जानकी अम्माल् काचित् भारतीयौद्भिदिका (सस्यशास्त्रज्ञा) । सा आनुवंशिकी तथा फैटोजाग्रफी विषये च संशोधनं कृतवती ।[१] इक्षोः वृन्ताकवृक्षस्य च संशोधनं तस्याः प्रधानसंशोधनकार्येषु अन्यतमम् । सा केरळस्य वर्षावनात् बहूनि मूल्यवन्ति औषधसस्यानि सङ्गृहीतवती ।

जानकी अम्माल्
ജാനകി അമ്മാൾ
जानकी अम्माल्
जननम् (१८९७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १८९७
तेल्लिच्चेरी, केरळ
मरणम् फ़्इब्रवरी 1984 (87 वर्षागता)
वासस्थानम् भारतवर्षः
देशीयता भारतीया
कार्यक्षेत्राणि प्राणिविज्ञानम्, जीवकोषविज्ञानम्
संस्थाः यूनिवर्सिटी बोटनी लेबरेटरी, चेन्नै
धर्मः हिन्दूधर्मः


बाल्यम् सम्पादयतु

जानकी अम्माल् १८९७ इति वर्षे केरळप्रदेशस्य टेल्लिचेरीनगरे तिय्यकुले जनिमलभत । [२] तस्याः पिता देवान् बहादुर एडवलथ् कक्कट कृष्णन् उपन्यायाधीशः आसीत् मद्रास प्रेसिडेन्सी इत्यस्य । तस्याः षड् भ्रातारः पञ्च भगिन्याः च । तस्याः परिवारे पुत्रीणाम् उच्चशिक्षणस्य ललितकलानाम् अध्ययनस्य च अनुमतिः आसीत् । सा उद्भिद्विद्यां पठितुम् इषटवती । चेन्नैनगरं गत्वा सा क्वीन् मेरी विद्यालयतः स्नातकोपाधिं प्राप्तवती । प्रेसिडेन्सी विद्यालयतः सा उद्भिद्विद्यायां आनर्सोपाधिं प्राप्तवती । तत्त्समये तस्याः कौशिकानुवंशिकशास्त्रे रुचिः अजायत ।

वृत्तिजीवनम् सम्पादयतु

चेन्नईनगरे 'विमन्स् क्रिस्टियन् कालेज्' इत्यत्र सा अध्यापिका आसीत् । १९२५ मध्ये मिचिगन् विश्वविद्यालयतः सा बार्बोर् छात्रवृत्तिं प्राप्य शास्त्री उपाधिं प्राप्तवती । भारतदेशं निवृत्त्य सा पुनः 'विमन्स् क्रिस्टियन् कालेज्' इत्यत्र अध्यापयत् । प्रथमा पौर्वर्त्य बार्बोर् माणविका भूत्वा सा पुनः मिचिगन् विश्वविद्यालयं गतवती ततः च आचार्योपाधिं प्राप्तवती । भारतमागम्य तिरुवनन्तपुरे महाराज्ञः वैज्ञानिक महाविद्यालये उद्भिद्विद्यालये प्राध्यापिकाभूत् । १९३४ प्रभृति १९३९ पर्यन्तं कोयम्बतोर नगरे इक्ष्वभिजननसंस्थायां सा आनुवंशिकज्ञा आसीत् । १९४० आरभ्य १९४५ पर्यन्तं लण्डन् नगरे जाॅन् हिन्न्स् हाॅर्टिकल्चर् संस्थायां सा उपकौशिकीज्ञा आसीत् । तदनन्तरं १९४५ पर्यन्तं विस्ले नगरे 'रायल् हाॅर्टिकल्चरल् सोसाइटी' इत्यत्र सा कौशिकीज्ञा आसीत् ।

आमन्त्रिते जवाहरलाल नेहरूणा सा पुनः भारतदेशम् आगच्छत् १९५१तमे वर्षे भारतीयौद्भिदीयापरीक्षणं विधातुम् । १९५२ तमस्य वर्षस्य अक्टोबर्मासस्य १४ दिनाङ्के सा निर्देशिका अभूत् भारतीयौद्भिदीयपरीक्षणस्य विशेषाधिकारिरूपेण नियुक्ता । [३] ततः सा निर्देशिका अभूत् भारतीयौद्भिदीयपरीक्षणस्य । [४]

तया बहवः सङ्करजात्योत्पत्तयः निर्मिताः इक्षुणा यवेन मुञ्जेन दर्भेण दीर्घशरेण च । तस्याः काण्डजातिविषये कौशिकीसंशोधनम् अतीव श्लाघनीयम् । ततः प्रभृति भारतसर्वकारस्य विविधसंशोधनसंस्थासु नानापदेषु नियुङ्क्ता यथा अलहाबादस्थायां केन्द्रीयौद्भिदीयप्रयोगशालायां जम्मुस्थायां क्षेत्रीयसंशोधनप्रयोगशालायाम् । सा बाबा परमाणु संशोधन केन्द्रेऽपि कार्यं कृतवती । पश्चात् सा मदुरवाॅयल् इत्यत्र मद्रास विश्वविद्यालयस्य सेन्टर् फाॅर् अड्वान्स्ड् स्टडी इन् बाॅटनी इति संस्थायाः क्षेत्रीयप्रयोगशालायां कार्यं कृतवती । १९८४तमे वर्षे सा पञ्चत्वं गतवती ।

संशोधनानि सम्पादयतु

आङ्लदेशे वसन्ती सा विविधानां पुष्पसस्यानामुपरि क्रोमोसोम्विषये प्लाॅयडीविषये च प्रयोगान् कृतवती । अनेन तेषां जातीनां प्रभेदानां च उद्विकासविषये बहुज्ञानम् अलभत । सी डी डार्लिङ्ग्टन् इत्यनेन सह सा ग्रन्थमेकं 'द क्रोमोसोमल् अट्लस् आॅफ कल्टिवेटड् प्लान्ट्स्' नाम्ना प्रथितवती यस्मिन् सा तस्याः सम्पूर्णं संशोधनं सङ्गृहीतवती । सा वार्त्ताक, उन्मत्त, पूतिह, भूस्तृण, वाराही इत्यादिषु वनस्पतिषु संशोधनं कृतवती । तस्याः मतानुसारं हिमालयस्य शीतशुष्कपश्चिमोत्तरपार्श्वतुल्यात् शीतार्द्र्प्रागुदञ्ज्पार्श्वे वनस्पतीनाम् अधिकजातिभेदाः सन्ति पाॅलिप्लाॅडी इति कारणात् । अपि च मलयचीनीयपौष्पसङ्गमेन हिमालये अधिकतरनैसर्गिकसङ्करजात्योत्पत्तिः अभवत् । सेवानिकृत्त्यनन्तरम् अपि सा औषधीनां जनवर्गसस्यविज्ञाने कोशविज्ञाने च संशोधनं प्रातनोत् ।

'मॅग्नोलिया कोबस् जानकि अम्माल्' इति पुष्पसस्य सृष्टिः -

यदा सा विस्ले नगरे 'राॅयल् हाॅर्टिकल्चुरल् सोसाइटी' इत्यत्र कौशिकीज्ञा आसीत् तदा सा काॅल्चिसीन् विषये संशोधनं कुर्वती आसीत् । मॅग्नोलिया कोबस् बीजपत्रयोः उपरि सा काॅल्चिसीन् उक्षणं कृतवती । तेन क्रोमोसोमसंख्या द्विगुणा जाता । पुष्पाणि अनैकान्तिकानि अभवन् । तत्र अस्मिन् स्थाने एतस्य पुष्पसस्य बाहुल्येन एकं सम्पूर्णमुद्यानं निर्मितम् ।

प्रशस्ति-पुरस्काराः सम्पादयतु

१९३५ तमे वर्षे भारतीयविज्ञानाकडमीसंस्थया, १९५७ तमे वर्षे भारतीय-राष्ट्रिय-विज्ञान अकाडेम्या च सा फेलोरूपेण चिता । १९५६ तमे वर्षे मिचिगन्-विश्वविद्यालयतः गौरव एल् एल् डि प्रदत्ता । भारतसर्वकारेण १९५७ तमे वर्षे पद्मश्रीपुरस्कारः प्रदत्तः । २००० तमे वर्षे भारतसर्वकारस्य परिसरारण्यविभागेन वर्गीकरणशास्त्रस्य राष्ट्रियप्रशस्तिः तस्याः नाम्ना घोषिता ।

जानकी अम्माल् वर्गीकरणसंशोधनपारितोषिकम् सम्पादयतु

जीवशास्त्रे वर्गीकरणविषये तदीयम् उत्कृष्टं योगदानं पुरस्कृत्य, अस्मिन् क्षेत्रे नवछात्राणां संशोधकानां प्रोत्साहनाय इ के जानकी अम्माल् प्रशस्तिः १९९९ तमे वर्षे संस्थापिता । तस्याः नाम्नि द्वे वर्गीकरणसंशोधनपारितोषिके १९९९ वर्षे स्थापिते - एकं पशुवर्गीकरणार्थम् अपरं वनस्पतिवर्गीकरणार्थं च ।

सन्दर्भाः सम्पादयतु

  1. C.V, Subramanyan. "Janaki Ammal". Indian Association of Scientists. आह्रियत 20 October 2012. 
  2. Subramanian, C V. "Edavaleth Kakkat Janaki Ammal — IAS Women in Science". Indian Academy of Sciences. आह्रियत 22 December 2012. 
  3. "Seminar to remember woman scientist". The Hindu. 27 October 2010. आह्रियत 10 August 2013. 
  4. "Vice-President to open Inter-University Centre for Biosciences". The Hindu. 2 July 2010. आह्रियत 10 August 2013. 

अन्ये आकराः सम्पादयतु

  • S Kedharnath, Edavaleth Kakkat Janaki Ammal (1897–1984), Biographical Memoirs of Fellows of the Indian National Science Academy, 13, pp. 90–101, with portrait (1988).
  • P Maheshwari and R N Kapil, Fifty Years of Science in India. Progress of Botany, Indian Science Congress Association, Calcutta, pp. 110, 118 (1963).
"https://sa.wikipedia.org/w/index.php?title=जानकी_अम्माल्&oldid=282336" इत्यस्माद् प्रतिप्राप्तम्