जीवन्तीवृक्षः
इयं जीवन्ती आयुर्वेदस्य वैद्यकीयपद्धतौ अत्यन्तं प्रचलितं द्रव्यम् अथवा औषधम् । संस्कृतेन अस्याः जीवन्त्याः “हरीतेकी, अभया, पथ्या, कायस्था, अमृता, हैमवती, अवस्था,रोहोबी” इत्यादीनि नामानि अपि सन्ति । एषा जीवन्ती सामान्यतः त्रिधा विभज्यते – महाकारिका, लघ्वाकारिका, पीतवर्णीया चेति । अस्याः जीवन्त्याः वृक्षः सामान्यतया ५० तः ८० पादमितः उन्नतः भवति । महति अरण्ये तत्रापि दक्षिणभारतस्य अरण्येषु सः वृक्षः वर्धते । अस्य वृक्षस्य पर्णानि ३ – ८ अङ्गुलं यावत् दीर्घाणि, २ – ४ अङ्गुलं यावत् विशालानि च भवन्ति । तानि पर्णानि वृत्ताकारकाणि भवन्ति । अस्य जीवन्तीवृक्षस्य पुष्पाणि लघ्वाकारकाणि, पीतमिश्रितश्वेतवर्णीयानि भवन्ति । तस्य जीवन्तीवृक्षस्य फलानि पीतवर्णीयानि भावन्ति । फलानां सङ्ग्रहणार्थं जनवरीमासतः एप्रिल् – मासं यावत् कालः उत्तमः । इयं जीवन्ती पञ्चरसयुक्ता अस्ति । अस्यां लवणरसम् एकं विहाय अन्ये सर्वे पञ्च रसाः सन्ति ।
इतरभाषाभिः अस्याः जीवन्त्याः नामानि
सम्पादयतुइयं जीवन्ती आङ्ग्लभाषयाTerminalia Chebula इति उच्यते । इयं सस्यशास्त्रे Combritaeeae इति कुटुम्बे अन्तर्भवति । इयं जीवन्ती हिन्दीभाषया“हरड्” इति, तेलुगुभाषया“करक्कायि” इति, तमिळ्भाषायां “कदुक्कालु” इति, मलयाळंभाषया“हरडे” इति, कन्नडभाषया “अळलेकायि” इति उच्यते ।
आयुर्वेदस्य अनुसारम् अस्याः जीवन्त्याः प्रयोजनानि
सम्पादयतुनाम्नः अनुगुणं गुणेन एषा जीवदात्री एव । अस्याः प्रयोजनानि अपि अनन्तानि । १. इयं जीवन्ती अत्यन्तम् उत्तमं रसायनद्रव्यम् अस्ति । एतां जीवन्तीं सम्यक् पेषयित्वा मधुना सह योजयित्वा पिटकानां स्फोटं कारयितुं लेपयन्ति । अयम् एव लेपः व्रणानां शुष्कीकरणार्थम् अपि उपयुज्यते । २. एषा जीवन्ती शोथं निवारयति । सन्धिवातं, नेत्ररोगं चापि दूरीकरोति । ३. इयं जीवन्ती अग्निमाद्यं निवारयति । कामलरोगम् अतिसारं चापि दूरीकरोति । ४. अस्याः जीवन्त्याः उपयोगेन अश्मरीरोगः, अनाहेरोगः, विबन्धरोगः चापि अपगच्छति । ५. अस्याः जीवन्त्याः उपयोगेन अजीर्णम् अपगच्छति । अरतिः, पाण्डुरोगः च अपगच्छति । ६. एषा जीवन्ती नीमीयरोगं, कासं श्वासरोगं, श्वेतप्रदरं च निवारयति ।