अष्टाङ्गयोगः ( /ˈəʃhtɑːnɡəjɡəh/) (हिन्दी: अष्टाङ्ग योग) अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः । पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि ।।२.२९।। इति । अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति [१] । एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि । अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति । पतञ्जलिमुनिः अष्टाङ्गयोगस्य भागद्वयम् अकरोत् । बहिरङ्गः, अन्तरङ्गश्चेति [१]

अष्टाङ्गयोगःYoga Meditation Pos-410px.png

अष्टाङ्गयोगःयोगः

Portal:HinduismPatañjali88.JPG

प्रवेशद्वारम्:योगदर्शनम्
प्रवेशद्वारम्:योगप्रवेशः

१. बहिरङ्गः :- अष्टाङ्गयोगस्य बहिरङ्गभागे यम-नियम-आसन-प्राणायाम-प्रत्याहाराः अन्तर्भवन्ति । शरीरादीनां बाह्यलक्ष्यानि साधयितुम् बहिरङ्गयोगस्य साधना भवति ।

२. अन्तरङ्गः :- अष्टाङ्गयोगस्य अन्तरङ्गभागे धारणा-ध्यान-समाधयः अन्तर्भवन्ति । अन्तरङ्गभागस्य एव नामान्तरं ‘संयमः’ इति । अन्तरङ्गयोगस्य पृष्ठे साधकस्य लक्ष्यं वस्तुनिष्ठं नापितु आत्मनिष्ठं भवति, यत् आत्मचिन्तनेन सिद्ध्यते ।

साधकाय राजयोगस्य प्रत्येकसोपानम् आगामिसोपानस्य कृते पृष्ठभूमिकात्वेन कार्यं करोति । तेषां सोपानानां निश्चितं सीमाङ्कनं न भवति । यतो हि सोपानस्य स्थितेः ज्ञानं केवलम् अनुभवेनैव भवितुम् अर्हति । राजयोगस्य उत अष्टाङ्गयोगस्य साधानायाः प्रारम्भिके काले साधकः यदि साधकसमूहेन सह निवसेत्, तर्हि योग्येन वातावरणेन तस्य विकासः शीघ्रं भवति [२] । अतः योगिनः वदन्ति यत्, प्रारम्भिके काले योग्याचार्यस्य सान्निध्ये योगाभ्यासेण सर्वासां समस्यानां नाशः भवति इति ।

अन्तर्विषयाः

यमःसम्पाद्यताम्

अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रहा यमाः ।।२.३०।। इति पातञ्जलयोगसूत्रे यमाः प्रोक्ताः । अहिंसा, सत्यम्, अस्तेयं, ब्रह्मचर्यम्, अपरिग्रहः चेति यमाः [३]

अहिंसासम्पाद्यताम्

अहिंसा अर्थात् प्रेम, अन्यस्य अहितं न करणीयं, जीवहत्या न करणीया, अन्येभ्यः कष्टं नोत्पादनीयं, शत्रुतायाः विचाराः मनसि नोद्भवेयुः इत्यनुसन्धेयम् [२] । अहिंसा त्रिधा भवति । बौद्धिकी, वाचिकी, शारीरिकी चेति ।

१. बौद्धिकी अहिंसा

‘आत्मवत् सर्वभूतेषु’ इत्यस्य अनुसन्धानं विधेयम् । अर्थात् सर्वेषु भूतेषु एकस्य आत्मतत्वस्य एव दर्शनं करणीयम् । बौद्धिकहिंसा यदा मानवस्य व्यवहारे अन्तर्भवति, तदा अन्यस्मात् प्राप्तं कष्टम्, अपमानं च तस्य बुद्धौ उत्तेजनां नोद्भावयति ।

२. वाचिकी अहिंसा

कठोरवचनैः प्रत्येकमनुष्यः आहतः भवति । शस्त्रेण जातः आघातः कालान्तरे विस्मर्तुं शक्यते, परन्तु वाचिकशस्त्रेण आहतं मनः दीर्घकालं यावत् पीडाम् अनुभवति । अतः कटुवचनैः अन्यस्य अपमानं, वधस्य आज्ञादानम्, अनिष्टं कर्तुं परामर्शदानं च वाचिकहिंसात्वेन परिगण्यते । एतेषां परित्यागं कृत्वा मधुरवचनं, प्रियकार्यं, हितकारीबोधनम्, उत्साहवर्धकवचनं च अहिंसायाः मार्गाय उत्तमं मन्यते ।

३. शारीरिकहिंसा

यदि बौद्धिकी-वाचिकहिंसायाः अभ्यासः भवति, तर्हि शारीरिकी अहिंसा स्वतः एव सिद्ध्यति ।

‘अहिंसा प्रतिष्ठायां तत् सन्निधौ वैर त्यागः’ अर्थात् अहिंसायां सुदृढे साधके परिव्याप्तः वैरभावः स्वतः एव नष्टः भवति । साधकः यदा अहिंसायां प्रतिष्ठितः भवति, तदा तं परितः एकस्याः आभायाः रचना भवति । यः कोsपि मनुष्यः तस्याम् आभायां यदा भवति, तदा सः अहिंसायाः विचारैः स्वयमेव परिपूर्णः भवति । अहिंसायाः सिद्धेः मापदण्डः अस्ति यत्, अहिंसकमनुष्यस्य समीपम् आगत्य हिंसकपशवः, हिंसकमनुष्याः च अहिंसायाः अनुगामिनः भवन्ति ।

सत्यम्सम्पाद्यताम्

भारतीयसंविधानस्य ध्येयवाक्यम् अस्ति यत्, ‘सत्यमेव जयते’ इति । परन्तु एषः केवलं भारताय नापि तु मनुष्येभ्यः सन्देशः वर्तते । बुद्ध्या, वचसा, कर्मणा च यत् समानं भवति तदेव सत्यम् अङ्गीक्रियते [४] । सत्यं द्विविधं प्रोक्तम् । बौद्धिकं, वाचिकं चेति ।

१. बौद्धिकसत्यम् :- राग-द्वेषरहितः बुद्ध्या जातः निश्चयः एव सत्यत्वेन परिगण्यते । धर्म-अधर्मयोः, वाद-प्रतिवादयोः यः सन्तुलितनिर्णयः भवति, तदेव सत्यम् । सः सन्तुलितनिर्णयः बुद्ध्याः कार्यम् अस्ति । अतः बुद्धौ निश्चयात्मकता एव बौद्धिकसत्यम् अस्ति ।

२. वाचिकसत्यम् :-

सत्यं ब्रूयात् प्रियं ब्रूयात्, मा ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयात्, एषः धर्मः सनातनः ।।

उक्तस्य श्लोकस्य आशयः अस्ति यत्, सत्यं वदन्तु, परन्तु तत् सत्यं प्रिय(मधुर)शब्दैः युक्तं स्यात् । अप्रियं सत्यं मा वदतु । प्रिय(मधुर)शब्दैः युक्तम् असत्यम् अपि मा वदतु ।

बौद्धिकसत्यस्य प्रतिष्ठानेनैव वाचिकसत्यस्य स्थितिः सुदृढा भवति । अन्यथा लोभेन, क्रोधेन, मोहेन, रागेण, द्वेषेण, भयेन च वशीभूतः मनुष्यः मिथ्याभाषणं कर्तुं बाद्ध्यः भवति । विचारे, वचने च सम्भूतस्य सत्यस्य व्यवहारे अनुसरणम् एव शारीरिकसत्यत्वेन परिगण्यते ।

सत्यस्य पालनेन साधके एकस्याः अद्भुतशक्त्याः आविर्भावः भवति । साधकस्य मनः गङ्गाजलवत् निर्मलं भवति । सत्यस्य साधकः स्वेप्सितानि वस्तूनि प्राप्तुं समर्थः भवति । तस्य वाणी सिद्धवाणी भवति । यस्य कस्यापि स्थितेः बुद्ध्या निश्चयं कृत्वा तं निश्चयं वाण्या प्रकटं कृत्वा वाण्यनुसारं व्यवहारः एव पूर्णसत्यत्वेन परिगण्यते । सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् इत्यनेन सूत्रेण सिद्ध्यति यत्, सत्यनिष्ठव्यक्तेः वचनानि सर्वदा फलीभूतानि भवन्ति इति ।

अस्तेयम्सम्पाद्यताम्

अन्यस्य अधिकारस्य वस्तुनः मनसा, वाण्या, शरीरेण च अचौर्यम्, अनयनम् एव अस्तेयत्वम् [५] । अस्तेयं त्रिविधम् । बौद्धिकं वाचिकं शारिरीकञ्च ।

१. बौद्धिक-अस्तेयम् :- ‘परद्रव्येषु अनभिध्याम्’ अर्थात् अन्यस्य द्रव्येषु कुदृष्टपातः अपि न करणीयः, अन्यस्य वस्तुनः/द्रव्यस्य विषये चिन्तनम् अपि न करणीयम् इति ।

२. वाचिक-अस्तेयम् :- स्वस्य वचनेन अपि चौर्यकर्मणि, लुण्ठनकर्मणि च अन्ये न प्रेरणीयाः । सामान्यतः दृश्यते यत्, मनुष्यः अन्यस्य द्रव्यं प्राप्तुम् असमर्थः अस्ति, तर्हि सः अन्यान् प्रेरयित्वा धनप्राप्त्यै प्रयासं करोति । तदपि वाचिक-अस्तेये अन्तर्भवति । उपदेशकाले, पाठनकाले च तथ्यम् अज्ञात्वापि तद्विषये मिथ्याकथनं, प्रश्नस्य अपूर्णोत्तरं, प्रश्नस्य उत्तरमेव न दीयते इत्यादयः वाचिक-अस्तेयस्य उल्लङ्घत्वेन परिगण्यन्ते ।

३. शारीरिक-अस्तेयम् :- विचार-वचनाभ्यां सह शारीरिकक्रियया अपि अन्यस्य द्रव्यस्य, वस्तुनः च चौर्यं, लुण्ठनं न क्रियते, तत् शारीरिकम् अस्तेयम् उच्यते । छल-बल-दलैः, स्वामिनः आज्ञया विना वस्तुनुनः उपरि स्वीकरणं, स्पष्टतया शारीरिक-अस्तेयं कथ्यते । बस्-याने स्थित्वा यस्य स्थलस्य कृते चिटिका गृहीता, तस्मात् स्थलात् अग्रे गमनम् अपि अस्तेये अन्तर्भवति ।

ब्रह्मचर्यम्सम्पाद्यताम्

भारतीयसंस्कृतौ एव एषः शब्दः प्राप्यते [२] । अनेन भारतीयमूल्यानां गहनतायाः ज्ञानं भवति । अन्यासु भाषासु ब्रह्मचर्यशब्दस्य अनुवादः स्यात्, परन्तु ब्रह्मचर्यशब्दस्य समानार्थिशब्दत्वेन तस्य गणना न भवति । सामान्यतः व्यवहारे ब्रह्मचर्यम् अर्थात् असम्भोगः एव परिगण्यते । परन्तु महासमुद्रे स्थिता हिमस्य लघ्वी गिरिका द्रष्टुं शक्यते, परन्तु समुद्रस्य अन्तः सा गिरिका न अपि तु पर्वतमालिकाः भवन्ति । यां गिरिकां वयं पश्यामः, सा गिरिका तु पर्वतमालायाः १०% अपि भवति । अन्तः स्थिता विशालपर्वतमाला ९०% भवति । तथैव ब्रह्मचर्यस्य ९०% ज्ञानम् (अर्थः) योगरूपिसमुद्रे निहितम् अस्ति [२]

एतेन ब्रह्मचर्येण, देवादेवा देवत्वमाप्नुवन् ।
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ।।४४.१०।। उद्योगपर्व महाभारतम्

अर्थात्, ब्रह्मचर्यम् इहाभ्युदयस्य मोक्षप्राप्तेश्चापि साधनमिति । ब्रह्मणः स्वरूपे विचरणम् अर्थात् ब्रह्मणः स्वरूपस्य मननम् एव ‘ब्रह्मचर्य’ शब्दस्यार्थः । ब्रह्मचर्यं त्रिविधं प्रोक्तम् । बौद्धिक-वाचिक-शारिरीकाणि चेति ।

१. बौद्धिकब्रह्मचर्यम् :- यस्य कस्यापि विषयस्य भोग-भावनाः मनसि नोद्भवनम् एव बौद्धिकब्रह्मचर्यम् । नारीस्मरणं, स्त्रीचर्चां, सौन्दर्याकर्षितः सन् वारं वारं स्त्रीदर्शनं, भोग-विलासस्य चर्चाचिन्तने, मैथुनं च न करणीयम् इत्येतानि बौद्धिकब्रह्मचर्ये अन्तर्भवन्ति ।

२. वाचिकब्रह्मचर्यम् :- वाचिकब्रह्मचर्ये केवलं वाणीसंयमस्य एव बाहूल्यम् अस्ति । अश्लीलगीतानां गायनं, एकान्तेषु अश्लीलचर्चा, स्त्रीसौन्दर्यस्य स्तुतिः च न करणीयम् इत्येतानि वाचिकब्रह्मचर्ये अन्तर्भवन्ति ।

३. शारीरिकब्रह्मचर्यम् :- यः साधकः बौद्धिक-वाचिकब्रह्मचर्यस्य पालनं करोति, तस्य कृते शारीरिकब्रह्मचर्यं सरलं भवति । उपस्थादिभिः कर्मेन्द्रियैः शारीरिकब्रह्मचर्यस्य पालनं भवति । स्त्रीस्पर्शः, आलिङ्गनं, चुम्बनं, विपरितलैङ्गिकैः सह सम्पर्कः च न करणीयः इत्येतानि एव शारीरिकब्रह्मचर्ये अन्तर्भवन्ति ।

अपरिग्रहःसम्पाद्यताम्

सत्यान्वषकः, अहिंसकः साधकः परिग्रहं कर्तुं न शक्नोति । परिग्रहः अर्थात् वस्तुसङ्ग्रहः । परमात्मा परिग्रहं न करोति । सः स्वावश्यकतायाः अनुसारं नित्यम् आवश्यकवस्तूनि जनयति [२] । अतः साधकस्य तस्मिन् परमात्मनि दृढविश्वासः आवश्यकः यत्, परमात्मा तस्य आवश्यकतायाः वस्तूनि नित्यम् उत्पन्नं करिष्यति एव इति । शब्द-स्पर्श-रूप-रस-गन्धादीनां सम्बद्धानां भोगवस्तूनाम् असङ्ग्रहः एव अपरिग्रहः कथ्यते [२] । अपरिग्रहः त्रविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-अपरिग्रहः :- गुणदोषादीनां निर्णेत्री बुद्धिः यदा ग्रहण-रक्षणादिनः अकल्याणकारिविषयान्, हिंसादीनि पापानि, काम-क्रोध-लोभ-मोह-भयादिनः च अस्वीकारं करोति, तदा साधकाय बौद्धिक-अपरिग्रहः सिद्ध्यति ।

२. वाचिक-अपरिग्रहः :- सर्वात्मना वाणीसंयमः वाचिक-अपरिग्रहत्वेन परिगण्यते । यथा – असत्यं, छल-कपटयुक्ताः शब्दाः, निन्दाकरणम्, वाण्याः दुरुपयोगः च अपरिग्रहे वर्ज्यः अस्ति । मौनं वाचिक-अपरिग्रहस्य महासाधनम् अस्ति ।

३. शारीरिक-अपिग्रहः :- स्वस्य आवश्यकतानुसारं धन-धान्यस्य, वस्त्र-भूमेः च उपार्जनं, संग्रहणं शारीरिक-अपरिग्रहत्वेन परिगण्यते । ‘तेन त्यक्तेन भुञ्जीथाः’ इत्यादेशानुसारं प्राप्तवस्तुनः त्यागभावेन उपयोगः करणीयः । स्वपरिवारस्य मोहवशेनापि पदार्थानां संग्रहः न करणीयः ।

नियमःसम्पाद्यताम्

शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ।। २.३२ ।। इति पतञ्जलियोगसूत्रे प्रतिपादितं वर्तते । शौचम्, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानं च नियमाः प्रोक्ताः [३]

शौचम्सम्पाद्यताम्

शौचम् त्रिविधं बौद्धिक-वाचिक-शारीरिकञ्चेति [२]

१. बौद्धिक-शौचम् :- काम-क्रोध-मोह-द्वेष-ईर्ष्या-अभिमान-कुविचारादीनां त्यागेन, दया-सहजता-नम्रता-अहिंसा-सत्यादीनां निरन्तरधारणेन च बुद्धिः शुद्धा भवति ।

२. वाचिक-शौचम् :- कठोरवचन-निन्दा-छल-असत्यवचानानां त्यागः, सत्य-मधुरवचन-स्नेह-सान्त्वादीनां सेवनं च वाचिकशौचत्वेन परिगण्यते ।

३. शारीरिक-शौचम् :- मृत्तिका-गोमय-गाजनीमृत्तिका-उबटन-त्रिफला-रीठादीनां जलेन सह उपयोगं कृत्वा शरीरस्य निर्मलीकरणम् एव शारीरिक-शौचं भवति । विरेचन-बस्ति-नेति-धौति-वमन-दन्तधावन-ब्रह्मदन्तधावन-जलनेति-आदीनां माध्यमेन शरीरस्य आन्तरिकभागानां शुद्धिः अपि शारीरिकशौचे अन्तर्भवति । सात्विकं, न्यायपूर्णार्जितधनेन प्राप्तं, परिमितम् अन्नं शरीरशौचार्थम् अत्युत्तमम् उक्तम् अस्ति । हिंसा-चौर्य-व्यभिचार-मांस-मदिरा-मैथुन-आदीनां परित्यागः एव शारीरिक-शौचम् उच्यते ।

सन्तोषःसम्पाद्यताम्

सुखे-दुःखे, लाभे-हानौ, यशे-अपयशे, सिद्धौ-असिद्धौ, अनुकूलतायां-प्रतिकूलतायां च सर्वदा सन्तुष्टिः एव सन्तोषः उच्यते [२] । सन्तोषः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-सन्तोषः :- इच्छायाः दासः संसारस्य दासः भवति । यः स्व-ईच्छां दासीं भावयति, सः संसारस्य स्वामी भवति । अतः लोभ-मोह-राग-द्वेष-आदीनां त्यागं कृत्वा सन्तोषस्य आश्रयः कर्तव्यः ।

२. वाचिक-सन्तोषः :- चाटुकारिता-मिथ्यावचनयोः त्यागः वाचिक-सन्तोषः उच्यते । कटुवचनानि श्रुत्वा, अपमानितः भूत्वा अपि आवेशेन दुर्वचनानां मुखात् निर्गमनम् एव वाचिक-सन्तोषत्वेन परिगण्यते ।

३. शारीरिक-सन्तोषः :- शारीरिकहिंसा-व्यभिचार-चौर्य-बलात्कार-अत्याचार-कुकर्मादीनां त्यागः एव शारीरिकसन्तोषत्वेन परिगण्यते । दीनानां, दुःखितानां, रुग्णानां सेवा, ब्रह्मचर्यपालनं, अनुष्ठानम् इत्यादीनां सेवनं शारीरितसन्तोषः उच्यते ।

तपःसम्पाद्यताम्

मनसा, इन्द्रियैः च संयमेन धर्मपालनम् एव तपः उच्यते । धर्मपालनाय कष्टं सोढव्यं, बुभुक्षा, पीपासा, शैत्यम्, औष्ण्यम् इत्यादीनि अपि सोढव्यानि भवन्ति [२] । तपस्त्रिविधम् । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।

१. बौद्धिकं तपः :- मन-बुद्धि-चित्तयोः शान्तिः, स्वच्छता, पवित्रता, मानसवृत्तीनां निग्रहणं बोद्धिकतपः उच्यते ।

२. वाचिकं तपः :- क्रोधः, असत्यभाषणम्, अपमानास्पदानि वाक्यानि, घृणापूर्णवचनम् इत्यादीनां त्यागः वाचिकं तपः उच्यते ।

३. शारीरिकं तपः :- बुभुक्षायाः, पीपासायाः, शैत्यस्य, उष्णतायाः च सहनम् एव शारीरिकं तपः उच्यते । आत्मदर्शिनां, गुरूणां, विदुषानां च सेवा-सत्कारः, शुद्धता, सरलता, ब्रह्मचर्यपालनम्, अहिंसा इत्यादीनां सद्गुणानां दृढावलम्बनम् एव शारीरिक-तपत्वेन परिगण्यते ।

स्वाध्यायःसम्पाद्यताम्

कल्याणकारिशास्त्राणाम् अध्ययनम्, इष्टदेवानां नामजपः, मन्त्रपाठः, स्तोत्रादीनां पठनम्, सत्साहित्यानां पठनं पाठनं च स्वाध्यायत्वेन परिगण्यते [२] । स्वाध्यायः त्रिविधः प्रोक्तः । बौद्धिकः, वाचिकः, शारीरिकश्चेति ।

१. बौद्धिक-स्वाध्यायः :- ॐकारस्य , गायत्रीमन्त्रस्य, गुरुमन्त्रस्य च निरन्तरं मननम् एव बौद्धिक-स्वाध्यायत्वेन परिगण्यते ।

२. वाचिक-स्वाध्यायः :- मन्त्राणोच्चारणं, प्रार्थानां, स्तुतिपठनं, पुराणानां कथनम् इत्यादीनां नित्यास्वादनम् एव वाचिकस्वाध्यायत्वेन परिगण्यते ।

३. शारीरिक-स्वाध्यायः :- सर्वप्रकारकेषु अध्ययनेषु शरीरं साधनत्वेन सर्वदा भवत्येव । स्तुतीनां, श्लोकानां, प्रार्थनानाम्, ईश्वरकथानां च लेखनं शारीरिकस्वाध्यायत्वेन परिगण्यते ।

ईश्वरप्रणिधानम्सम्पाद्यताम्

साधकः आदिनं मनसा, वचसा, शरीरेण च यानि कर्माणि करोति, तानि सः ईश्वराय समर्पयति । सा समर्पणस्य प्रक्रिया एव ईश्वरप्रणिधानत्वेन परिगण्यते [२] । ईश्वरप्रणिधानं त्रिविधं प्रोक्तं । बौद्धिकं, वाचिकं शारीरिकञ्चेति ।

१. बौद्धिक-ईश्वरप्रणिधानम् :- साधकस्य बुद्ध्या जायमानाः क्रियाः ईश्वरप्राप्तेः लक्ष्यं साधितुम् एव भवन्ति । यथा – तर्कः, निश्चयः, विश्वासः, स्मरणम् इत्यादयः । मनसि पूर्णनियन्त्रणं कृत्वा बुद्धिः मनसः विषयान् प्रति गमनं स्थगयति । तां बुद्धिम् एव चित्ते विलीनां कृत्वा साधकः इन्दियाणां व्यापारान् उपशामयति । एषा प्रक्रिया एव बौद्धिक-ईश्वरप्रणिधानम् उच्यते । बौद्धिकप्रणिधाने साधकस्य मनसि एकं गहनं चिन्तनं भवति यत्, यत् किमपि अहं कुर्वन् अस्मि उत यत् किमपि मया क्रियमाणमस्ति, तत् सर्वम् अहम् ईश्वरस्य आदेशनैव कुर्वन् अस्मि इति ।

२. वाचिक-ईश्वरप्रणिधानम् :- वाणीद्वारा ईश्वरस्य गुणानां वर्णनं, स्तुतिगानं, प्रार्थानागानं, ॐकारस्य गानं, गायन्त्रीमन्त्रजपः इत्यादीनि कार्याणि वाचिक-ईश्वरप्रणिधानत्वेन परिगण्यन्ते ।

३. शारीरिक-ईश्वरप्रणिधानम् :- साधकस्य शरीरं रोगादिभ्यः दुर्बलं भवेत् चेत्, साधकः बौद्धिक-ईश्वरप्रणिधानं, वाचिक-ईश्वरप्रणिधानं च कर्तुम् असमर्थः भवति । बुद्धिः चिन्तनादिषु कार्येषु असर्था भवति, वाक् अपि ईश्वरस्य गुणगाने, स्तुतिपाठे च असर्था भवति । अतः शारीरिक-ईश्वरप्रणिधानस्य मुख्यता वर्तते । मनसा, वाचा, शरीरेण च यानि कर्माणि भवन्ति, तेषाम् ईश्वराय समर्पणम् एव शारीरिक-ईश्वरप्रणिधानत्वेन परिण्यते ।

आसनम्सम्पाद्यताम्

साधकः यदा उपविशति, तदा सः स्थिरतायाः, सुखस्य च अनुभवं करोति चेत्, तत् आसनम् उच्यते । स्थिरसुखमासनम् [१] इत्येदं सूत्रं पतञ्जलिमुनिना योगसूत्रे प्रतिपादितं वर्तते । तद्यथा पद्मासनम्, वीरासनं, भद्रासनं, स्वस्तिकं, दण्डासनं, सोपाश्रयं, पर्यङ्कं, क्रौञ्चनिषदनं, हस्तिनिषदनमुष्ट्रनिषदनं, समसंस्थानं, स्थिरसुखं, यथासुखं चेत्येवमादीनि आसनानि प्रोक्तानि । यः कोsपि साधकः एकस्मिन् आसने एकप्रहरं (घण्टात्रयम्) यावत् सुखेन उपवेष्टुं शक्नोति, सः साधकः आसनं सिद्धं करोति [२] । योगपरम्परानुसारम् आसनानां प्रणेता स्वयं भगवान् शङ्करः अस्ति । चतुरशीतिलक्षयोनिषु जीवः भवति, अतः शिवेन चतुरशीतिलक्षानि आसनानि प्रणितानि [२]शिवेन प्रणितेषु सर्वेषु आसनेषु कालक्रमे अधिकतमानि आसनानि लुप्तानि । अतः केवलं चतुरशीतिः आसनानि एव प्रचलितानि सन्ति । तेषु अपि त्रयस्त्रिंशत् आसनानि एव मुख्यानि इति योगिनां मतम् ।

प्राणायामःसम्पाद्यताम्

तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः [२] इत्यनेन सूत्रेण पतञ्जलिमूनिना योगसूत्रे प्राणायामस्य निरूपणं कृतम् अस्ति । आसने स्थिरतायां प्राप्तायां सत्यां श्वास-प्रश्वासयोः स्वाभाविकगतेः नियमनं कृत्वा तयोः समनता स्थापनस्य प्रक्रिया एव प्राणायामत्वेन परिगण्यते । रेचक-कुम्भक-पूरकाणां प्रक्रिया एव प्राणायामत्वेन परिगण्यते [२] । प्राणायामस्य प्रक्रियायां स्थानस्य, समयस्य, आसनस्य, विधेः च अति महत्वं भवति । प्राणायामस्य प्रक्रियायाः अनेके विधयः सन्ति । तेषु केचन विधयः अधः निरूपिताः ।

१. सहजप्राणायामः

२. सम-शीतोष्णप्राणायामः

३. भस्त्रिकाप्राणायामः

४. कपालभातिप्राणायामः

५. शीकलीप्राणायामः

६. शीतकारीप्राणायामः

७. उज्जायीप्राणायामः

८. अहिंसकप्राणायामः

९. नाडीशोधनप्राणायामः

१०. भ्रामरीप्राणायामः

प्रत्याहारःसम्पाद्यताम्

प्रत्याङ्रूत्युपसर्गाभ्यां "हृञ् हरणे" इत्यस्माद्धातोः प्रत्याहारशब्दः निष्पन्नः । भोजनस्य अन्तः इति अस्य शब्दस्य अर्थः भवति । रूप-रस-गन्ध-शब्द-स्पर्शाः इन्द्रियाणां भोजनम् अस्ति । इन्द्रियाणि एतेषां निरन्तरं भोजनं कुर्वन्ति भवन्ति । मनः इन्द्रियाणि यन्त्रत्वेन उपयुज्य एव विषयाणाम् उपभोगं करोति । तेन चेतनया सह विषयाणां सम्बन्धः भवति । प्रत्याहारस्य प्रक्रियया सः सम्बन्धः विच्छिन्नः भवति । एतस्य फलस्वरूपतः चित्तम् अन्तर्मुखि भवति । प्रत्याहारस्य साधनानि मानसिकशक्तीः जनयन्ति । ततः मनः येभ्यः मार्गेभ्यः जगतः भ्रमणं करोति स्म, तेभ्यः मार्गेभ्यः एव अन्तर्जगत् प्रवेष्टुं शक्नोति [२]

साधकः यदा धारणायाः सोपानम् आरोहति, तदा सः प्रत्याहारं साधयति । तेन विना सः धारणां कर्तुम् असमर्थः भवति ।

धारणासम्पाद्यताम्

देशबन्धश्चित्तस्य धारणा [३] इति पतञ्जलिमूनिना योगसूत्रे प्रतिपादितं वर्तते । बाह्ये उत शरीरे कुत्रापि एकस्मिन् स्थाने चित्तस्य केन्द्रीकरणम् एव धारणात्वेन परिगण्यते [२] । नाभिचक्रं, हृदयकमलम् इत्यादयः शरीरस्य आन्तरिकदेशाः सन्ति । आकाशः, सूर्यः, चन्द्रमाः, मूर्तिः, देवता इत्यादयः बाह्यदेशाः भवन्ति । एतयोः आन्तरिकबाह्यदेशयोः एकस्मिन् स्व चित्तस्य केन्द्रीकरणम् एव धारणा भवति । एकं पदार्थं मनसि संधार्य साधकस्य चित्तं तत्र केन्द्रितं भवेत् चेत्, मनसः सा स्थितिः धारणा उच्यते ।

धारणा मनसः विकासशक्तिः वर्तते । धारणया विना योगः सम्भवः न भवति । धारणायाः अर्थः संयमः अपि भवति । अतः धारणायां मनसः विचरणस्य स्थानं सीमितं, निश्चितं च भवति । धारणायां पञ्चतत्वधारणा योगसाधनायाः क्षेत्रे अति प्रसिद्धा प्रक्रिया वर्तते । तस्यां पञ्चतत्वधारणायां पृथ्वी-जल-अग्नि-वायु-आकाशेत्येतेषां पञ्चतत्वानां धारणा भवति [२]

ध्यानम्सम्पाद्यताम्

स्वस्य आन्तरिकजीवनेन सह लयः, सामञ्जस्य स्थापनं च एव ध्यानम् उच्यते [२] । चेतनायाः विकासः, इन्द्रियाणाम् अतिक्रमणं च ध्यानेन एव भवतः । स्वस्य विस्मरणं, शून्यत्वं, पलायनं च कर्तुं ध्यानप्रक्रिया नास्ति । वस्तु-विषयकेन्द्रिताः मनसः याः अनुभूतयः भवन्ति, ताभ्यः अनुभूतिभ्यः ध्यानमार्गेण मनः उदासीनं भवति [२]

ध्यानं शरीरे अलौकिकीं गहनाम् अवस्थां निर्माति, यया शरीरस्य विभिन्नाङ्गानि भारमुक्तानि, रोगमुक्तानि च भवन्ति । निद्रावस्थायाम् अस्माकं मनः विश्रान्तिं प्राप्तुं न शक्नोति, यतो हि निद्रावस्थायाम् अस्माकं मनः स्वपनादीषु कार्येषु रतं भवति । ध्यानावस्थायां यदा मनः सम्पूर्णं लीनं भवति, तदा तत् विश्रान्तिं प्राप्नोति [२] । साधकः यदा ध्यानस्य एतादृशीम् अवस्थां प्राप्नोति, तदा सः घण्टात्रयस्य निद्रया अपि विश्रान्तिम् अनुभवति । ध्यानस्य असङ्ख्याकाः पद्धतयः सन्ति । तासु अत्र काश्चन निर्दिष्टाः ।

१. सङ्कल्पध्यानम्

२. श्वासध्यानम्

३. चिदाकाशध्यानम्

४. मन्त्रध्यानम्

५. अन्तर्मौनम्

६. अजपाध्यानम्

समाधिःसम्पाद्यताम्

समाधिः मनुष्यजीवनस्य स्वाभाविकं लक्ष्यम् अस्ति । इन्द्रियाणां ज्ञानं न भवेत् इत्येव समाधिः [२] । समाधेः लक्षणं ज्ञानम् अस्ति । पूर्णज्ञानस्य अवस्था एव समाधिः उच्यते । प्रत्येकः मनुष्यः समाधेः अधिकारी भवति । समाध्यवस्थायां साधकः चेतनायाः परमबिन्दुपर्यन्तं गच्छति, तस्मात् बिन्दोः परं कापि चेतना न भवति । सा अवस्था चेतनायाः गहनतमः स्तरः भवति, यया साधकस्य व्यक्तित्वबोधः अपि समाप्तः भवति । समाध्यवस्थायां ज्ञानस्य अपि आवश्यकता न भवति । यतो हि समाधौ आत्मा एव वाहनरूपेण कार्यं करोति [२] । सा स्थितिः चित्तस्य समानतायाः, उन्नत्याः च स्थितिः भवति, यस्यां शान्तिः, शक्तिः, ज्ञानं च स्वतः आगच्छन्ति ।

यदा साधकः निरन्तरं साधनां कुर्वन् समाध्यवस्थायां ध्यानस्य गहनतां प्रति गच्छति, तदा सः द्वाभ्यां महत्वपूर्णस्थितिभ्याम् उपसृत्य गच्छति [२] । ते स्थिती चेतनानिषेधः, चेतनाविस्तारश्च ।

१. चेतनानिषेधः :- एतस्याम् अवस्थायाम् इन्द्रियाणाम् एकस्मिन् बिन्दौ अपकर्षः (निषेधः) भवति । एकवारम् इन्द्रियाणाम् अपकर्षणे जाते सति साधकः द्वितीयावस्थां प्रति गच्छति ।

२. चेतनाविस्तारः :- एतस्याम् अवस्थायां चेतनायाः आन्तरिकविस्तारः भवति । एतस्याम् अवस्थायां मनः प्रतीवकवत् भवति । समाधेः आस्वादनान्तरम् अपि साधकः सांसारिकं जीवनं यापयितुं शक्नोति । तस्य सम्मुखं यानि वस्तूनि, सम्बन्धाः च भवन्ति, तेषां विषयेषु साधकस्य दृष्टिकोणः परिवर्तितः भवति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. १.० १.१ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. . दिव्य संस्कृति प्रतिष्ठान - देहली. p. १४. 
  2. २.०० २.०१ २.०२ २.०३ २.०४ २.०५ २.०६ २.०७ २.०८ २.०९ २.१० २.११ २.१२ २.१३ २.१४ २.१५ २.१६ २.१७ २.१८ २.१९ २.२० २.२१ २.२२ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. १५.  उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content उद्धरणे दोषः : Invalid <ref> tag; name "अष्टाङ्गयोगः 2" defined multiple times with different content
  3. ३.० ३.१ योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. . दिव्य संस्कृति प्रतिष्ठान - देहली. p. १४.  उद्धरणे दोषः : Invalid <ref> tag; name "पतञ्जलियोगसूत्रम् 1" defined multiple times with different content
  4. योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. १८-२०. 
  5. योगाचार्य सी. बी. सिंह (२००८). अष्टाङ्ग योग कला. दिव्य संस्कृति प्रतिष्ठान - देहली. p. २१-२२. 
"https://sa.wikipedia.org/w/index.php?title=अष्टाङ्गयोगः&oldid=395141" इत्यस्माद् पुनः प्राप्तिः