तत्पुरुषसमासः
तत्पुरुषसमासः
सम्पादयतुप्रायेण उत्तरपदार्थप्रधानः तत्पुरुषसमासः।
अतिमालः, अर्धपिप्पली, पूर्वकायः, निष्कौशाम्बिः इत्यादिषु उत्तरपदार्थस्य प्राधान्याभावेऽपि तत्पुरुषः समासः भवति। अतः लक्षणे प्रायेण इत्युक्तम्।
भेदाः
सम्पादयतुतत्पुरुषसमासः चतुर्धा -
- सामान्यतत्पुरुषः
- कर्मधारयः
- द्विगुः
- नञ् प्रभृतयश्चेति।
सामान्यतत्पुरुषः सप्तधा
सम्पादयतु- प्रथमातत्पुरुषः यथा - ‘अर्धग्रामः’ अर्धं ग्रामस्य इति अर्धग्रामः।
- द्वितीयातत्पुरुषः यथा - ‘गृहगतः’ गृहं गतः इति गृहगतः।
- तृतीयातत्पुरुषः यथा - ‘नखभिन्नः’ नखैः भिन्नः इति नखभिन्नः।
- चतुर्थीतत्पुरुषः यथा - ‘गोहितम्’ गवे हितम् इति गोहितम्।
- पञ्चमीतत्पुरुषः यथा - ‘चोरभयम्’ चोरात् भयम् इति चोरभयम्।
- षष्ठीतत्पुरुषः यथा - ‘वृक्षमूलम्’ वृक्षस्य मूलम् इति वृक्षमूलम्।
- सप्तमीतत्पुरुषः यथा - ‘कार्यकुशलः’ कार्ये कुशलः इति कार्यकुशलः।
कर्मधारयसमासः नवधा
सम्पादयतु- विशेषणपूर्वपदकर्मधारयः - यथा - ‘नीलमेघः’ नीलो मेघः इति नीलमेघः।
- विशेषणोत्तरपदकर्मधारयः - यथा - ‘वैयाकरणखसूचिः’ वैयाकरणः खसूचिः इति वैयाकरणखसूचिः।
- विशेषणोभयपदकर्मधारयः - यथा - ‘शीतोष्णम्’ शीतम् उष्णम् इति शीतोष्णम्।
- उपमानपूर्वपदकर्मधारयः - यथा - ‘मेघश्यामः’ मेघः इव श्यामः इति मेघश्यामः।
- उपमानोत्तरपदकर्मधारयः - यथा - ‘नरव्याघ्रः’ नरः व्याघ्रः इव इति नरव्याघ्रः।
- अवधारणापूर्वपदकर्मधारयः - यथा - ‘विद्याधनम्’ विद्या एव धनम् इति विद्याधनम्।
- सम्भावनापूर्वपदकर्मधारयः - यथा - ‘आम्रवृक्षः’ आम्रः इति वृक्षः इति आम्रवृक्षः।
- मध्यमपदलोपीकर्मधारयः - यथा - ‘शाकपार्थिवः’ शाकप्रियः पार्थिवः इति शाकपार्थिवः।
- मयूरव्यंसकादिकर्मधारयः - यथा - ‘देशान्तरम्’ अन्यो देशः इति देशान्तरम्।
द्विगुसमासः त्रिधा
सम्पादयतु- समाहारद्विगुः - यथा - ‘त्रिलोकी’ त्रयाणां लोकानां समाहारः इति त्रिलोकी।
- तद्धितार्थद्विगुः - यथा - ‘षाण्मातुरः’ षण्णां मातॄणाम् अपत्यम् इति षाण्मातुरः।
- उत्तरपदद्विगुः - यथा - ‘पञ्चगवधनः’ पञ्चगावः धनं यस्य सः पञ्चगवधनः।
नञ्प्रभृतयः पञ्चधा
सम्पादयतु- १ नञ्समासः - यथा - ‘अधर्मः’ न धर्मः इति अधर्मः।
- २ कुसमासः - यथा - ‘कुपुरुषः’ कुत्सितः पुरुषः इति कुपुरुषः।
- ३ गतिसमासः - यथा - ‘शुक्लीकृत्य’ अशुक्लं शुक्लं कृत्वा इति शुक्लीकृत्य।
- ४ प्रादिसमासः - यथा - ‘प्राचार्यः’ प्रगतः आचार्यः इति प्राचार्यः।
- - ‘अतिदेवः’ अतिक्रान्तः देवम् इति अतिदेवः।
- - ‘निर्वाराणसिः’ निष्क्रान्तः वाराणस्याः इति निर्वाराणसिः।
- ५ उपपदसमासः - यथा - ‘कुम्भकारः’ कुम्भं करोति इति कुम्भकारः।