दीपकभाई महेता

(दीपकभाई प्र महेता इत्यस्मात् पुनर्निर्दिष्टम्)

दीपकभाई महेता ( /ˈdpəkəbhɑː məhɛtɑː/) (गुजराती: દીપકભાઈ મહેતા, हिन्दी: Deepakbhai Mehta) प्रसिद्धः शिक्षणविद्, प्रकृतिविद्, लेखकः, कविः, वक्ता चासीत् । शिक्षकत्वेन स्वस्य कार्यकालस्य बहुदीर्घकालः (१९७३-१९८९) तेन श्रीदक्षिणामूर्ति-संस्थायां यापितः । बालशिक्षणविदः गिजुभाई बधेका इत्यस्य विचारैः प्रभावितः दीपकः बाल्यशिक्षणस्य विषये गूढचिन्तनं करोति स्म । परन्तु सः केवलं गिजुभाई इत्यस्यैव अनुसरणम् अकरोत् इति दोषपूर्णमेव । कारणं गिजुभाई इत्यनेन तु बाल्यशिक्षणस्य गूढतया अध्ययनं कृतमासीत् । परन्तु दीपकेन बाल्यावस्थायाः चिन्तनेन सह कुमारावस्थायाः शिक्षणरीत्याः अपि प्रयोगात्मकम् अध्ययनं कृतम् । बाल्यशिक्षणं समाप्य यदा बालकः कुमारावस्थां प्रविशति, तदा तस्मिन् यानि परिवर्तनानि भवन्ति, तेषां परिवर्तनानाम् अनुगुणं शिक्षणस्य रीतिः अपि आवश्यकी इति विचिन्त्य तेन किशोरशिक्षणस्योपरि ध्यानं केन्द्रितम् । किशोरावस्थां प्रविश्य बालकः साक्षात् युवावस्थां प्रति धावति । तत्र शारीरिकपरिवर्तनेन सह मानसिकपरिवर्तनमपि अत्यावश्यकम् । युवा यदि आत्मनियन्त्रितः नास्ति, तर्हि तस्य शक्तेः अपव्ययः, दुरुपयोगश्च निश्चितः । अतः तस्य चिन्तनमासीत् यत्, "किशोरावस्थायामेव बालकेषु आत्मनियन्त्रणशक्तिं विकासयितुं प्रयासः करणीयः" इति । "किशोरावस्था तु बहुमुखिप्रतिभायाः विकासस्य अवसरस्य कालः" इति विचारस्यापि सः समर्थकः आसीत् । किशोरावस्थायामेव बालकः स्वस्मिन् विद्यमानप्रतिभायाः विकासार्थं प्रयासं प्रारभते चेत्, जीवनस्य बहव्यः समस्याः अपाभवन्ति इत्यपि सः मन्यते स्म ।

दीपकभाई महेता
दीपकभाई महेता
कर्मयोगी शिक्षकः
जन्म ३०/९/१९३६
मुम्बई-महानगरं, महाराष्ट्रम्
मृत्युः २८/५/२००४
भावनगरं, गुजरातराज्यम्
देशीयता भारतीयः
शिक्षणम् बी.ए.(आङ्ग्लसाहित्यम्), एम.ए. (आङ्ग्लसाहित्यम्),
शिक्षाशास्त्री (आङ्ग्ल), शिक्षाचार्यः(आङ्ग्ल),
एल. एल. बी., शिक्षाविशारदः ('मरीन सायंस')
शिक्षणस्य स्थितिः महाराजा कृष्णकुमार सिंहजी भावनगर विश्वविद्यालय Edit this on Wikidata
वृत्तिः शिक्षकः, लेखकः, कविः, वक्ता
भार्या(ः) हेमलता
अपत्यानि जयाबेन, कृष्णाबेन, हीनाबेन, प्रणवः
विशेषम्
दीपकस्य जीवनस्य सारम् – कविता, प्रकृतिः, शिक्षणम्

जन्म, परिवारश्च

सम्पादयतु

१९३६ तमस्य वर्षस्य 'सितम्बर'-मासस्य त्रिंशत्-तमे (३०/९/१९३६) दिनाङ्के महाराष्ट्रराज्यस्य मुम्बई-महानगरे दीपकस्य जन्म अभवत् । तस्य बाल्यजीवनं गुजरातराज्यस्य तळाजा-ग्रामे व्यतीतम् । तस्य पत्न्याः नाम हेमलता आसीत् । तयोः चत्वारः शिशवः आसन् । तेषु एकः बालकः, तिस्रः बालिकाश्च । बालिकानां नाम क्रमेण जयाबेन, कृष्णाबेन, हीनाबेन च आसीत् । पुत्रस्य नाम प्रणवः आसीत् ।

शिक्षणम्

सम्पादयतु

दीपकस्य प्राथमिकशिक्षणं गुजरातराज्यस्य भावनगरमण्डलस्य तळाजा-ग्रामे प्रारब्धम् । ततः माध्यमिकशिक्षणं प्राप्तुं सः महुवा-नगरम् अगच्छत् । तत्र 'एम.एन. हाईस्कूल' मध्ये तेन माध्यमिकशिक्षणं प्राप्तम् । ततः अग्रे अभ्यासार्थं सः भावनगरम् अगच्छत् । भावनगरस्य भावनगरविश्वविद्यालये आङ्ग्ल-साहित्यविषयं स्वीकृत्य अध्ययनं प्रारभत । पञ्चवर्षं यावत् कठोरपरिश्रमेण 'बी.ए., एम.ए.' इत्यनयोः अभ्यासं समापितवान् सः । ज्ञानपिपासुः दीपकः भावनगरविश्वविद्यालये स्थित्वैव शिक्षाशास्त्रिणः (B.Ed), शिक्षाचार्यस्य (M.Ed) च पदवीं प्राप्तत् । ततः सः 'एल.एल.बी' पदवीम् अपि प्रापत् । शिक्षणविषये स्वस्य रुचित्वात् तेन शिक्षाशास्त्रि-शिक्षाचार्यपदव्यौ प्राप्ते । परन्तु तस्य प्रकृति-विषये अपि बहुरुचिः आसीत् । अतः स्वस्य जीवनस्य उत्तरार्धे (६६ वयसि) तेन 'मरीन सायंस' इत्यस्मिन् विषये शिक्षाविशारदस्य (PhD) पदवी प्राप्ता ।

शिक्षणक्षेत्रे योगदानम्

सम्पादयतु

दीपकेन प्राथमिकशिक्षकत्वेन स्वस्य योगदानं भावनगरस्य शिशुविहारसंस्थायै, 'घरशाळा' इत्याख्यै संस्थायै च प्रदत्तम् । ततः १९७३ तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते 'प्रि.पी.टी.सी.'-महाविद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । १९९६ तमे वर्षे दक्षिणामूर्तिसंस्थाद्वारा सञ्चालिते दक्षिणामूर्तिविनयमन्दिरम् इत्यस्मिन् विद्यालये आचार्यत्वेन तस्य नियुक्तिः अभवत् । १९८९ तमे वर्षे तेन आचार्यपदस्य त्यागपत्रं दत्त्वा स्वस्य जीवनस्य लक्ष्यं परिवर्तितम् । ततः सः स्वस्य प्रतिभानुसारं विभिन्नेभ्यः क्षेत्रेभ्यः स्वयोगदानम् अददत् । सः गुजरातपाठ्यपुस्तकमण्डलस्य कृते गुजराती-गणित-पर्यावरणविषयाणां पुस्तकानि अलिखत् । पीरमद्वीपस्य पर्यावरणसंरक्षणार्थं तेन दीर्घकालं यावत् कार्यं कृतम् । तेन जलसङ्ग्रहादिविषये अनेकानि शिबिराणि आयोजितानि अपि । जलचरकच्छपस्य संरक्षणार्थं तेन केन्द्राणि स्थापितानि । तस्य अविरतप्रयासेन जलचरकच्छपस्य 'ओलिव रिडली'-प्रजातेः, हरितजलचरकच्छपजातेः च संरक्षणम् अभूत् ।

लेखनकार्यम्

सम्पादयतु

सः शिक्षकः आसीत् । परन्तु तस्य रुचिः लेखनकार्ये अपि अधिका आसीत् । अतः तेन पुस्तकानि अपि लिखितानि । यथा –

१. धरतीने छेडे दीवादाण्डी – १९७६ – जुलेस वेर्न इत्यस्य पुस्तकस्य अनुवादं कृतम् ।

२. शिक्षण – भितरनो खजानो – 'युनेस्को' इत्यस्य 'वर्ल्ड एज्युकेशन रिपोर्ट' इत्यस्य भावनगरविश्वविद्यालयाय अनुवादं कृतम् ।

३. रोज सवारे – स्वनिर्मितः काव्यसङ्ग्रहः

४. पीरम बेट एक झलक – १९९४

मृत्युः

सम्पादयतु

भावनगरस्य 'कृष्णकुमारसिंहजी एवन्यु' इत्यस्य गीताचोक-नामके स्थाने 'अहिच्छत्र'-संस्कारकेन्द्रे सः उपस्थितः आसीत् । २००४ तमस्य वर्षस्य ‘मई’-मासस्य अष्टाविंशतितमे (२८/५/२००४) दिनाङ्के तत्र आजीविकामार्गदर्शनशिबिरस्य आयोजनम् आसीत् । तस्मिन् शिबिरे दीपकः भाषणे रतः आसीत् । भाषणे रतः सः सहसा भूमौ पतितः । ततः तं रुग्णालयं प्रति सर्वे अनयन् । परन्तु तस्य प्राणस्य रक्षणं नाभूत् । एवं हृदयाघातेन तस्य मृत्युः अभवत् । जीवनस्य अन्तिमे श्वासे अपि सः अन्यस्य मार्गदर्शनं कुर्वन् आसीत् । कर्मयोगी दीपकः सर्वदा व्यक्तित्वनिर्माणकार्ये व्यस्तः भवति स्म । तदेव तस्य सुखस्रोतः आसीत् । स्वस्य जीवनं प्रति तस्य कथनमासीत् –

"दीपकना जीवननी मेळवणी – कविता, कुदरत, केळवणी (દીપકના જીવનની મેળવણી – કવિતા, કુદરત, કેળવણી.)" ।

अस्यार्थः दीपकस्य जीवनस्य सारः – कविता, प्रकृतिः, शिक्षणम् इति ।

सम्बद्धाः लेखाः

सम्पादयतु

दक्षिणामूर्तिः

पीरमद्वीपः

भावनगरविश्वविद्यालयः

भावनगरम्

बाह्यानुबन्धाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=दीपकभाई_महेता&oldid=480461" इत्यस्माद् प्रतिप्राप्तम्