अयमपि ग्रन्थोऽज्ञातकर्त्तृक एव नानाग्रन्थानाम् विशेषतो विनयपिटकस्य कथाः स्ंगृह्य ग्रन्थोऽयं प्रणीतः । अयं भागद्वयविभागवान् ग्रन्थः पूर्वभागे महायानसम्प्रदायस्य द्वितीयभागे हीनयानसम्प्रदायस्य च सिध्दान्तान् गर्भीकरोति । एतदग्रन्थप्रणेता अश्वघोषकृतीनां ज्ञाताऽऽसीदिति भावसाम्यं प्रत्यायति । तथा हि अश्वघोषेण यत्र – ‘अतीत्य मर्त्त्याननुपेत्य देवान्’ इत्युक्तं तत्र दिवयावदाने अतिक्रान्तो नानुषवर्णमप्राप्तश्च दिव्यवर्णम्’ इत्युक्तम् ।

क्रैस्तद्वितीयशतकेऽस्य प्रणयनं कृतं स्यादित्यनुमातुं शक्यते यतोऽवदानशतकात्पूर्वकालिकत्वमस्य वक्तुमशक्यम् । ख्री० २६५ तमे वर्षे दिव्यावदानगतायाः शार्दूलकर्णावदानकथायाः चीनभाषानुवादो जातः । अतः प्रथमद्वितीयख्राष्टशतकयोरन्तराले लब्धोदयस्य अवदानशतकस्यासन्नोत्तरकालत्वमस्य निश्चितम् । अत्र वर्णिताः कथा नानारसाः । कुणालस्य कथा त्वतिकरुणा । विविधप्रकारकगद्यपद्योपबृंहितमिदं पुस्तकं बहुग्रन्थाश्रितं सम्भाव्यते ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दिव्यावदानम्&oldid=409317" इत्यस्माद् प्रतिप्राप्तम्