
द्वितीयसप्तकस्य छन्दसां निरूपणमधोलिखितानुसारेण विद्यते । तद्यथा -
१. अतिजगती-द्विपञ्चाशदक्षराणामस्मिन् छन्दसि पञ्चपादाः भवन्ति । तत्रो. दाहरणं यथा-'तमिन्द्रं जोहवीमि मघवानुग्रं' ऋग्वेदे ८।९७।१३ इत्यत्र ।
२. शक्वरी-पट्पञ्चाशदक्षराणि, सप्तपादाः, उदा० प्रोष्वस्मै० ( ऋ० १०॥ १३३।१ )।
३. अतिशयरो-पष्टयक्षराणि, पञ्चपादा: १६+१+१२+८+८= ६०, । उदा०–'सुपुमा यातमद्रिभिः' । 1. ४. अप्टि - चतुप्पष्ट यक्षराणि, पञ्चपादाः (१६ + १६ + १६+८+८) । उदा० 'त्रिकद्रुकै महिपो यवाशिरं' ।
५. अत्यष्टि - अष्टपष्टयक्षराणि, सप्तपादाः, उदा०-'अदर्शि गातुरवे वरीयसी'। ६. धृति-द्विसप्तत्यक्षराणि, सप्तपादाः, उदा०-'सखे सखायमभ्या०' । ७. षट्सप्तत्यक्षराणि, अष्टौ पादाः, उदा०-‘स हि श? न मारुतं०' ऋक्प्रातिशाख्ये ( १७।४६, ४७ ) ऋग्वेदस्य सर्वाधिकयो: ऋचोः निर्देशो विद्यते । यी कर्षः स्थास्यति--अर्थात् व्यूहे न कृते सति 'अवर्मह इन्द्र' सर्वाधिक महदका यद्धि भाष्यकारस्य उवटस्यानुसारं सप्तत्यक्षरवती विद्यते । विकर्षे ( व्यूहे ) च शर्धो न मारुतं' सर्वाधिका महती भविष्यति अथवा उव्वटानुसारं पट्सप्तत्यक्षरा मष्टपादयुक्ता ऋचा विद्यते।
अनेन प्रकारेण संक्षेपेण वैदिकछन्दसां सामान्यं विवरणमुपस्थापितमस्ति । विस्तरेण तु पिङ्गलच्छन्दः सूत्रेऽवलोकनीयमिति ।