नञ्जुण्डुय्य
हेब्बेळलु वेल्वनूरु नञ्जुण्डय्यः (Hebbellalu Velvanooru Nanjundaiyya)
अध्यक्षावधिः - क्रि.श. १९१५तमवर्षतः १९२०
अस्य कालांशे सम्भूतानि कन्नडसाहित्यसम्मेलनानि
सम्पादयतु१. क्रि.श. १९१५तमवर्षस्य मे मासस्य ३तः ६ बेङ्गळूरुनगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः २. क्रि.श. १९१६तमवर्षस्य मे मासस्य ६तः ८ बेङ्गळूरुनगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः । ३. क्रि.श. १९१७तमवर्षस्य जून् मासस्य ८तः १० मैसूरुनगरम् । अध्यक्षः - एच्.वि.नञ्जुण्डय्यः । ४. क्रि.श. १९१८तमवर्षस्य मे मासस्य ११तः १३ धारवाडनगरम् । अध्यक्षः - आर्. नरसिंहाचार् । ५. क्रि.श. १९१९तमवर्षस्य मे मासस्य ६तः ८ हासननगरम् । अध्यक्षः - कर्पूर श्रीनिवास रावः ।
उपाधयः
सम्पादयतुअ. राजमन्त्रप्रवीणः - क्रि.श. १९१३तमे वर्षे मैसूरुसंस्थानस्य महाराजः श्रीकृष्णराज वोडेयर् दत्तवान् । आ. कम्पनि आफ् दि इण्डियन् एम्पैर् ( सि.ऐ.इ) क्रि.श. १९१४तमे वर्ष आङ्ग्लसर्वकारेण दत्ता ।
- जन्मदिनाङ्कः - क्रि.शा. १८६०तमवर्षस्य अक्टोबर् मासस्य त्रयोदशदिनाङ्कः ।
- जन्मस्थानम् - मैसूरु
- मातापितरौ - सुब्बय्य अन्नपूर्णा च ।
- शिक्षा- क्रि.श. १८८०तमवर्षे मद्रास् क्रिश्चियन् महाविद्यालयतः स्नातकपदवी । स्वायत्तसंस्थातः दूरशिक्षाप्रणाल्या क्रि.श. १८८३तमवर्षे बि.एल्.पदवी क्रि.श. १८८५तमवर्षे स्नातकोत्तरपदवी । १८९३तमवर्षे मद्रास् विश्वविद्यालयतः एम्.एल्. पदवी । क्रि.श. १८९५तमवर्षे मद्रास् विश्वविद्यालयतः ।
वृत्तिजीवनम्
सम्पादयतुकर्णाटकस्य कोळ्ळेगालप्रदेशे सब् रिजिस्टार्, मद्रास्नगरे लिपिकारः, क्रि.श. १८८५तमे वर्षे मैसूरुप्रान्तस्य नञ्जनगूडुपत्तने न्यायाधीशः चाभवत् । क्रि.श. १८८६तमवर्षे सहायकायुक्तः उपायुक्तः, मुख्यकार्यदर्शी च भूत्वा सेवामकरोत् । अन्ते मुख्यन्यायालयस्य प्रधानन्यायाधीशः सन् सेवां कृत्वा क्रि.श. १९१६तमवर्षे निवृत्तः अभवत् । पश्चात् क्रि.श. १९१६तः १९२० पर्यन्तं मैसूरुविश्वविद्यालयस्य सर्वप्रथमः उपकुलपतिः अभवत् ।
कौटुम्बिकजीवनम्
सम्पादयतुएच्. वि. नञ्जुण्डय्यस्य पत्नी अन्नपूर्णम्मा कृष्णवेणम्मा च ।
इहलोकत्यागः
सम्पादयतुक्रि.श. १९२०तमवर्षस्य मे मासस्य द्वितीयदिनम् । मैसूरुनगरे
व्यक्तिवैशिष्ट्यम्
सम्पादयतुएच्.वि.नञ्जुण्डय्यः कर्णाटकस्य साहित्यपरिषदः संस्थापकाध्यक्षः अभवत् । एष बाल्यकाले एव अध्ययने अतीव आसक्तः आसीत् । प्रवासे गच्छति अपि एषः श्रुतान् दृष्टान् लिखित्वा रक्षति स्म । विविधस्थानेषु जीवतां जनानां रीतिं नीतिं राजतन्त्रं, आहारव्यवारान् ज्ञात्वा वैशिष्ट्यं च अभिलिखति स्म । आङ्ग्लानां विषये तेषां प्रशासनविषये च अधिकगौरवयुक्तः आसीत् । यतो हि त्रिंशत् कोटिभारतीयान् सर्वदा नियन्त्रणे स्थापयितुं स्वाधीनं कर्तुं शक्ताः आङ्ग्लाः अवश्यं समर्थाः इति वदति स्म । क्रि.श. १९११तमे वर्षे देहलीचक्रवर्तिनः राज्याभिषेकावसरे सञ्चलितसभायां नञ्जुण्डय्यः आह्वानितः आसीत् । प्रवासकाले ग्रामात् ग्रामम् अटन् विद्यालयानां सन्दर्शनं कृत्वा तत्र विद्यमानान् दोषान् परिमार्जयितुम् अयतत । अनेन लिखितेषु ग्रन्थेषु जीवनमौल्यस्य विषये अस्य आदरः दृश्यते । बालानां कार्याणां विषये प्रश्नाधिकारः पालकानां नास्ति इति विश्वासस्य कालः सः । अग्रे तानि यथा सत्पजाः सद्गृहस्थाः भवेयुः तथा अपात्यानाम् आचरविचारान् परिष्कृत्य मार्गदर्शनं पितॄणां कर्तव्यम् इति नञ्जुण्डय्यस्य अभिमतः आसीत् । नञ्जुण्डय्यः मैसूरुविश्वविद्यालयस्य संस्थापनार्थम् अविरतं प्रयत्नं कृतवान् । एतदर्थं विदेशीयविश्वविद्यालयानां सम्प्रर्कयित्वा विषयसङ्ग्रहं कृतवान् । सङ्गृहितविषयान् राज्ञे श्रीकृष्णराजवोडेयर् वर्याय समर्प्य विश्वविद्यालयस्य प्रतिष्टापनार्थम् आग्रहं कृतवान् ।
प्रमुखयोगदानानि
सम्पादयतुकन्नडभाषयालेख्खबोधिसि, व्यवहारदीपिके, व्यवहारधर्मशास्त्र, रात्रियल्लि कम्बनि इत्यादयः ग्रन्थाः अनेन रचिताः । आङ्ग्लभाषया मैसूर् ट्रैब्स् एण्ड् क्यास्ट्, टियर्स् इन् दि नैट्, रिलिज़न् एण्ड् मारल् एजुकेशन्, आङ्ग्ल् इण्डियन् एम्फैर् (क्रि.श. १९१५तमवर्षे) विश्वविद्यालस्य भाषाणां च प्रेमी नञ्जुण्डय्यः पारितोषिकद्वयं दातुं पर्याप्तनिधिं सङ्ग्रहितवान् । एकं स्नातकोत्तरक्ष्यायाः अत्युत्तमछात्राय राजमन्त्रप्रवीन एच्.वि.नञ्जुण्डय्य स्वर्णपदकम्, अपरं महाराज्ञीमहाविद्यालयस्य अत्युत्तमायै विद्यार्थिन्यै अन्नपूर्णम्मपुरस्कारः इति ।