विस्तृतविवेचनानन्तरं संक्षेपेण सूत्ररुपेण सारनिवेदनम् इति भवति शैली शास्त्रकाराणाम् । यथा अद्वैतसिध्दान्तविषये उक्तम्-

श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥ इति ।

अथवा पुराणानां सारम् अधिकृत्य उक्तम्-

अष्टादशपुराणेषु व्यासस्य वचनद्वयम् ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ इति ।

तथैव धर्मविषयेऽपि कैश्चिद् विद्वद्भिः धर्मस्य सारः एवम् उपवर्णितः –

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥

अथवा –

न तत्परेषु संदध्यात् प्रतिकूलं यदात्मनः ।
एष संक्षेपतो धर्मः कामादन्यः प्रवर्तते ॥

तत्र् अयं तात्पर्यार्थः यत् समन्ताद् अवस्थितौः जनैः सह यथा वयं वर्तामहे तथैव तेऽपि अस्माभिः सह वर्तेरन् इति स्पष्टमेव । यदि वयं प्रातिवेशिकैः सह स्नेहपूर्णं व्यवहारं करिष्यामः तर्हि तेऽपि अस्माभिः सह प्रेम्णा एव वर्तिष्यन्ते । दर्पणप्रतिबिम्बन्यायेन यदि वयं तान् द्विष्मः तर्हि तेऽपि अस्माभिः सह द्वेषपूर्णं व्यवहारं करिष्यन्ति । यदि वयं तेषां साहाय्यं कुर्मः तर्हि तेऽपि विषमसमये संप्राप्ते अस्माकं साहाय्यप्रदानेन उपकरिष्यन्ति । अतः यथा इतरैः अस्माभिः सह वर्तितव्यम् इत्यपेक्षां कुर्मः तेनैव निकषेण स्वस्य व्यवहारः निश्चेतव्यः । इतरैः सह सर्वथा मित्रभावेन वर्तितव्यम्, तथा सर्वेषां कल्याणकामना हृदि निधेया इत्येव भवति धर्मस्य सारम् । तत्रोक्तं महाभारते जाजलि-आख्याने

सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः ।
कर्मणा मनसा वाचा स धर्मं वेद जाजले ॥

बाह्यसम्पर्कतन्तुः सम्पादयतु



सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=धर्मसारः&oldid=480479" इत्यस्माद् प्रतिप्राप्तम्