जळगावमण्डलं(मराठी: जळगाव जिल्हा, आङ्ग्ल: Jalgaon District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जळगाव इत्येतन्नगरम् । जळगावमण्डलं कदलीफल-उपस्कर (spices)-उत्पादनार्थं प्रसिद्धम् । 'खानदेश' इति अस्य मण्डलस्य पूर्वनाम । महाराष्ट्र्रराज्यस्य साहित्यक्षेत्रे श्रुतनामिकायाः कवयित्री बहिणाबाई इत्येतस्याः जन्मस्थानमिदम् ।

जळगावमण्डलम्

Jalgaon District

जळगाव जिल्हा
मण्डलम्
महाराष्ट्रराज्ये जळगावमण्डलम्
महाराष्ट्रराज्ये जळगावमण्डलम्
देशः  India
जिल्हा जळगावमण्डलम्
उपमण्डलानि चाळीसगाव, भडगाव, पाचोरा, जामनेर, पारोळा, एरण्डोल, धरणगाव, जळगाव, भुसावळ, मुक्ताईनगर, अमळनेर, चोपडा, यावल, रावेर, बोदवड
विस्तारः ११,७०० च.कि.मी.
जनसङ्ख्या(२०११) ३,६७९,९३६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://jalgaon.nic.in
राममन्दिरम्
राममन्दिरम्
कदलीफलसस्यानि
कदलीफलसस्यानि

भौगोलिकम्

सम्पादयतु

जळगावमण्डलस्य विस्तारः ११,७०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि बुलढाणामण्डलं, पश्चिमदिशि धुळेमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि जालनामण्डलम् अस्ति । अस्मिन् मण्डले ६९० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले प्रवहन्ती मुख्यनदी तापी

ऐतिहासिकं किञ्चित्

सम्पादयतु

पुरा मण्डलेऽस्मिन् मौर्य-सातवाहन-कुषाण-वाकाटक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । मध्यकाले मोघल-मराठा-आङ्ग्लशासकानाम् आधिपत्यमासीत् । स्वातन्त्र्यान्दोलने चाळीसगाव, जळगाव, भुसावळ इत्येतेभ्यः उपमण्डलेभ्यः जनानां सहभागः महत्त्वपूर्णः आसीत् । धनाजी चौधरी इत्यनेन रक्षकाधिकारिपदं त्यक्त्वा 'कायदेभङ्ग' आन्दोलने भागः गृहीतः । 'फैजपुर काङ्ग्रेस' नामकम् ऐतिहासिकम् अधिवेशनम् धनाजी चौधरी इत्येतस्य प्रयत्नैः अत्रैव सञ्चालितम् ।

कृषिः उद्यमाश्च

सम्पादयतु

यवनालः(ज्वारी), बाजरी, गोधूमः, कार्पासः, लशुनं, मरीचिका, द्विदलसस्यानि(pulses), सम्बारपदार्थाः(spices), कदलीफलं, कलायः, चणकः इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । कार्पासः तु अस्य मण्डलस्य अर्थव्यवस्थायाः महत्त्वपूर्णम् अङ्गम् अस्ति । पर्वतीयवनेषु शाकोटकवृक्षाः(साग), हरिद्रा, 'शिसव' इति काष्ठप्रकारः, खदिर इत्यादयः वृक्षप्रकाराः सन्ति । वस्त्रोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, मुद्रणोद्यमाः इत्यादयः प्रचलन्ति ।

जनसङ्ख्या

सम्पादयतु

जळगावमण्डलस्य जनसङ्ख्या(२०११) ३६,७९,९३६ अस्ति । अस्मिन् २१,९७,३६५ पुरुषाः, २०,३५,५५२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.७१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२२ अस्ति । अत्र साक्षरता ७९.७३% अस्ति ।

उपमण्डलानि

सम्पादयतु

अस्मिन् मण्डले पञ्चदश उपमण्डलानि सन्ति । तानि-

१ चाळीसगाव
२ भडगाव
३ पाचोरा
४ जामनेर
५ पारोळा
६ एरण्डोल
७ धरणगाव
जळगाव
९ भुसावळ
१० मुक्ताईनगर
११ अमळनेर
१२ चोपडा
१३ यावल
१४ रावेर
१५ बोदवड

लोकजीवनम्

सम्पादयतु

मण्डलेऽस्मिन् 'अहिराणी' इति मराठीभाषाप्रकारं जनाः वदन्ति । अस्यां भाषायां साहित्यनिर्मितिः अपि भवति । मण्डलेऽस्मिन् निवसन्तः जनाः उत्सवप्रियाः । लेवा-पाटीदार-समाजः अस्मिन् मण्डले बहुसङ्ख्यः दृश्यते । मण्डलेऽस्मिन् गोण्ड, भिल, गावित, पारधी, लमाणी, जोगी, रामोशी-वडार, कोङ्गाडी इत्यादयः आदिवासिजनजातयः सन्ति । मण्डलेऽस्मिन् 'वाणी' इति वणिक्जातेः प्राचुर्यम् अस्ति । अक्षय्यतृतीयादिने 'आखाजी' उत्सवः, विवाहोत्सवे 'जागरण-गोन्धळ', मुञ्जाभोजनम् इत्यादिकान् उत्सवान् जनाः आचरन्ति । अत्रस्थानां महिलानां विशेषाणि गीतानि सन्ति । साहित्यविशेषेषु गीतेषु महिलाः आत्मनिवेदनं कुर्वन्ति ।

व्यक्तिविशेषाः

सम्पादयतु

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । साने गुरुजी, बालकवी ठोमरे, माधव ज्युलियन, बहिणाबाई चौधरी, स्वामी-कुवलयानन्द, पद्मश्री ना.धो. महानोर, पद्मश्री भालचन्द्र नेमाडे, भवरलाल जैन इत्यादीनां कार्यक्षेत्रं जन्मस्थलं वा आसीत् इदं मण्डलम् ।

वीक्षणीयस्थलानि

सम्पादयतु

जळगावमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • श्री-पद्मालयः
  • एरण्डोल, पारोळा इत्यत्र राज्ञी लक्ष्मीबाई इत्यस्याः भूमिकोटः
  • सन्त-सखाराम-महाराजस्य समाधिस्थानम्
  • तत्त्वज्ञान-मन्दिरम्
  • पाण्डववाडा, एरण्डोल इत्यत्र पर्शियन शिलालेखः
  • उनपदेव, सुनपदेव, नाझरदेव च इत्येतेषु स्थानेषु उष्णजलकुण्डानि
  • पाल इत्यत्र मनुदेवी
  • ओङ्कारेश्वरमन्दिरम्
  • सन्त-मुक्ताबाई मन्दिरम्
  • सन्त-चाङ्गदेव मन्दिरम्

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=जळगावमण्डलम्&oldid=464007" इत्यस्माद् प्रतिप्राप्तम्