समाजे उत्तमाः अंशाः पूर्वकालतः अपि अनुसरणॆ सन्ति तथैव धूमपानं ताम्बूलचर्वणं मद्यपानम् इत्यादि दुरभ्यासा अपि मानवेषु पुरुषैः सम्बध्दाः सन्ति । विश्वे अनेक देशेषु महिलाः अपि धूमपानं कुर्वन्ति । धूमपानासक्ताः धूमपानाभ्यासेन उत्साहसहिताः प्रचोदिताः भवन्ति । धूमपानेन बहिरागतेन धूमेन तेषां तथा अन्येषाम् अपारहानिः सम्भवति । आयुः प्रमाणं धूमपानेन न्यूनं भवति इति संशोधकाः वदन्ति । अत एव विश्वे धूमपान रहितदिनम् इति एप्रिल सप्तमे दिने आचरन्ति ।

धूमपानरहितदिनाचरणेन धूमपाने आसक्तानां त्यागं कर्तुं प्रोत्साहकरणं तथा, ये धूमपानं न कुर्वन्ति तेषाम् अपायः न भवतु इति सदुद्देशः अस्ति । महानगरेषु प्रतिवर्षं धूमपानकारणात् हृद्रोगेन बहवः मृता भवन्ति । ‘धूमपानं हानिकरं’ इति सर्वत्र प्रचारः कृतः अस्ति । तमाखु सेवनं, तमाखूत्पन्नसेवनं जगति बहुविधं प्रचलति । तमाखुचूर्णं नश्यम् इति भवति । तमाखुः बीडी सिगरेट् इत्यादिषु उपयुक्तं भवति । धूमपानेन धूमे अङ्गाराम्लवायुः मिश्रितः भवति । निकोटिन् इत्यंशः हृदयरोगाणां कारणं भवति । रक्तपरिचलने च बाधां करोति । अन्ते हृदयाघातस्य च कारणं भवति । अतीवधूमपानेन हृदये क्षयरोगः भवति । श्वासोच्छ्वासे बाधा भवति । गर्भिणीस्त्री धूमपानं करोति चेत् अग्रे शिशूनां वर्धनेऽपि दोषाः भवन्ति । धूमपानेन वातावरणे अङ्गाराम्लवायुः प्रसरति । अनेन अन्येषामपि कुपरिणामः भवति ।

प्रथमतया अन्ताराष्ट्रिय धूमपान रहितदिनाचरणं क्रिस्ताब्दे १९८८ तमे वर्षे एप्रिल् सप्तमे दिने आचरितम् । इदानीं सार्वजनिकस्थलेषु धूमपान निषेधः कृतः अस्ति । विद्यालय वाचनालय चिकित्सालय भूसम्पर्कवाहन स्थानकानि , विमानोड्डुयनकेन्द्राणि, उद्यानानि, चलनचित्रमन्दिराणि देवालयः सार्वजनिकवाहनं, धूमशकटबाह्नम् इत्यादिस्थलेषु निषेधः कृतः अस्ति । यः धूमपानासक्तः भवति तस्य अधिकायुः अपेक्षितं चेत् धूमपानत्यागः आवश्यकः अस्ति । मानवानां जीवनं सफलं सुदीर्धं भवतु इत्याशा धूमपानरहितदिनाचरणस्य उद्देशः अस्ति । धूमपानासक्ताः अल्पाहारसेविनः भवन्ति । अन्ते मृताः भवन्ति । अतः एव धूमपानासक्तानां दीर्धजीवनाय साधारण जनानाम् आरोग्यविषये च संरक्षणाय च धूमपाननिषेधः उत्तमः उपायः अस्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=धूमपानरहितदिनम्&oldid=409346" इत्यस्माद् प्रतिप्राप्तम्