धारमण्डलम्
धारमण्डलम् ( ( शृणु) /ˈðɑːrəməndələm/) (हिन्दी: धार जिला, आङ्ग्ल: Dhar district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति धार इति नगरम् ।
धारमण्डलम् Dhar District | |
---|---|
धार जिला | |
धारमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे धारमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | धार, बदनावर, सरदारपुर, गन्धवानी, कुक्शी, दाही, मनावर, धरमपुर |
विस्तारः | ८,१५३ च. कि. मी. |
जनसङ्ख्या (२०११) | २१,८५,७९६ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ५९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८% |
Website | http://dhar.nic.in/ |
भौगोलिकम्
सम्पादयतुधारमण्डलस्य विस्तारः ८,१५३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे इन्दौरमण्डलं, पश्चिमे झाबुआमण्डलम्, उत्तरे रतलाममण्डलं, दक्षिणे बडवानीमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी, चम्बलनदी च प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं धारमण्डलस्य जनसङ्ख्या २१,८५,७९३ अस्ति । अत्र ११,१२,७२५ पुरुषाः, १०,७३,०६८ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ५९% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- धार, बदनावर, सरदारपुर, गन्धवानी, कुक्शी, दाही, मनावर, धरमपुर ।
वीक्षणीयस्थलानि
सम्पादयतुधार-दुर्गः धार-नगरस्य उत्तरदिशि अस्ति । अयं दुर्गः एकस्मिन् उपशैले स्थितः अस्ति । अस्य निर्माणं रक्तपाषाणैः कृतम् अस्ति । अयं दुर्गः विशालः, विस्तृतः च अस्ति । अस्य निर्माणं सुल्तान मोहम्मद बिन तुगलक इत्यनेन चतुर्दशतमाशताब्द्यां कारितम् । अस्य दुर्गस्य निर्माणं हिन्दु-मुस्लिम-अफगान-शैलीषु कृतमस्ति । अयं दुर्गः पर्यटकानां आकर्षणकेन्द्रम् अस्ति ।
भोजशाला
सम्पादयतुभोजशाला इत्यत्र पुरा सरस्वतीमातुः सुन्दरा प्रतिमा आसीत् । राज्ञा भोजेन अस्य निर्माणं कारितम् । किन्तु यदा अलाउद्दीन खिलजी दिल्ली-साम्राज्यस्य शासकः अभवत् तदा तेन अस्मिन् स्थले ’मस्जिद’ इत्यस्य निर्माणं कारितम् । इदानीमपि भोजाशाला-’मस्जिद’ इत्यस्मिन् स्थले संस्कृतभाषायाम् अनेकाः अभिलेखाः सन्ति । ते अभिलेखाः प्राचीनमन्दिरस्य प्रमाणीभूताः सन्ति । माण्डु, जहाज-महल, हिण्डोला-महल, जामी ’मस्जिद’ इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये धारमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://dhar.nic.in/
http://www.census2011.co.in/census/district/305-dhar.html