पचति इत्यादौ तिडन्ते प्रकृतिः पचधातुः, प्रत्ययश्च तिङ् । ‘पक्ववान्’ , ‘पचन्’ इत्यादौ कृदन्तेऽपि प्रकृतिः प्रत्ययश्च भवतः । तत्रापि प्रकृतिः धातुः, प्रत्ययश्च कृत् । एवञ्च धातोः द्वये प्रत्ययाः –तिङः कृतश्चेति । तत्र धातोः अर्थः निरूप्यते । तथाहि – धातुः फलं व्यापारं च बोधयति । यथा –‘पचति’ इत्यत्र पच्धातुः अस्ति । सः पच्धातुः विक्लित्तिरूपं फलं (विक्लित्तिः= मृदुविशदत्वम् । तण्डुलादौ जायमानः विकारः इति यावत् ) तदनुकूलव्यापारञ्च बोधयति । एवञ्च पच्धातोः अर्थः विक्लित्त्यनुकूलव्यापारः इति । यथा वा –

  1. गच्छति । अत्र गम् धातुः संयोगरूपं फलं तदनुकूलव्यापारञ्च बोधयति । अतः गम् धातोः अर्थः- संयोगानुकूलव्यापारः इति ।
  2. वर्धते । अत्र वृध्धातुः वर्धनरूपं फलं, तदनुकूलव्यापारं च बोधयति । अतः वृध्धातोः अर्थः-वर्धनानुकूलव्यापारः इति ।

इत्थं च सर्वे धातवः ‘फलं व्यापारश्च’ इत्यर्थद्वयं बोधयन्ति इति ज्ञेयम् ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=धात्वर्थः&oldid=409340" इत्यस्माद् प्रतिप्राप्तम्