जातकमालाशब्देन बोधिसत्त्वानां पूर्वजन्मकथासंग्रहो बुध्यते । भगवता बोधिसत्त्वानां पूर्वजन्मस्मतत्वेन तत्कथा अत्र वर्णिताः । पालीग्रन्था अस्या जाकमालाया आधारभूताः । शैली चात्राश्वघोषकाव्यानुकारिणी । अत्र प्राचीनेतिहासो नास्ति । बौध्दमतस्य सर्वविधाः सिध्दान्ता अत्रोपनिबध्दाः । गद्यानि पद्यानि चात्र चमत्कारीणि । दानधर्ममहत्त्ववर्णनप्रसङ्गे शिबिराजकुले अवतीर्णस्य बोधिसत्त्वस्य एका कथा प्रसूयते । कश्चिदन्धो ब्राह्मणः तमेकमक्षि याचितवान् स च तस्मै एकस्याक्ष्णः स्थानेऽक्षिद्वयं दातुं प्रवृत्तः । अक्षिस्थाने वस्त्वन्तरप्रदानाय प्रार्थयतो मन्त्रिणो बोधिसत्त्वः प्राह –

यदेव याच्येत् तदेव दद्यान्नानीप्सिसं प्रीणयतीह दत्तम् ।
किमुह्यमानस्य जलेन तोयैर्दास्याम्यतः प्रार्थितमर्थमस्मै ॥

पुनरपि सचिवैरनुरुध्यमानो बोधिसत्त्वः प्राहः –

नायं यत्नः सार्वभौमत्वमाप्तुं नव स्वर्ग नापवर्गं न कीर्त्तिम् ।
त्रातुं लोकानित्ययं त्वादरो मे याञ्चाक्लेशो मा च भूदस्य मोघः ॥

तदीया जातकमाला क्वचित् क्वचिदतीव कर्णरसायनं पद्यमुपस्थापयति – ततश्चकम्पे सधराधरा धरा विलङ्घ्य वेलां प्रससार सागरः । जातकमालाया बौध्दसम्प्रदायग्रंथतया पालीग्रंथाधारतया च यदि क्वचित् पालीशब्दाः प्राप्यन्ते तर्हि न विस्मयस्य स्थानमिदम् । १०००तमे ख्रीष्टाब्दे जातकमालायाश्चीनभाषानुवादो जातः । ख्रीष्टसप्तमशतके भारतभुवमागतस्य चीनयात्रिण इत्सिङ्गस्य जातकमाला ज्ञाने आसीत् । अतः सप्तमशतकात्पूर्वं पञ्चमं शतकं षष्ठं वाऽस्या रचनायाः कालः प्रत्येतव्यो भवति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=जातकमाला&oldid=409270" इत्यस्माद् प्रतिप्राप्तम्