'तिलकमञ्जरी' इत्येतस्य ग्रन्थस्य रचयिता धनपालः (Dhanpal) । एषः दशम्यां क्रिस्तब्द्याम् आसीत् इति विदुषाम् अभिप्रायः । तिलकमञ्जर्यां समरकेतुतिलकमञ्जर्योः प्रणयकथा वर्णिता । धनपालः बाणस्य कृतिं प्राधान्येन अनुसृतवान् अस्ति । अतः तिलकमञ्जरी कादम्बर्याः वेषान्तरम् इति पण्डिताः वदन्ति । धनपालेन 'पैयलच्छि' नामकः प्राकृतकोषः, 'ऋषभपञ्चाशिका' नामकः प्राकृतस्तोत्रग्रन्थश्चापि रचितः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=धनपालः&oldid=409334" इत्यस्माद् प्रतिप्राप्तम्