ज्योतिषशास्त्रस्य विकासक्रमः
ज्योतिषशास्त्रस्य विकासक्रमः ग्रहाणां विज्ञानिकतायाः इतिहासः एव। (ज्योतिषामयनं चक्षुः) शास्त्रमर्मज्ञाः विद्वांसो विदन्ति यत् पड् वेदाङ्गेषु ज्योतिषं चरमं वेदाङ्गमस्ति । यथा वेदपुरुषस्य व्याकरणं मुखमस्ति तद्वत् ज्योतिपं नयनं स्मृतम । नेवाश्यांना यथा कोऽपि मानवः स्वयमेव पदात्पदमपि चलितुं न शक्नोति तद्वत ज्योतिषशा विना वेदपूरुषस्यान्धता समापतिष्यति । वेदस्य प्रवृत्तिविशेपेण यज्ञसम्पादनाय भवति । यज्ञस्य च विधानं विशिष्ट कालानामपेक्षां स्थापयति ।
यज्ञ-याग-सम्पादनाय समय शुद्धे महती आवश्यकता भवति । कानिचित् कर्मकाण्डविधानान्येतादशानि सन्ति येषां सम्बन्धः सम्वत्सरेण भवति कस्यचिच्च ऋतुना। एतदुदाहरणञ्च यथा--तैत्तिरीय ब्राह्मणस्य कथनमस्ति ---- 'वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीप्मे राजन्य आदधीत । शरदि वैश्य आदधीत' । अत्रायमाशयः-ब्राह्मणः वसन्ते ( चैत्र वैशाखयोः ) अग्नेः आधानं ( स्थापनम् ) कुर्यात्, क्षत्रिय: ग्रीष्मे ( ज्येष्ठ-आषाढयो: ), वैश्यश्च शरदतो ( आश्विन-कार्तिकयोः ) आधानं कुर्यात् । ताण्डयब्राह्मणे ( सामवेदस्य ) कतिपय यज्ञस्य सम्पादनं विशिष्टमासेषु विशिष्टपक्षेषु च प्राप्यते । तथा च तत्र- 'एकाष्ट कायां दीक्षेरन् फाल्गुनी पूर्णमासे दीक्षेरन्' इति नियमात् ।
अपरञ्च- प्रातःकाले सायंकाले च प्रत्येक नियमितमग्निहोत्रिण मग्नी दुग्धेन घृतेन वा हवनं कुर्युः, इति विधानं तैत्तिरीयब्राह्मणे विद्यते—'प्रातर्जुहोति सायं जुहोति' । अत्रायमाशयो यत् सुचिन्तितरूपेण नक्षत्रस्य, तिथेः, पक्षस्य, मासस्य, ऋतोः, सम्वत्सरस्य च कालस्य समस्तखण्डैस्सह यज्ञ-यागस्य विधानं वेदेषु प्राप्यते । तत्रैव महती प्रतिष्ठा । तस्मादे तेषां नियमानां परिपालनाय यथार्थरूपेण निर्वाहाय च ज्योतिषशास्त्रस्य ज्ञानं नितान्त मावश्यकमस्ति । उपादेयता च तत्रैव सिद्धयति ।
अतएव विद्वांसः कथयन्ति ज्योतिष कालविज्ञापकं शास्त्रम्, यतोहि--'मुहूत्तं शोधयित्वा क्रियमाणा यज्ञादि क्रिया विशेषाः फलाय कल्पन्ते' नान्यथा, तन्मुहूर्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्योतिपशास्त्रस्य वेदाङ्गत्वमुररीकृतम् । अतएव वेदाङ्गज्यौतिषस्य तु परमाग्रहोऽयं यत्--यो जनः ज्यौतिषं सम्यक्तया विजानाति स एव यज्ञस्य यथार्थरूपेण ज्ञानं दधाति । वेदाङ्गज्यौतिषस्यत्वयमेव डिण्डिमघोषः जनान् उद्बोधयति--
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाभिपूर्वा विहिताश्च यज्ञाः ।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञम् ॥
यज्ञस्य साफल्यं न केवलं समुचितविधानाचरणे एव प्रत्युत उचिते निर्दिष्टनक्षत्रे समुचिते काले एव विधानाद्भवति । अतएव--असुराणां परिभाषा विषये श्रुतेर्वचनं ध्यातव्यम् यत्-
'ते असुरा अयज्ञा अदक्षिणा अनक्षत्राः । यच्च किञ्चाकुर्वत तां कृत्या मेवाकुर्वत' ।
अत्रेदमवधेयम् ---असुराः यज्ञेन हीनाः भवन्ति, दक्षिणादानेन विरहिताः भवन्ति, नक्षत्रेण रहिताश्च भवन्ति । अतएव यत्किञ्चित् कुर्वन्ति समर्पयन्ति । परञ्च देवानामेतद्विपरीतास्थितर्भवति–ते समुचिते समये सदक्षि सम्पादनं कुर्वन्ति ।
ज्योतिषस्य वेदाङ्गत्वम्
सम्पादयतुवैदिकयश विधानाय ज्योतिषस्य महन्महत्त्वं हर ज्योतिषमार्तण्डेन सुविख्यातेन भास्कराचार्येण स्पष्टमुद्घोषितं स्वीयेसिद्धान्तशि यथा--
वेदास्तावद् यज्ञकर्मप्रवृत्ता यशाः प्रोक्तास्ते तु कालाश्रयेण ।
शास्त्रादस्मात् कालबोधो यतः स्यात् वेदाङ्गत्वं ज्योतिषस्योक्तमस्मात ।।
अपरञ्च-वेदाङ्गज्योतिषस्य सम्मती ज्योतिषशास्त्रं समग्रवेदाङ्गेषु मर्धस्थानीयमस्ति, तथा च तत्र-
यथा शिखा मयूराणां नागानां मणयो यथा।
तद्वद् वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ।।
अत्रायं निष्कर्षार्थ:--यथा मयूराणां शिखा तस्य शिरस्येव तिष्ठति, सर्पाणां मणिः तेषां मस्तके एव विराजते ( रात्री सर्पाः मस्तकाद् मणिमुद्धत्य भूमौ स्थापयित्वा क्षेत्रेषु इतस्ततः विचरन्ति पुनः क्रीडायाः सम्पन्ने सति मस्तके मणि धारयन्ति इति लौकिकप्रवादः ) तेनैव प्रकारेण शिक्षा-कल्पादि वेदाङ्गषडङ्गेषु ज्योतिषस्य सर्वश्रेष्ठं स्थान प्राप्तमस्ति ।
ज्योतिष वेदपुरुषस्य चक्षुरस्ति--'शिक्षाघ्राणं तु वेदस्य ज्योतिष नयन स्मृतमिति, पाणिनीय शिक्षायामुद्घोषितमस्ति । यथा--चक्षुविहीन: पुरुषः ( अन्ध: ) स्वकार्यसम्पादनेऽसमर्थो भवति तद्वत् ज्योतिषशास्त्रज्ञानेन विरहितः पुरुषः वैदिककर्मकाण्डेषु सर्वथा अन्ध एव तिष्ठति ।
ज्योतिषशास्त्रस्येतिहासे एष उल्लेखो मिलति यत्--पुराकाले चतुर्णामपि वेदानां पृथक् पृथक् ज्योतिषशास्त्रमासीत्, तेषु ( अधुना ) सामवेदस्य ज्योतिषशास्त्रं नोपलभ्यते । अवशिष्टानां त्रयाणामितरेषां वेदानां ज्योतिषाणि प्राप्यन्ते, तद्यथा क्रमेण -
(१) ऋग्वेदस्य ज्योतिषम्-आर्य ज्योतिषम्, षट्त्रिंशत् पद्यात्मकम् ।
(२) यजुर्वेदस्य ज्योतिषम् -बाजुष ज्योतिषम्, ऊनचत्वारिंशत् पद्यात्मकम् ।
( ३ ) अथर्ववेदस्य ज्योतिषम्-आयर्षण ज्यौतिषम्, द्विषष्टयुत्तरशतपद्यात्मकम् ।
वस्तुतः आर्चज्योतिष-याजुषज्यौतिषयोः सामानाधिकरण्यं प्रतीयते । यतो ह्यनेकत्र द्वयोः साम्यं विद्यते । क्वचिदितिहासे द्वयोरेव नामोल्लेखः आथर्वणस्य चर्चेव नास्ति । संख्या विषयेऽपि मतैक्यं न तिष्ठति, याजुषज्योतिषस्य पद्यसंख्या उपरि 'ऊन चत्वारिंशत् ( ३९ ) निर्दिष्टा विद्यते, क्वचिच्चेतिहासे सैषा संख्या ऊनपञ्चाशद (४९) विद्यते । एवमेव आथर्वणज्योतिषस्थाने 'अथर्वज्योतिषम्' इत्यपि मिलति ।
वेदाङ्गज्यौतिषम्
सम्पादयतुअस्मिन् वेदाङ्ग ज्योतिषे वेदकालीनस्य प्राचीनज्यौतिषशास्त्रस्य वर्णनं विद्यते। तद्युगस्य सर्वाः वार्ताः इयत्यः अज्ञाता: सन्ति यत् वेदाङ्गज्योतिषस्य रहस्यानां स्फटीकरणमद्यत्वे विद्वद्भ्योऽपि विषमा समस्योत्पद्यते । श्रूयते इतिहासे पठ्यते च यद बहभिर्वः प्राच्याः पाश्चात्याश्च विद्वांसः एषां श्लोकानां रहस्योद्घाटने प्रयत्न शीलाः सन्ति, परन्त्वद्यापि-वेदांगज्योतिषस्य कतिपयानि पद्यानि-एतादशानि सन्ति-येषां रहस्यार्थोद्घाटनमद्यापि समुचितरूपेण न ज्ञायते ।
पाश्चात्य विद्वद्भिः डॉ० थीवो महाशयः प्राच्यैश्च शंकरबालकृष्णदीक्षितैः, लोकमान्य बालगंगाधरतिलक; महामहोपाध्यायसुधाकरद्विवेद्यादिभिर्विश्रुतमनीषिभिः काले काले वेदाङ्गज्यौतिषस्योपरि गूढार्थव्याख्याः कृता । डॉ० थीवो महाशयेन १८७७ ईशवीये एशियाटिकसोसाइटी कलिकातायाः शोधपत्रिकायाम्, शंकरबाल कृष्णदीक्षितेन 'भारतीयज्योतिषशास्त्रनामके मराठीग्रन्थे, लोकमान्यतिलकेन स्ववेदाङ्ग ज्यौतिष' नामके आंग्लभाषामये पुस्तके, म० म० सुधाकरद्विवेदिना च वेदाङ्ग ज्योतिषस्य स्वनिर्मिते संस्कृतभाष्ये एषां श्लोकानां सुस्पष्टतया सारगर्भिता व्याख्याः कृता।
वेदाङ्गज्योतिषस्योपर्येकम् प्राचीनं भाष्यमपि प्रकाशितमस्ति । यस्य रचना शेषकुलोत्पन्नेन काशीनिवासिना सोमाकरनामकेन केनापि दाक्षिणात्येन विचक्षणेन विदुषाकृताऽऽसीत् । सोमाकरपदाभिधाना विद्वांसः ज्योतिषशास्त्रस्य प्रकर्षपाण्डित्य शीला: मर्मज्ञाः आसन् । नापसन्देह लेशोऽपि । परञ्च खेदस्य विषयोऽयं यत्तेषां जीवन चरितस्य समयस्य च परिज्ञानं न जायते ।
वेदाङ्गज्योतिषस्य - ( आर्चज्यौतिषस्य, याजुषज्यौतिषस्य, आथर्वणज्यौतिषस्य च ) कर्तुर्नाम लगध इति आसीत् । आर्चज्योतिषस्य द्वितीयेन इलोकेनतद् ज्ञायते । तथा च तत्रोक्तम् -
'प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम् ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥
अत्रैतद् वैशिष्टयं विद्यते यत्-अस्मिन् ग्रन्थे पञ्चवर्षात्मको युगः स्वीकृतः, वर्षाणा मेषां नामानि यथा-सम्वत्सरः, परिवत्सरः, इदावत्सरः अनुवत्सरश्चेति । एतन्नामानि प्रकरणवशात् तैत्तिरीये ब्राह्मणेऽपि प्राप्यन्ते । तस्मिन् काले वर्षारम्भः ( सम्वत्सारा रम्भः ) माघमासादारभ्यतेस्म ज्योतिषस्य सिद्धान्तग्रन्थेषु द्वादश राशिभिः ( मेष, वृप, मिथुन, कर्क, सिंह, कन्या, तुला, वृश्चिक, धनु, मकर, कुम्भ, मीन नामकः ) गणना भवति । परञ्चास्मिन् वेदांगज्योतिषे राशीनां क्वापि नाम निर्देशो नास्ति ।
प्रस्तुतायाः गणनायाः आधारभूमिः अश्विन्यादि-सप्तविंशति-नक्षत्राण्येव सन्ति । श्रीमता शंकरबालकृष्ण-दीक्षितेन बहुप्रयत्नेन सप्रमाणं सुनिश्चितं यत् अस्य वेदाङ्गज्योतिषस्य रचनाकाल: ईशवीयशतकात् पूर्व १४०० वर्षे एव संजातः इति । अति प्राचीनकाला देव सम्बद्धत्वात् ग्रन्थोऽयं दुरूहो दुर्योधश्च जातः । महनीयस्य प्रत्यक्षस्यास्य ज्योतिष शास्त्रस्य त्रयो मार्गाः भवन्ति । तस्मादिदं शास्त्रं त्रिस्कन्धमित्युच्यते बुधैः । तदुक्तं यथा -
'सिद्धान्त-संहिता-होरा-रूपं स्कन्धत्रयात्मकम् ।
वेदस्य निर्मलं चक्षुर्योतिश्शास्त्रमनुत्तमम्' ।।
अस्य त्रिस्कन्धात्मकस्य ज्योतिषस्याधोलिखिताऽष्टादशमहर्षयः प्रवर्तकाः र दिताः सन्ति । एते समये समये ज्यौतिषस्य विकासाय प्रयत्नानि चक्रः । एतेषां गणना पद्याभ्यां यथा--
'सूर्यः पितामहो व्यासो वशिष्ठोऽत्रि: पराशरः ।
कश्यपो नारदो गर्गो मरीचिमनुरङ्गिराः ॥
लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः ।
शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्तकाः ॥
एतत् स्पष्टम् । अपरञ्च सिद्धान्ततत्त्वविवेके श्रीमता कमलाकरभट्रेन अस्य शास्त्रस्य विकासक्रमःप्रशस्तिश्च निम्नाङ्कितेन पद्येन कृताऽस्ति । एतच्च ध्यातव्यम् -
'ब्रह्मा प्राह च नारदाय हिमगुर्यच्छौनकायामलं,
माण्डव्याय वशिष्ठसंज्ञकमुनिः सूर्योमयायाह यत् ।
प्रत्यक्षागमयुक्तिशालि तदिदं शास्त्रं विहायान्यथा,
यत् कुर्वन्ति नराधमास्तु तदसद्वेदोक्तिशून्याभृशम् ॥
उपर्युक्तानामेतेषां सिद्धान्ता अपि तदारभ्य प्रचलिताः सन्ति स एष सिद्धान्तयुगः ।
सिद्धान्तयुगः
सम्पादयतुसमीक्षका: विद्वांसः कथयन्ति–वेदाङ्गज्यौतिषादारभ्य यो युगः वराहमिहिर पर्यन्तमायाति तं वयं सिद्धान्तयुगस्य नाम्ना जानीमः । यतो ह्यस्मिन् युगे सिद्धान्तानां प्रवर्तनं प्रचलनं वा सविशेषरूपेणाभूत् । युगोऽयमस्मभ्य: तमसावृतः स्याद्यदि सुवि ख्यातो वराहमिहिरस्तस्मिन् युगे प्रचलितानां पञ्च सिद्धान्तग्रन्थानां सारांशं स्वपञ्च सिद्धान्तिकायां प्रचारितं न कुर्यात् । वराहमिहिरः स्वयमेव सर्वतन्त्रस्वतन्त्रः प्रतिभासम्पन्नः ज्योतिविदासीत् । इत्येव नहि ते चैकस्य स्वतन्त्रस्य सिद्धान्तग्रन्थस्य रचनायाः वैचक्षण्यं स्वस्मिन् स्थापयन्ति स्म। परञ्च तैः व्यापकबुद्धया तद्युगस्य सिद्धान्त ग्रन्थानां परिचय: समुपस्थापितः । ऐतिहासिकदृष्ट्या महत्त्वपूर्णमिदं कार्यम् ।
विद्वांसः कथयन्ति यत्-पञ्चसिद्धान्तिकग्रन्थस्य या प्रतिः सम्प्रत्युपलब्धाऽस्ति, या च डॉ० थीवो महाशयेन महामहोपाध्याय-पण्डितसुधाकर-द्विवेदिना च आंग्लानुवादेन संस्कृतटीकया च सह १८८९ ईशवीये वर्षे प्रकाशिताऽऽसीत् सा प्रतिः अनेकषु स्थलेषु अशुद्धा भ्रष्टा च विद्यते । तथापि सम्पादकयोः अश्रान्तपरिश्रमेण कृतमेतत् दुष्करं कार्य ज्योतिषशास्येतिहासे महत्त्वपूर्णमासीत् । एषां पञ्चसिद्धान्तानां नामानि सन्ति (१) पोलिशः, ( २ ) रोमकः, ( ३ ) वांशिष्ठः, ( ४ ) सौरः, ( ५ ) पैतामहश्च । एतेषां विषये आचार्यवराहमिहिरेण स्वयमेव लिखितं यत्-एषु पञ्चसु सिद्धान्तेषु पोलिश-रोमकयोश्च व्याख्याकाराः लाटदेव-महाशयाः सन्ति । पोलिशसिद्धान्तः सुस्पष्टोऽस्ति । रोमकसिद्धान्तोऽपि तस्यैव साहचर्य धत्ते । सूर्यसिद्धान्तः सर्वतोऽधिक:
सुस्पष्टः । अवशिष्टौ च वाशिष्ठ-पैतामहसिद्धान्तौ-अतीवभ्रष्टौ स्तः । अस्य ग्रन्थस्य रचनाकालः प्रथमशतक:।
एषु सिद्धान्तग्रन्थेषु सूर्यसिद्धान्तनामको ग्रन्थः पृथगप्युपलब्धो भवति । अस्य च सारांशः पञ्चसिद्धान्तिकायामपि प्रदत्तोऽस्ति । द्वयोस्तुलनया द्वयोरन्तरं प्रतीयते । ज्ञायते यत् प्राचीन सूर्यसिद्धान्ते नवीनानि संशोधनानि कृतानि सन्ति । येषां लक्ष्यमासीत् यत् सूर्याचन्द्रमसोः ग्रहयोः चंक्रमणस्य काल: (यस्य पारिभाषिकीसंज्ञा भगणो विद्यते।) नेत्राभ्यां दृष्टानां यन्त्रश्च मापितानां मानानां यथासम्भवं नेकटयं प्राप्नुयात् । अनेन प्रकारेण संशोधितः सूर्यसिद्धान्तः प्राचीनसंस्करणापेक्षयाऽधिकं फलं ददाति ।
(१) पितामहसिद्धान्तः - पञ्चसिद्धान्तिकाया: द्वादशाध्याये केवलं पञ्चश्लोके ध्वस्य परिचयो विद्यते । तेन ज्ञायते यत् एतन्मतं वेदाङ्गज्यौतिषेन सह प्रचुर साम्यं दधाति ।
(२) रोमकसिद्धान्तः - अस्य सिद्धान्तस्य लेखकः श्रीपेणः कथ्यते । परञ्च डॉ० थीवो महाशयस्य मतमस्ति यत् श्रीषेणेन न कोऽपि मौलिकः ग्रन्थः विरचितः अपितु प्राचीनरोमकसिद्धान्तस्य केवलं नवीनं स्वरूपमेव प्रदत्तम् । रोमकसिद्धान्तः यवनज्यौतिषेन सह साम्यं स्थापयति, परञ्चानेकत्र भिन्नता अपि प्रतीयते। अतो वयं रोमकसिद्धान्तं यूनानीज्योतिषस्यान्धानुकरणं नैव मन्यामहे। वराहमिहिरात्पूर्व भारते यूनाने चावागमनं विशेषरूपेणासीत् । अतः यूनानीज्योतिषस्यागमनमप्यस्यैव विचारविनिमयस्यैकं स्फुटरूपं विद्यते ।
( ३ ) पुलिशसिद्धान्तः- पञ्चसिद्धान्तिकायामस्य सिद्धान्तानां परिचय: पाठा नामशुद्धया विशुद्धरूपेण न मिलति । अत्र ग्रहणानां गणनायै अपि नियमाः सन्ति, परञ्च ते सूर्य सिद्धान्तस्य रोमकसिद्धान्तस्य चापेक्षयाऽतिस्थूलाः सन्ति । भट्टोत्पलेन वृहत्संहितायाष्टीकायां पृथूदकस्वामिना च ब्राह्मस्फुटसिद्धान्तस्य टीकायां पुलिश सिद्धान्तस्योल्लेखः कृतः । यश्चास्मात् ग्रन्थात् सर्वथा भिन्नः प्रतीयते ।
( ४ ) वशिष्ठसिद्धान्तः-अस्यातिसंक्षेपतमं विवरणं प्राप्यते । अस्य कतिपय सिद्धान्ता पितामहसिद्धान्तेन सह मिलन्ति । वराहमिहिराचार्याः स्वयमेवैनं भ्रष्टमाम नन्ति । ब्रह्मगुप्तेन स्फुटसिद्धान्ते विष्णुचन्द्रेण लिखितस्य वशिष्ठसिद्धान्तस्यकं संशोधितं संस्करणमुपस्थापितमासीत् यद्धि ब्रह्मगुप्तेनातिहीनं कथितम् । साम्प्रतं लघुवशिष्ठ सिद्धान्तस्य नाम्ना य: ग्रन्थः प्रकाशितः स तु अस्माद् भिन्नः ।
सूर्यसिद्धान्तः
सम्पादयतुविख्यातेन वराहमिहिराचार्येण स्वयमेव सूर्यसिद्धान्ताय सर्वतोऽ धिकमुच्चं स्थानं प्रदत्तमस्ति । अद्यापि सूर्यसिद्धान्तः समुपलब्धोऽस्ति । यस्यांग्लहिन्दी भापयोः अनुवादः प्रकाशितोऽस्ति । ग्रन्थोऽयं प्राचीनग्रन्थादनेकत्र भिन्नतां स्थापयति । अस्मिन् संशोधिते सूर्यसिद्धान्ते १४ चतुर्दशाधिकारा अध्यायाः वा सन्ति । तत्र प्रथमेऽध्याये ग्रन्थस्यास्य रहस्योद्घाटनकर्तारः स्वयमेव भगवन्तः सूर्यदेवाः कथिताः सन्ति तदुपदेशञ्च श्रुत्वा मयनामकेनासुरेणास्य निर्माणं कृतम् । अस्य मूलरचयितुर्नाम अज्ञातावस्थायामस्ति । अत्र ग्रहाणां मध्यगतीनां वर्णनमस्ति । दिवाकर-शशीबुधादयो ग्रहाः समानकोणीयवेगेन नहि प्रचलन्ति ।
अस्याः कल्पनाया अनसारंग या स्थितिरुत्पद्यते तां स्थिति 'मध्यमज्या' मध्यमस्थितिर्वा कथयन्ति । ग्रहगी वर्णनानन्तरं बीजसंस्कारकरणस्योपदेशोऽस्ति । गणनायां वेधे चान्तरेण बी संस्कारः परमापेक्षितः संजातः । अतो युगे सूर्यस्य चन्द्रमसः ग्रहाणाञ्च भगणाना संख्यायां परिवर्तनं विहितम् । प्रकारान्तरेण तेषां दैनिकी गतिः परिवर्तिता। एतत्मा षोडशे शतके कृतं भवेत् । सूर्याचन्द्रमसो: या सारिणी 'बरजेसेनेन' स्वकीयेऽनुदिते ग्रन्ये प्रदत्ता, तया सारिण्या ज्ञायते--सूर्यसिद्धान्तस्य मानं पर्याप्तं शुद्धमस्ति । आधुनिकस्य सूर्य-वर्षमानं २६५ दिवसाः ( दिनानि ), ६ होरा, ९ मि० १०८ पलानि ।
सूर्यसिद्धान्ते एतन्मानं ३६५ दिनानि, ६ होरा, १२ मिनटानि, ३६'६ पलानि-विद्यन्ते । अनेन प्रकारेण वयं जानीमो यत्-अद्यापि वैज्ञानिकगणनायाः समकक्षतया सूर्य सिद्धान्तस्य गणना पर्याप्तरूपेण शुद्धा प्रामाणिकी यथार्था च विद्यते एतदर्थमेवास्याः गणनायाः आधारे निर्मिताः पञ्चाङ्गादयोऽपि मान्या भवन्ति ।
द्वितीयेऽध्याये ग्रहाणां स्पष्टस्थिते: वर्णनं विद्यते, एतदर्थञ्च ज्यासिद्धान्तस्योपयोगो विहितोऽस्ति । ग्रहणस्य विषये चन्द्रमसः व्यासः ४८० योजनानि कथितानि सन्ति । पृथिव्याः निदिष्टव्यासेन ( १६०० योजनानि ) तुलनायां चन्द्रमसः व्यासः पृथिव्याः व्यासस्य ०'३३ इत्यस्ति । यद्धि वास्तविकात् मापनात्--अधिकं भिन्नं नास्ति । परश्च सूर्यव्यासस्य वर्णनं नितान्तमशुद्ध मस्ति सूर्यस्य व्यासः पृथिव्याः व्यासात् चतुर्गुणोऽत्र प्रतिपादितोऽस्ति । यः वास्तविकेन व्यासेन अत्यधिकोऽशुद्धो विद्यते ।
अनेनैव प्रकारेण सूर्यग्रहणज्ञापनस्य पद्धतावपि महत्या बुद्धिमत्तया कतिपयनियमाः प्रसारिताः सन्ति, यद्यप्यनेकसंशोधनानां परित्यागेनान्तिमः परिणामः समुचितो न निःसरति । एतदनन्तरं ग्रहयुतेः, नक्षत्रयुतेश्च वर्णनं विद्यते । एकस्मिन् अध्याये यन्त्राणां निर्माणस्य वर्णनं विद्यते । अन्तिमे मानाध्याये अयनस्य, संक्रान्तेः, उत्तरायणस्य, . दक्षिणायनस्य चान्द्र-सावनवर्षयोश्च कालविवेचनं कृतमस्ति । अत्र सूचितमस्ति यत् - सावनदिनम् सूर्यस्यैकस्मादुदयादारभ्यान्योदयपर्यन्तस्य कालं कथयन्ति ।
आर्यभटः
सम्पादयतुआर्यभटः तु सुनिश्चितं विद्यते यत्-भारतीयज्योतिषशास्त्रस्येतिहासस्या विच्छिन्नापरम्परासु निश्चितरूपेणार्यभटादारम्भो भवति । वेदांगज्योतिषस्य रचना सामान्यतः पञ्चदशशतकात् पूर्वमामनन्ति विद्वज्जनाः। तदनन्तरं सहस्रवर्षपर्यन्तं कस्यापि ज्योतिर्विद: स्थितिनं ज्ञायते । कौटिल्यस्यार्थशास्त्रस्यानुशीलनेन परिज्ञानं भवति यत्-तस्मिन् काले ३०० ईशवीये पूर्वे ज्योतिषस्य सविशेषोन्नतिरासीत् ।
जनमतावलम्बिना 'सूर्यप्रज्ञप्ति'-चन्द्रप्रज्ञप्तिश्चेति नामको द्वौ ग्रन्थी समुपलब्धौ स्तः यो कौटिल्यस्यकशताब्दीपूर्ववतिनो स्तः । तयोविषय:-विश्वस्य ( सृष्टेः ) रचना विद्यते तथा चानयोः सूर्यचन्द्रविषयिकाः कल्पना: जैनधर्ममतानुसारं निर्दिष्टाः सन्ति । . आर्यभटस्य जनिः ४७६ ईशवीयेवत्सरे कुसुमपुरे (पाटलिपुत्रे) अभूत् । अनेन अयोविंशतितमे वयसि ४९९ ईशवीये स्वमहत्त्वपूर्ण: ग्रन्थः विरचितः । यो हि तन्नाम्नव 'आर्यभटीय' इति कथ्यते । अस्मिन् ग्रन्थे शककालस्य वैक्रमसम्वत्सरस्य वा चर्चा नास्ति ग्रहाणां गणनाय च ३६०० कलिसंवत्सरं ( ४९९ ई० ) निश्चितमस्ति ।
पञ्चशतकस्य मध्ये 'महासिद्धान्तस्य' रचयिता एकोऽन्यो ज्योतिविदस्यैव नाम्नो बभव. तस्मादेनं पृथककरणाय अयमार्यभटः प्रथमः' इति कथनं समुचितं भविष्यति । इमे सनिश्चितमतीवप्रतिभाशालिनो ज्योतिविद आसन्, यः प्राचीनग्रन्थेषु लिखितान सिद्धान्तान् स्वानुभवः शोधयित्वाऽस्यार्यभटीय ग्रन्थस्य रचना कृता। आज रचना पद्धतिरतीववैज्ञानिकी विद्यते भाषाचातिसंक्षिप्ता, येनैपां सिद्धान्ता हा. संजाताः । तथाचोक्तं गोलपादे -
सदसज्ज्ञानसमुद्रात् समुद्धतं देवताप्रसादेन ।
सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिना वा ॥
आर्यभटस्य सिद्धान्ता
सम्पादयतुआर्यभटीये १२१ सम्पूर्णश्लोकाः सन्ति, ये चतुर्पु खण्डेषु विभाजिताः सन्ति-(१) गीतिकापादः, (२) गणितपादः, ( ३ ) कालक्रिया पादः, ( ४ ) गोलपादश्चेति । गीतिकापादः केवलं ११ श्लोकानामस्ति, ये विषया श्चात्र वणिताः सन्ति ते सूर्यसिद्धान्तस्यानेकेष्वधिकारेषु सन्ति । एभिरक्षरः संख्या प्रकटनस्यकानवीनारीतिरुद्भाविता। येन श्लोकेषु महतीनां संख्यानां नियमने सोविध्यं संजातम् । एतदनुसारं 'क' वर्णादारभ्य' म' पर्यन्तस्थिता: वर्णाः क्रमशः १ इत्यारभ्य २५ पर्यन्तसंख्यानां द्योतकाः सन्ति ।।
(२) आर्यभटस्य मूलसिद्धान्तोऽस्ति यत् पृथिव्याः दैनिकं भ्रमणं भवति । नौकागतिरिव पृथिव्यपि नैरन्तर्येण भ्रमति सूर्यश्च स्वयं स्थिर एवास्ति । अनेन सिद्धान्तेनास्य विचारस्वातन्त्र्यस्य परिचयो मिलति । एतेषामस्य सिद्धान्तस्य कारणात् वराहमिहिर-ब्रह्मगुप्ताभ्यां ज्योतिर्विद्भयामेतेषां निन्दा विहिता।
(३ ) युगानां परिमाणेऽपि-एषां नवीनं मतमस्ति, यत्र प्रत्येकस्मिन् महायुगे सत्य-त्रेता-द्वापर-कलियुगाश्च विभिन्न परिमाणात्मका: स्वीक्रियन्ते तत्रतैः सर्वे समान कालिकाः स्वीकृताः ।
आर्यभटेन स्वग्रन्थस्य तृतीयेऽध्याये विविधज्यौतिषसम्बन्धिनो विषयाः लिखिताः, ययिते यत्-चैत्रशुक्लप्रतिपत्तः युगाना, वर्षस्य, मासस्य, दिवसस्य च गणनायाः शुभारम्भो भवति । अत्र ग्रहाणां मध्यमगतेः स्पष्टगतेश्च नियमानामुल्लेखो विद्यते । ग्रन्यस्यान्तिमेऽध्याये ( गोलपादे ) पञ्चाशत् श्लोकाः सन्ति, येषु गोलविषयका अनेके नियमाः, युगसम्बन्धिता: नवीनाः कल्पना:, सूर्याचन्द्रमसोः ग्रहणानां गणनादयः विविध ज्योतिष सम्बन्धितानां नियमानां. समीक्षा विद्यते । पृथिव्याः दैनिकभ्रमणस्य विषये आर्यभटेन कमनीयमुदाहरणं प्रस्तूय लिखितं यत्-यथा प्रचलन्त्यां नौकायां स्थितो मनुष्य: तटस्थितान् स्थिरान् वृक्षान् विपरीतदिशायां चलन्निव पश्यति तद्वत् लङ्कायां ( भूमध्यरेखायां ) स्थिराः ताराः पश्चिमस्यां दिशि प्रचलन्त्यः दृश्यन्ते ।
एतदतिरिक्तं स्वगोलसम्बन्धिताः अनेके विषयाः अत्र ग्रथिताः सन्ति । आर्यभटीय स्योपरि चतस्रष्टीकाः उपलभ्यन्ते । यासां रचयितृणां नामानि सन्ति-(१) भास्कर प्रथमः, (२) सूर्यदेवयज्वा, (३) परमेश्वरः, (४) नीलकण्ठश्चेति । तत्र परमेश्वरस्य 'भट्टदीपिकया' सह–उदयनारायणसिंहेन हिन्दीभाषायां टीका की विद्यते । सूर्यदेवयज्वनः अप्रकाशितायां टीकायाम् आर्यभटप्रकाशस्यापि चर्चा विद्यते ।
वराहमिहिरः
सम्पादयतुअवन्तिकायाः सूर्यभक्तस्य वराहमिहिरस्य स्थानं ज्योतिष-जगति सूर्यसदृशोपममस्ति । इमे अवन्तिपुर्याः निवासिन आसन् । एतैः स्वसमयस्य सुस्पष्टा चर्चा न कृताऽस्ति । तथाप्यनेकैः प्रमाणः वराहमिहिरस्य जीवनकाल: षष्ठशतकस्य पूर्वार्द्ध स्वीक्रियते । एषां पितुर्नाम- आदित्यदास आसीत्, ये एषां विद्यागुरवोऽ प्यासन् । एवञ्च 'कापित्थकः' वासस्थानमासीत् । एतत् स्थानमद्यापि 'उज्जयिन्याः' पार्वे 'कामथा' नाम्ना प्रख्यातमस्ति । एतैः सूर्य प्रसाद्याशेषं ज्ञानं सम्प्राप्तम् । एषां पृथुयशसा पुत्रेण 'षट्पञ्चाशिकाया' रचना कृता, या अद्यापि प्रचलिता विद्यते ।
ग्रन्थाः- एषां ग्रन्थाः स्वविषयस्य प्रौढासु, प्रमाणसमन्वितासु रचनासु विद्यन्ते । मुख्यग्रन्थानां नामानि सन्ति--( क ) पञ्चसिद्धान्तिका, ( ख ) बृहज्जातकः ( ग ) बृहयात्रा, बृहद्विवाहपटलयात्रा च, (घ ) बृहत्संहिताचेति ।
लाटदेयः
सम्पादयतुज्यौतिविदांवरेण वराहमिहिरेण पञ्चसिद्धान्तिकायां येषां पञ्च ग्रन्थानां समाहारः कृतस्तेषु द्वयोः पोलिशरोमकयोश्चेमे रचयितारः सन्तीति तज्ज्ञाः कथयन्ति । भास्करप्रथमेन विरचिताद् 'महाभास्करीयात्' ज्ञायते यत्-इमे आर्य भटस्य शिष्या आसन् । एषां काल: वै० सं० ५६२ तः ६६५ इत्यस्य मध्ये स्वीकर्तव्यः । रोमकसिद्धान्तस्य रचनाशेल्या एतद् ज्ञायते यत् अयं ग्रन्थः ग्रीक ( यूनान ) सिद्धान्तेष्वाश्रितः । कतिपयविदुषां मतमस्ति सिकन्दरियायाः सुप्रसिद्धस्य ज्योतिविदः 'तालोमी' इत्यस्य सिद्धान्तानामाधारे अस्य ( रोमकसिद्धान्तस्य ) रचना बभूव ।
अस्य प्रमाणं ते यवनपुरस्य मध्यकालीने सिद्धं साधितं वा अहर्गणं स्थापयन्ति । ब्रह्मगुप्तेन तु अस्य सिद्धान्तानां भूयसी निन्दा कृता। पुलिशसिद्धान्तनामकस्य ग्रन्थ स्योल्लेखः भट्टोत्पलेन वाराहमिहिरस्य 'बृहत्संहितायाः' टीकायां 'पृथूदकस्वामिना' च ब्रह्मगुप्तस्य 'स्फुटसिद्धान्तस्य टीकायां कृतः । अयं सिद्धान्तग्रन्थः रोमकसिद्धान्तस्या पेक्षयाऽतीव स्थूलः । गणनायाः सुविधाये सन्निकटनिनियमैश्च साधितोऽयं ग्रन्थः । प्राचीनमूलग्रन्थोऽद्याप्यनुपलब्ध एवेति ।
भास्कर-प्रथमः
सम्पादयतुइमे भास्कराः लीलावत्याः विख्यात रचयितुर्भास्कराचार्यात भिन्ना आसन् । एतेषां द्वौ ग्रन्थौ साम्प्रतमुपलब्धौ स्तः । तो च-( १ ) महा भास्करीयः, ( २ ) लघुभास्करीयश्च । अनयोः ग्रन्थयोः एतैः आर्यभटस्य सिद्धान्तः प्रमाणत्वेनोपन्यस्तः। एतेषां जन्मस्थानं 'अश्मक' इति कथ्यते । अस्य स्थानस्य स्थितिः नर्मदा-गोदारीनद्योर्मध्ये क्वाप्यासीत् । अनयोयो ग्रन्थयोः उपयोगः दक्षिणभारते पश्चदशशतकं यावत् बाहुल्येनासीत् ।
ब्रह्मगुप्तः
सम्पादयतुज्योतिषाचार्येषु ब्रह्मगुप्तस्य स्थानमतीवोज्ज्वलमुच्चं चास्ति सुप्रसिद्धन भास्कराचार्येणायं 'गणकचक्रचूडामणि' इति कथितः । इत्येव नहि एषां मूलांकान् स्वरचनायाः सिद्धान्तशिरोमण्याः आधारभूमिः स्वीकृता। एषां जनिः ईशवीये ५९८ यत्सरे पचनदप्रदेशस्य 'मिलनालका' स्थाने बभूवेति । एतेषां द्वौ ग्रन्थो स्तः---
( १ ) ब्राह्मस्फुटसिद्धान्तः, ( २ ) खण्डखाद्यकश्चेति । अनयोः ग्रन्थयोः अनुवादोऽरबी भाषायामप्यभूत् । यस्मिन् 'अस-सिन्ध-हिन्द' ब्राह्मस्फुटसिद्धान्तस्य तथा च 'अल अर्कन्द' खण्डखाद्यकस्यानुवादोऽप्यस्ति । एतैः विभिन्नस्थानेषु एतन्निर्देशः कृतो यत आर्यभट-श्रीषेण-विष्णुचन्द्रादीनां गणनायां ग्रहाणां स्पष्टस्थानं न शुद्धिमायाति अतस्तानि ग्राह्योपयुक्तानि न सन्ति । पश्चाच्चभवद्भिरेतदपि लिखितं यत्--ब्राह्मस्फुट सिद्धान्तेन दग्गणितैक्यं भवति । अत: मान्योऽयं ग्रन्थः । तथा चोक्तम् -
तन्त्रभ्रंशे प्रतिदिनमेवं विज्ञाय धीमता यत्नः ।
कार्यस्तस्मिन् यस्मिन् दृग्गणितैक्यं सदा भवति ।
अनेन कथनेनैतद् सुस्पष्टं भवति यत्तः ग्रन्थानां रचना ग्रहाणां प्रत्यक्षवेधं विधायव कृताऽऽसीत् । ते एव प्रथमकल्पाः एतादृशाः ज्योतिर्विद आसन् ये प्रयोगेषु दृढामास्थां स्थापयन्ति स्म । एकत्रतैः कथितमपि यत्-यदा-कदा गणनायां वेधे चान्तरस्यात्तदा वेधेन गणनायाः शुद्धिः कर्त्तव्या।
ब्राह्मस्फुटसिद्धान्ते चतुर्विशत्यध्यायाः सन्ति, ते च यथा-मध्यमाधिकारः, स्पष्टा धिकारः, त्रिप्रश्नाधिकारः, चन्द्रग्रहणाधिकारः, सूर्यग्रहणाधिकारः, उदयास्ताधिकारः, चन्द्रशृङ्गोन्नत्यधिकारः, चन्द्रच्छायाधिकारः, ग्रहयुत्यधिकारः, भग्रहयुत्यधिकारः, तन्त्रपरीक्षाध्यायः, गणिताध्यायः, मध्यगति-उत्तराध्यायः, स्फुटगति-उत्तराध्यायः, त्रिप्रश्नोत्तराध्यायः, ग्रहणोत्तराध्यायः, शृङ्गोन्नत्युत्तराध्यायः, कुट्टकाध्यायः, शंकु च्छायादिज्ञानाध्यायः, छन्दश्चित्युत्तराध्यायः, गोलाध्यायः, मन्त्राध्यायः, मानाध्यायः संज्ञाध्यायश्चेति ।
.अस्मिन् ग्रन्थे न केवलं ज्योतिपस्य, अपि तु बीजगणितस्य, अंकगणितस्य क्षेत्रमितेश्चापि प्रामाणिकं विवरणं वयं प्राप्नुमः । एप्वध्यायेषु ग्रहाणां मध्यमगतेः गणनायाः, एषां स्पष्टगतिर्ज्ञानस्य रीतीनां दिशः, देशस्य कालस्य च ज्ञानस्य रीतयः, चन्द्र-सूर्यग्रहणयोः गणनायाः ग्रहाणामेकोऽन्यस्य पार्वे आगमनस्य, चन्द्रमस: वेधेन छायायाः ज्ञानस्य, नक्षत्रैः सह ग्रहाणां युत्यादीनां विवरणं सम्यक्तया शास्त्रीयपद्धत्या कृतमस्ति ।
गोलाध्याय-नामकेऽध्याये भूगोलखगोलयोः सम्बन्धिता गणना विद्यते । अस्मिन्नप्य नेके भागाः सन्ति–तद्यथा-ज्याप्रकरणम्, स्फुटगतिवासना, ग्रहणवासना, गोल बन्धाधिकारश्चेति । एषु भूगोल-खगोलयोः सम्बन्धितानां परिभाषाणां ग्रहाणाञ्च विम्बानां व्यासादिज्ञानस्य रीतयः प्रदर्शिताः सन्ति । ब्रह्मगुप्तस्यान्या रचना 'खण्ड खाद्यक' इत्यस्ति । एभिः सेयं .रचना ६६५ ईशवीये वत्सरे स्व एकोनसप्ततितमे वयसि कृता । अयं ग्रन्थः आर्यभटस्य सिद्धान्तानामंशतः पक्षपाती विद्यते ।
अस्मिन् दशाध्यायाः सन्ति, येषु प्रारम्भिकाष्टाध्यायास्तु केवलमार्यभटस्यानुकरणमात्रमेवास्ति, उत्तरभागस्य च त्रिष्वध्यायेष्वार्यभटस्यालोचनासंशोधनेन सह कृता विद्यते । पूर्वखण्ड खाद्य कस्याष्टावध्यायाः इत्थम् सन्ति, तिथीनां नक्षत्रादीनाञ्च गणना, पञ्चताराग्रहाणां मध्यस्य स्पष्टस्य च गणना, त्रिप्रश्नाधिकारः, सूर्यग्रहणाधिकारः, उदयास्ताधिकारः, चन्द्रशृंगोन्नत्यधिकारः, ग्रहयुत्यधिकारश्चेति ।
कल्याणवर्मा
सम्पादयतुएषां काल: ५७८ ईशवीये वर्षे स्वीक्रियते । एभिर्यवनानां होरा शास्त्रस्य सारः ‘सारावली' नामके ग्रन्थे प्रतिपादितः । अयं ग्रन्थः सूविशाल: जाता शास्त्रे च महत्त्वपूर्ण स्थानं दधाति । अस्मिन् ग्रन्थे ४२ अध्यायाः सन्ति । अनि मासहस्रद्वयश्लोकाः सन्ति । श्रीमता भट्टोत्पलेन बृहज्जातकस्य टीकायामस्य ग्रन्थस्यो ल्लेखः कृतः।
लल्ल:
सम्पादयतुअस्य पितुर्नामभट्टत्रिविक्रम आसीत् । आर्यभट्टः ( प्रथमः ) एषां गुरुः ख्यातः । एषां सुप्रसिद्धः ग्रन्थः 'शिष्यधीवृद्धिः' अस्ति, यः आर्यभटस्य सिद्धान्तानाम नुसरणं करोति । अस्मिन् गणिताध्याय-गोलाध्यायनामकं प्रकरणद्वयमस्ति । अस्य ग्रन्थस्य रचनाबीजमुक्तं निम्नाङ्किते पद्ये -
विज्ञाय शास्त्रमलमार्यभटप्रणीतं तंत्राणि यद्यपि कृतानि तदीयशिष्यैः ।
कर्मक्रमो न खलु सम्यगुदीरितस्तैः कर्म बीम्यहमतः क्रमशस्तदुक्तम् ।।
लल्लस्य कालविषये विद्वत्सु पर्याप्तो मतभेदस्तिष्ठति । म० म० पं० सुधाकर द्विवेदिना-एषां काल: ४२१ शकसं० निर्धारितः ।
आर्यभटः द्वितीयः
सम्पादयतुआर्यभट-द्वितीयस्य ज्योतिष-गणितयोरुभयोरपि महत्त्वपूर्ण स्थानमस्ति । एषां काल: ९५० ईशवीयस्य पार्वे स्वीक्रियते । एषां सुप्रसिद्धा रचना 'महासिद्धान्तः' विद्यते, यस्मिन् ज्योतिषगणितयोरुभयोरपि समावेशो विद्यते । अस्मिन् ग्रन्थेऽष्टादशाधिकाराः सन्ति । येषु ६२५ आर्याछन्दांसि सन्ति । गोलाध्यायनामके चतुर्दशेऽधिकारे पाटीगणितस्य प्रश्नाः सन्ति । पञ्चदशेऽध्याये क्षेत्रफल-घनफलादयो विषयाः संग्रहीताः सन्ति । एतदतिरिक्त प्रश्नोत्तराध्याय---कुट्टकाध्यायोचापि स्तः ययोः ग्रहाणां मध्यगति-कुट्टकसम्बन्धितेषु प्रश्नेषु क्रमशः विचारः प्रवर्तते ।
मुंजाल:
सम्पादयतुएषां काल: ८५४ शकस्य निकटे स्वीक्रियते । यतो ह्येतैः स्वपुस्तके 'लघुमानसे' ग्रहाणां ध्रुवकाल: ८५४ शकः प्रख्यापितः । अनन्तरं भास्कराचार्य द्वितीयेन मुनीश्वरेण च मुंजालेन निर्दिष्टस्यायनगतेः वर्णनं कृतम् । एभिः प्रमाणः एतद् सुनिश्चितं भवति यत्ते ९३२ ईशवीये वत्सरे विद्यमानाः आसन् । स्वकालस्येमे प्रख्याताः ज्योतिर्विदः आसन् । अत्रैतद् वैशिष्ट्यमस्त्येषां यत्--तारकाणां निरीक्षणं विधाय नव-नवानां विचाराणामेभिः प्रस्तुतीकरणं कृतम् । लघुमानसेऽष्टाधिकाराः सन्ति ।
उत्पल:
सम्पादयतुज्योतिषग्रन्थानां टीकाकारेषु उत्पलस्य नाम सुविख्यातमस्ति । बृहज्जा तकस्य टीकायां-टीकालेखनकाल: ९६६ ईशवीयस्य चत्रशुक्लपञ्चमी इति निर्दिष्टो ऽस्ति । अनेन ज्ञायते यदिमे दशमशतके आविर्भूता आसन् । एषां पञ्चसंख्यकार्टीकाः समुपलब्धाः सन्ति । (१) बृहज्जातकस्य टीका, (२) बृहत्संहितायाष्टीका, (३) खण्डखाद्यकस्य टीका, ( ४ ) षट्पञ्चाशिकायाष्टीका, ( ५ ) लघुजातकस्य टीकाचेति ।
पृयूवकस्वामी
सम्पादयतुएभिः ब्रह्मगुप्तस्य ब्राह्मस्फुटसिद्धान्ते एका टीका विरचिता, अपि चैषां मतस्योल्लेखो भास्कराचार्येण ( द्वितीयेन ) स्वग्रन्थेषु अनेकत्र कृतोऽस्ति । दीक्षितस्य मतानुसारमिमे उत्पलस्य समकालीनाः सन्ति । अपि चैतः ब्रह्मगुप्तस्यान्य ग्रन्थस्य 'खण्डखाद्यकस्यापि' टीका लिखिता। एतेन स्पष्टं भवति यत् यथा उत्पलेन वराहमिहिरस्य मताना स्वटीकाभिरभिव्यक्तीकृतस्तथैव पृथूदकस्वामिना ब्रह्मगुप्तस्य काठिन्ययुक्तानां ग्रन्थानां स्वव्याख्याभिः सुबोधः सरलश्वविहितः । एषा मुदयः १० दशमशताब्द्यामनुमीयते ।
श्रीपतिः
सम्पादयतुइमे महाशयाः स्वकालस्याद्वितीयाः ज्योतिर्विद आसन् । एषां मुख्य ग्रन्थाः सन्ति-(१) गणिततिलकः, (२) बीजगणितम्, ( ३ ) धीकोटिकरणम, (४) सिद्धान्तशेखरः, (५) ज्योतिषरत्नमाला, (६) जातकपद्धतिः, (७) दैवज्ञवल्लभः, (८) श्रीपतिनिबन्धः, (९) ध्रुवमानसकरणं, .( १०) श्रीपति समुच्चयश्च ।
एषां पाटीगणितस्योपरि. सिंहतिलकनामकस्य जैनाचार्यस्य एका 'तिलक नाम्नी टीकाविद्यते। ईमे गणितस्यैव विशेषज्ञाः नहि-आसन्, अपितु ग्रहवेधक्रिययाऽपि परिचिता आसन् । एतेषां प्रधानग्रन्थ: सिद्धान्तशेखरः वेधक्रियया ग्रहगणितस्य वस्तु स्थिति ज्ञात्वा लिखितोऽस्ति । एषां काल: प्रमाणः प्रमाणितः एकादशशतकस्य मध्य कालः स्थिरीभवति ।
शतानन्दः
सम्पादयतुएषां ग्रन्थः 'भास्वतीकरणं' वराहमिहिरस्य सूर्यसिद्धान्तस्याधारे १०९९ ईशवीये वत्सरे लिखित आसीत् । ग्रन्थोऽयमतीवसुप्रसिद्ध आसीत् । अत एवास्यानेकाष्टीकाः संस्कृते हिन्दीभाषायाञ्चोपलब्धाः भवन्ति । अस्मिन् ग्रन्थेऽष्टा वधिकाराः अध्यायाः वा सन्ति, येषु ग्रहाणां गतेः वर्णनातिरिक्तं सूर्यग्रहणयोश्च वर्णनं पृथगध्यायेषु कृतमस्ति ।
भास्कराचार्यः द्वितीय:
सम्पादयतु'यथा नाम तथा गुणः' इति नियमानुसारेण भास्करा चार्यद्वितीयाः वस्तुतः ज्योतिर्गगनस्य भास्करा एव आसन् । वराहमिहिरस्य ब्रह्मगुप्तस्य चानन्तरमेतेषां समानकोटिकाः प्रतिभाशालिनः सकलगुणसम्पन्नाश्च अन्यः कोऽपि ज्योतिविद्-नाभूत् । नात्र सन्देहलेशोऽपि ज्योतिविदां मण्डलीषु । एतेषां जनिः सह्याद्रिपवंतस्य समीपे विज्जववीडग्रामेऽभूत् । एतेषां पितुर्नाम महेश्वर आसीत् । 'अशिक्षितास्त्रं पितुरेव मन्त्रवत्' इति दिशा एतैः पितुः सकाशादेव ज्योतिविद्यामाशि शिक्षत् । एषां जन्मकाल: १११४ ईशवीये स्वीक्रिते । स्वल्पे-प्रौढे च ३६ षट्त्रिंशत्तमे वयसि-एभिः सिद्धान्तशिरोमणेः रचना कृता। तथा चोक्तं स्वयमेव गोलाध्यायस्य प्रश्नाध्याये -
रसगुणपूर्णमही-समशकनृप-समयेऽभवन्ममोत्पत्तिः ।
रसगुणवण मया सिद्धान्तशिरोमणी रचितः ॥
एतेषां विरचिताः प्रख्याताश्चत्वारो ग्रन्था सन्ति, ते चातीवलोकप्रियाः व्यवहृताश्च सन्ति । ते चेमे-(१) सिद्धान्तशिरोमणिः, (२) लीलावती, (३) बीज गणितम्, ( ४ ) करणफुतूहलञ्चेति ।
भास्करोत्तरकालः
सम्पादयतुमहामहनीयस्य ज्योतिविदो भास्कराय॑स्यानन्तरं ज्योतिषशास्त्रस्यानेके विद्वांसो लेखकाः समभूवन् । येषां ग्रन्थेषु फलितस्य, जातकस्य, मुहूर्तादिविषयाणाचव मिलति । समेषां वर्णनमत्रलघुकाये वेदाङ्गेतिहासेऽसंभवत्वात्, कतिपयानामतिप्रमित नामाचार्याणां तेषां ग्रन्थानाञ्च निर्देशमात्र मेवात्रोपस्थाप्यते
(१) वल्लालसेनःसुप्रसिद्धस्य राज्ञः लक्ष्मणसेनस्य जनकेन महाराजाधिराजेन वल्लालसेनेन ११६८. ईशवीये वर्षे 'अद्भुतसागर' इति नाम्न्याः संहितायारेकाया बृहत्संहिताया अनुकरणं करोति । अस्मिन् ग्रन्थे एकाधिकानां प्राचीनाचार्याणां ग्रन्था नाञ्चोद्धरणानि सन्ति । इत्येव नहि बहुविधानां विलक्षणातिघटितघटनानामुल्लेखो ऽपि वर्तते ।
( २ ) केशवार्कस्य 'विवाहवृन्दावनम्' (१३शतके रचितम्) तद् विवाहोपयुक्तानां मुहूर्तामा परिचयं प्रददाति ।
(३ ) ज्योतिविदाभरणम् - इति नामक: मुहूर्तग्रन्थः केनापि कालिदासेन विरचित इति कथ्यते ।
(४) महेन्द्रसूरेः 'यन्त्रराजः' यन्त्राणां परिज्ञानाय प्रामाणिको ग्रन्थो विद्यते ( रचनाकाल: १२९२ शकः )।
(५) मकरन्दः - एभिर्योतिविद्भिः १४७८ ईशवीये सूर्यसिद्धान्तस्यानुसारेण तिथ्यादीनां विशिष्टज्ञानाय स्वस्यैव नाम्न्यैका सारणी काश्यां विरचिता। यां सारणी माधुत्याधुनापि काश्यां मिथिलायाञ्च पञ्चाङ्गानि निर्मीयन्ते ।।
(६) गणेश-वैधज्ञः-एषां प्रमुखो ग्रन्थः 'ग्रहलाघवो'ऽस्ति, योऽद्यत्वेऽतीव प्रसिद्धः । अस्योपरि विभिन्नाष्टीकाः प्राप्यन्ते । एषां जनकः केशवस्तस्मादपि महान्त आचार्याः संशोधकाश्चासन् । सूर्यस्य, चन्द्रमसः ताराग्रहाणाञ्च वेधं कृत्वा गणना प्रस्तुतीकरणे एषां दृढं मतमस्ति । केशवस्य अपरो ग्रन्थः ‘ग्रहकोतुको'ऽस्ति, यस्यारम्भः १४९६ ईशवीये वत्सरेऽभूत् ।
(७) नीलकण्ठ:- अस्य 'ताजिकनीलकण्ठी' नामको ग्रन्थोऽतीव सुप्रसिद्धो विद्यते । वर्षफल रचनाय अस्य ग्रन्थस्य ज्योतिवित्सु महतीप्रतिष्ठा विद्यते । इमे अकबरस्य राजसभायां सभापण्डिता आसन् । एतेषामेवानुजानां 'रामदैवज्ञ' महोदयानां 'मुहूर्तचिन्तामणि' ( रचनाशकः-१५२२ ) नामकोऽतीव प्रसिद्धो ग्रन्थो विद्यते । एष ग्रन्थः मुहूर्तनिर्णयाय सर्वाधिको लोकप्रियः । अस्य ग्रन्थस्योपरि अस्य भ्रातुप्पुत्रेण गोविन्देने पीयूषधारा नाम्नी महत्त्वपूर्णा टीका विलिखिता।
(८) कमलाकरः- इमे महान्तः ज्योतिर्विदः युगप्रतिनिभूता अग्रगण्यगणका आसन् । एषां जनिः १६०८ ईशवीयस्य कस्मिन्नपि समयेऽभूदिति । इमे च 'न्यूटन' समकालीनाः सन्तीति । एषां महत्त्वपूर्णः सिद्धान्तग्रन्थोऽस्ति--सिद्धान्ततत्त्वविवेकः । ग्रन्थाऽयमेतैः काश्यां १६५८ ईशवीये वत्सरे प्रचलितसूर्यसिद्धान्तानुसारं विलिखितम् । अतद् वैशिष्टयं विद्यते यत् भारतीये ज्योतिषशास्त्रे क्वचिदपि ध्रुवतारायाः गते वर्णनं नास्ति, परञ्चेमेतान्तारां गतिशीलां मन्यन्तेस्म। या च वतंकानकालस्य वैज्ञानिक्या गणनया प्रमाणिता भवति । अंकगणितस्य, रेखागणितस्य, क्षेत्रमितेः ज्या साधनस्य च रीतयः नवीनाः इव प्रतीयन्ते ।
आधुनिककाल:
सम्पादयतु(१) बापूवेवशास्त्री- इमे महानुभावाः काशीस्थराजकीयसंस्कृतमहाविद्यालय - ( क्वीन्सकालेज ) स्य प्रधानज्योतिषाचार्याः गणिताचार्याः च आसन् । एतन्निमिता: संस्कृत-हिन्दीभाषयोः अनेके ग्रन्थाः सन्ति । रेखागणित-त्रिकोणमिति-गायनवाद-तत्त्व विवेकपरीक्षा-अंकगणितादयश्च संस्कृतग्रन्थाः प्रकाशिताः सन्ति । हिन्दीभाषायामेते. अंकगणित-बीजगणितयोः रचना कृता । अपरञ्च-सिद्धान्तशिरोमणेः गोलाध्यायस्य सूर्यसिद्धान्तस्य चांग्लानुवादः विल्सनस्य सहयोगेन ( १८६१-६२ ईशवीये वर्षे ) कृतः।
( २ ) केरो लक्ष्मण छत्रे-एभिः ‘ग्रहसाधनकाण्टक' नामको ग्रन्थो मराठी भाषायाम् कांसीसी-आंग्ल-ज्योतिषग्रन्थानाञ्चाधारमाधृत्य लिखितः । अन्यच्च-नाविक पञ्चाङ्गस्यानुसारमेतैः पञ्चाङ्गमपि प्रकाशितम् ।
( ३ ) चन्द्रशेखरसिंह-सामन्तः-इमे उत्कलस्य निवासिन आसन् । स्वनिर्मितानां यन्त्राणां साहाय्येनैभिः सूर्यस्य चन्द्रमसः ग्रहाणाञ्च मूलाङ्कानां संशोधनं विहायाति शयोपयुक्तमेकं पुस्तकं लिखितं, यस्य नाम सिद्धान्तदर्पणमस्ति ।
(४) शंकरबालकृष्णदीक्षितः- इमे महानुभावाः पुण्यपत्तनस्य ( पूना ) महान्तः ज्योतिर्विद भासन् । एषां सर्वतोधिकोपयुक्तोविद्वत्तापूर्णश्च ग्रन्थः . 'भारतीय ज्योतिष शास्त्रा चा इतिहास' मराठीभाषायामस्ति। यस्मिन् प्रायः ६०० पृष्ठेषु वैदिक कालादारभ्याधुनिककालपर्यन्तानां ज्योतिषस्य ज्योतिर्विदाञ्चेतिहासः महद्विवेचनया सह विद्यते । न चात्रकेवलमितिहास एव क्रमबद्धरूपेणास्ति, अपि तु ज्योतिषशास्त्रस्य तथ्यानां सिद्धान्तानाञ्चापि विशदं वर्णनमस्ति । अस्य ग्रन्थस्य हिन्दीभाषायामनुवादः लक्ष्मणपुरात् हिन्दीसमित्या प्रकाशितः 'भारतीयज्योतिष' नाम्ना विख्यातश्च ।
केतकरः- एषां महानुभावानां पूर्ण नाम- 'वेङ्कटेश-बापूजी-केतकर' आसीत् इमे-प्राच्य-पाश्चात्ययोः ज्योतिषस्याद्वितीयाः मर्मज्ञाः ग्रन्थकाराश्च आसन् । एभिः संस्कृतेऽतिशयोपयोगिनां ग्रन्थानां रचना कृता । येषु ज्योतिर्गणित--केतकीग्रहगणिते घ मुख्ये स्तः । प्रथमोग्रन्थः सिद्धान्तज्योतिषस्य परिचायको विद्यते, द्वितीयश्च ग्रन्थः संस्कृतश्लोकेप्वर्वाचीनज्योतिषस्यानुसारं पञ्चाङ्गनिर्माणस्योपयोगी विद्यते । ग्रन्थश्चा यमर्वाचीनज्योतिषेऽद्वितीयं महत्त्वपूर्ण पुस्तकमस्ति ।।
(६ ) यालगंगाधरतिलकः -- इमे महानुभावाः न केवलं राजनीतिविदां वरिष्ठाः, भारतीयस्वतन्त्रतासंग्रामस्य प्रखरनायकाः अपितु ज्योतिषशास्त्रख्य निष्णाता: विद्वांस आसन् । एतेषां ज्योतिषविषयकः सर्वश्रेष्ठः ग्रन्थः 'ओरायन' ( आंग्लभाषा समन्वितः) इति विद्यते । यस्मिन् वेदानां कालमीमांसा महत्प्रौढ़युक्तीनां साहाय्येन कृता विद्यते । ग्रन्थस्तथा पाण्डित्यपूर्णः, शैली च तादृशी वैज्ञानिक्यस्ति यत् अपूर्णे सहमतेऽपि मोक्ष मूलर-सदृशाः पाश्चात्यविद्वांसोऽपि चमत्कृताः सन्तः तन्महत्त्वं स्वीकुर्वन्ति स्म । एषां कालः १८५६-१९२१ ईशवीयो विद्यते ।
(७) म. म. सुधाकर द्विवेदी- वाराणसेयाः महामहोपाध्यायाः पति वरेण्याः सुधाकरद्विवेदिनोऽतीव प्रतिभाशालिनो ज्योतिर्विदः गणितज्ञाशाम किम्बहुना-समस्ते उत्तरभारते ज्योतिषस्य गणितस्य च प्रचार-प्रसारयोः श्रेयस्त. मेतेषां शिष्यान् विद्यते । अपरञ्चतैः प्राचीनज्योतिषग्रन्थान् परिशोध्य नवीनाष्टीका लिखिताः अर्वाचीनोच्चगणिते चापि स्वतन्त्राः ग्रन्थाः लिखिताः । एषामधिकांश ग्रन्थाः संस्कृते सन्ति, येषु दीर्घवृत्तलक्षणम्, विचित्रप्रश्नः, वास्तव-चन्द्र-शृङ्गोन्नति साधनम्, द्युत्तरचारः, पिण्डप्रभाकरः, भाभ्रमरेखानिरूपणम्, धाराभ्रमः, ग्रहणकरणम्, गोलीयरेखागणितम्, यूक्लिडस्य षष्ठ-एकादश-द्वादश संख्यकपुस्तकानां संस्कृते श्लोक बद्धानुवादः, गणकतरङ्गिणी-मुख्याः सन्ति । एतदतिरिक्तं यन्त्रराजे, लीलावत्यां, बीजगणिते, करणकुतूहले, पञ्चसिद्धान्तिकायां सूर्य सिद्धान्ते, ब्राह्मस्फुटसिद्धान्ते, महा सिद्धान्ते, याजुषे-आर्चज्योतिषे ग्रहलाघवे च भवद्भिष्टीका विरचिताः । आसां टीका नामतिरिक्तं हिन्दी भाषायां चलनकलन, चलराशिकलन, समीकरण चादि विविध पुस्तकानां रचना-एभिः कृता । एषां प्रखर पाण्डित्यस्य चर्चा देशे एव किमु विदेशेष्वपि भवति ।