जालनामण्डलं (मराठी: जालना जिल्हा, आङ्ग्ल: Jalana District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं जालना इत्येतन्नगरम् । १ मे १९८१ इत्येतस्मिन् दिनाङ्के औरङ्गाबादमण्डलात् विभाजनं कृत्वा स्थापितमिदं मण्डलम् । 'मराठवाडा-मुक्ती-सङ्ग्रामे' भागम् ऊढवत्सु जनेषु अन्यतमः जनार्दन नागपुरकरवर्यः । तस्य जन्मस्थानं तथा कार्यभूमिः इति जालनास्थानस्य प्रसिद्धिः ।

जालनामण्डलम्

Jalana District

जालना जिल्हा
मण्डलम्
महाराष्ट्रराज्ये जालनामण्डलम्
महाराष्ट्रराज्ये जालनामण्डलम्
देशः  India
जिल्हा जालनामण्डलम्
उपमण्डलानि जालना, अम्बड, भोकरदन, बदनापूर, घणसवंगी, परतूर, मंठा, जाफराबाद
विस्तारः ७,६१२ च.कि.मी.
जनसङ्ख्या(२०११) १९,५८,४६३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://jalna.gov.in/
भूमिजम्बुकोत्पादनम्(sweet lime)
देवी मत्स्योदरी,अम्बड
पद्मभूषण बारवलेवर्यः
मराठवाडा मुक्तिसङ्ग्रामवीरः नागपुरकरवर्यः

भौगोलिकम्संपादित करें

जालनामण्डलस्य विस्तारः ७,६१२ चतुरस्रकिलोमीटर्मितः अस्ति । महाराष्ट्रराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वदिशि परभणीमण्डलं, बुलढाणामण्डलं च, पश्चिमदिशि औरङ्गाबादमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि बीडमण्डलम् अस्ति । अस्मिन् मण्डले ७६३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले गोदावरी-पूर्णे प्रमुखनद्यौ स्तः ।


कृषिः उद्यमश्चसंपादित करें

जालनामण्डलस्य ८५.५६% भूमिः कृष्युत्पादनार्थम् उपयुक्ता । आमहाराष्ट्रं यथा 'खरीप'(kharif), 'रब्बी'(rabi) इति द्विप्रकारका(वर्षे द्विवारं, ऋतुमनुसृत्य) सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । यवनालः(ज्वारी), 'बाजरी', गोधूमाः, 'तूर', माषः, चणकाः, कुसुम्भं(करडई), इक्षुः, कलायः, कार्पासश्च प्रमुखसस्योत्पादनानि सन्ति । भूमिजम्बुकोत्पादने(sweet lime) जालनामण्डलम् अग्रगण्यम् अस्ति । कृष्युत्पादनं, पशुपालनं, कृषिसम्बन्धितेषु कार्येषु च जनाः विरमन्ति । मण्डलेऽस्मिन् कृषि-आधारिताः उद्यमाः प्राचुर्येण प्रचलन्ति । सङ्कीर्ण-बीजनिर्मिति-उद्यमः(Hybrid seed industry), लोह-उद्यमः इत्यादयः उद्यमाः प्रचलन्ति अत्र ।

जनसङ्ख्यासंपादित करें

जालनामण्डलस्य जनसङ्ख्या(२०११) १९,५९,०४६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२९ अस्ति । अत्र साक्षरता ७३.६१% अस्ति ।

उपमण्डलानिसंपादित करें

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

जालना

२ अम्बड

३ भोकरदन

४ बदनापूर

५ घणसवङ्गी

६ परतूर

७ मण्ठा

८ जाफराबाद

व्यक्तिविशेषाःसंपादित करें

१. 'मराठवाडामुक्तिसङ्ग्रामे' जालनामण्डले निवसतानां जनानां सहभागः महत्त्वपूर्णः आसीत् । सङ्ग्रामेऽस्मिन् जनार्दन नागपुरकर इत्येषः प्रमुखः आसीत् ।
२. बीजोत्पादनोद्यमस्य निर्माता पद्मभूषणः श्रीमान् बद्रीनारायण-बारवलेवर्यः जगति जालनामण्डलस्य, महाराष्ट्रराज्यस्य च नाम प्रसिद्धं कृतवान् ।
३. शिवाजीमहाराजस्य गुरुः समर्थ रामदास स्वामी इत्यस्य जन्मस्थानमिदं जालनामण्डलम् ।

वीक्षणीयस्थलानिसंपादित करें

१ गणपति-मन्दिरम्, राजूर
२ मत्स्योदरी देवी, अम्बड
३ जाम्बसमर्थ, घनसावङ्गी
४ जाळीचा देव, जयदेववाडी
५ आनन्दीस्वामी-मन्दिरम्, जालना
६ मम्बादेवी-मन्दिरम्, जालना
७ काली-मस्जिद्
८ गुरुगणेश-भवनम्, जालना


बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=जालनामण्डलम्&oldid=464008" इत्यस्माद् प्रतिप्राप्तम्