हरिभक्तत्वेन पुराणेषु निरूपितम् किञ्चन पात्रम्। एषः ध्रुवः एव नक्षत्ररूपेण अपि प्रसिद्धः वर्तते।

ध्रुवः
ध्रुवः
ध्रुवनक्षत्रम्
Information
Family उत्तानपादः(पिता), सुनीतिः(माता)
सुरुचिः (माता)
शिंशुमारः (श्वशुरः)
स्वायम्भुवमनुः (प्रपितामहः)
भार्या(ः)/भर्ता भ्रमिः, इला, धन्या शम्भुः।
अपत्यानि कल्पः, वत्सरः, उत्कलः, शिष्टः, भव्यः।
धर्मः हिन्दू

बाल्यम्संपादित करें

ध्रुवः उत्तानपादस्य पुत्रः। स्वायम्भुवमनुः अस्य प्रपितामहः। अस्य माता सुनीतिः। सुनीतिः उत्तानपादस्य ज्येष्ठा पत्नी आसीत्। उत्तानपादस्य सुरुचिः पत्न्यन्तरमपि आसीत्। तस्याः पुत्रम् उत्तानपादः अङ्के उपावेश्य लालयति स्म। तदानीं ध्रुवः अपि पितुः अङ्कमारोढुं प्रायतत। तदानीं सुरुचिः यदि पितुः अङ्के उपवेष्टुं बहु इच्छति। सिंहासनेच्छा भवतः वर्तते इति इदं सूचयति। यदि सिंहासनम् अपेक्ष्यते तर्हि मम उदरे जन्म प्राप्नोतु। तदर्थं वनं गत्वा तपः आचरतु इति अवदत्। एतेन वचनेन खिन्नः ध्रुवः मातुः आज्ञां सम्प्राप्य वनम् अगमत्। वने घोरं तपः आचरतः तस्य मेलनं सप्तर्षिभिः सह अभवत्। सप्तर्षयः लघुबालकं ध्रुवं तपसः निर्वर्तयितुं प्रयत्नम् अकुर्वन्। अन्ततो गत्वा असफलाः सन्तः ते विशिष्टं मन्त्रोपदेशम् अकुर्वन्। ओम् नमो भगवते वासुदेवाय इति मन्त्रः अपि प्रथमवारम् अत्रैव उल्लिखितः इति विदुषामभिप्रायः। तस्य मन्त्रोपदेशस्य बलेन सः विष्णुविषये तपः आचर्य तस्माद् वरमपि प्राप[[१]

ध्रुवगीतम्संपादित करें

 
ध्रुवं अनुगृह्णन् महाविष्णुः (रविवर्मणः चित्रम्)

यदा विष्णुः ध्रुवस्य पुरतः प्रत्यक्षः अभवत् तदा ध्रुवस्य कपोलम् अस्पृशत्। अनुक्षणं ध्रुवस्य मुखात् विष्णुस्तुतिपरकाः श्लोकाः निःसृताः। एते एव श्लोकाः ध्रुवगीतम् इति नाम्ना प्रसिद्धाः सन्ति। विष्णुपुराणानुसारं यदा देवः प्रत्यक्षः जातः तदानीं ध्रुवः किं प्रष्टव्यमिति विमूढः अभवत्। अन्ये चेत् संसारभोगं मोक्षं वा प्रार्थयिष्यन्त। परन्तु ध्रुवस्तु भगवत्स्तुतिक्रमः कथमित् प्रार्थयत। एतेन तुष्टः विष्णुः ध्रुवाय वरदानम् अकरोत्। सप्तर्षयश्च नक्षत्रमण्डलेषु ध्रुवमण्डलम् अरचयन्।


जीवनम्संपादित करें

 
अलकावत्यां ध्रुवः

ध्रुवः पुनरपि राज्यमागतः। सुरुचेः पुत्रः उत्तमः यदा मृगयार्थं हिमवत्पर्वतं गतः तदानीं यक्षैः सह कलहः सञ्जातः। तत्र युद्धे उत्तमस्य मरणम् अभवत्। ध्रुवः उत्तमस्य मरणात् रुष्टः सन् यक्षैः योद्धुम् हिमवत्पर्वतम् गतः। तत्र यक्षाणां पराजयः अभवत्। साक्षात् कुबेरः एव ध्रुवं विरुध्य योद्धुं समागतः। ध्रुवकुबेरयोर्मध्ये घोरं युद्धं सञ्जातम्। अन्ततो गत्वा स्वायम्भुवमनुः समागम्य युद्धम् स्थगयितुं सूचनाम् अदात्। स्वायम्भुवमनोः सूचनानुसारम् युद्धं समाप्तम्। कुबेरः ध्रुवस्य मित्रम् अभवत्। ध्रुवः राज्यं प्रत्यागतः सिंहासने अभिषिक्तः। तदानीं तस्य आयुः षड्वर्षीयम् आसीत्। अनेकान् यज्ञान् अनुतिष्ठन् ३६००० वर्षाणि यावत् ध्रुवः राज्यपालनम् अकरोत्[२]

नक्षत्रम्संपादित करें

विष्णोः अनुग्रहेण ध्रुवः नक्षत्ररूपेण स्थिरः अभवत्। उत्तरध्रुवे इदं नक्षत्रम् विद्यते इति कारणतः उत्तरस्यां दिशि दृश्यते। भागवते मत्स्यपुराणे च अस्य वर्णनं विद्यते[३] [४]

परिवारःसंपादित करें

ध्रुवः शिंशुमारस्य पुत्रीं भ्रमिं परिणीतवान्। तस्यां कल्पः वत्सरः इति पुत्रौ जातौ। इलायाम् उत्कलः धन्यायां शिष्टः शम्भौ भव्यः च उत्पन्नः। आहत्य ध्रुवस्य दश पुत्राः आसन्[५]

उल्लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=ध्रुवः&oldid=448365" इत्यस्माद् प्रतिप्राप्तम्