भारतीयाः उत्सवप्रियाः । वत्सरे प्रतिदिनं यः कोऽपि उत्सवः यत्र क्व अपि प्रचलत्येव । तेषु नवरात्रोत्सवः अन्यतमः । अयमेव दसरामहोत्सवः इति मैसूरुनगरे महता वैभवेन अनुष्ठीयते । अयमुत्सवः जनोऽत्साहं नितरां प्रवर्धयति । निखिलं नगरं विद्युद्दीपेन अलङ्कृतम्‌ । जनाः मैसूरुमुखाः सन्दृश्यन्ते । सचिवाः अधिकारिणश्च इममुत्सवं यशस्विनं कर्तुं यतन्ते । महिषमण्डलं, महिषपुरं, महिषकं , महिष्वाद्रिः, महिषनाडु, मैसूनाडु, मैसूरुनाडु, महिसूरु इत्येताभिः संज्ञाभिः कालगर्भे तदा तदा प्रख्यातं नगरं सम्प्रति ‘मैसूरु’ इत्येतया संज्ञया प्रथिता । पूर्वं कर्णाटकराज्यं मैसूरुनाम्ना व्यवह्रियते स्म । सम्प्रति कर्णाटकराज्यस्य ‘सांस्कृतिकराजधानी’ इति प्रथां लभते ।

प्रवासोद्यमदृष्ट्या अनुपमः मैसूरुप्रान्तः । किं तु यावत्‌ अभिवृद्धिः कर्तुं साध्या तावत्‌ न प्रजाप्रतिनिधिभिः न संसाधिता । मैसूरुनगरं स्वतः सुन्दरम्‌ । तत्र मैसूरुराजाः कारणम्‌ । दसरावसरे इदं नगरम् अन्यादृशमिव शोभते । विजयनगरसाम्राज्येन उपक्रान्तः महानवमी-उत्सवः अत्र एतावदनुवर्तते । रात्रिनवकम् अभिव्याप्य अनुष्ठियम् इदं व्रतं महानवमी इति उच्यते । दशम्याम् उपसंहारं गच्छति । सैव दशमी विजयदशमी । एतदवसरे राजसौधस्य अन्तः बहिश्च धार्मिकसांस्कृतिक- कार्यक्रमः अनवरतं प्रचलति । तत्र अन्तः यथापूर्वं पराम्पराप्राप्तं धर्मकृत्यं श्रीमद्भिः श्रीकण्ठदत्तनरसिंहराज-ओडेयर्‌-वर्यै: निरुह्यते ।बहिः कर्णाटक -सर्वकारेण सांस्कृतिककार्यक्रमेण सह कृषि-उद्यम-वाणिज्यादिसम्बद्धाः कार्यक्रमाः व्यवस्थापिताः भवन्ति । उत्सवः चैतन्यदायकः उत्साहवर्धकश्च । नैसर्गिकविपत्तौ, आर्थिकसङ्करे, सामाजिकसंक्षोभे अपि अयम् उत्सवः मनस्स्थैर्यं स्थापयति ।

सम्प्रति दसरामहोत्सवः वैभवशृङ्गम् अधिरोहति । अत्र नवदुर्गाः आराध्यन्ते ! जगन्मूलं मूलप्रकृतिः परिणमते तदा वैषम्यं अनिवार्यम्‌ ।एतदर्थं गुणत्रयं नवरात्रोत्सवे महादेवी, महालक्ष्मी, महासरस्वती रूपेण समाराध्यते। किन्तु न बाह्यार्चनमात्रेण अयं लाभः अवाप्यते । तेन सः अन्तरङ्गे सदिच्छासत्क्रियासम्यग्‌ज्ञानं च सङ्कलनीयम् । तदैव एषा आराधना भवति । तत्र दसरावसरे चित्रकला, शिल्पकला, सङ्गीतं, नृत्यं, क्रीडा, चलच्चित्रं, जानपदीयाकला, साहित्यं, कविः, आहारः इत्येते विषया: आराधनामनोभावेन निर्वहणीया: । मैसूरुराजशासनकाले यानि भव्यानि भवनानि शिल्पकलावैभवोपेतानि निर्मितानि तानि संरक्षणमर्हन्ति । । एतेषु कृष्णराजवैद्यालयः, आयुर्वेद वैद्यालयः, युवराजकालेज्‌, महाराजसंस्कृतमहापाठशाला इत्यादयः गणनां अर्हन्ति । मैसूरुनगरस्य वैशिष्ट्येषु सुधर्मासंस्कृतदिनपत्रिका अपि उल्लेखनीया । विश्वेस्मिन्‌ इयमेषा अनुपमापत्रिका ।

नवरात्रमहोत्सवः दशदिनं यावत् प्रचलति । उत्सवोऽयं ‘दसरा" इति ‘दशहरा’ इति च प्रादेशिकभाषासु उच्य्ते । भारतस्य व्सर्वेषु प्रदेशेषु एतम् उत्सवम् आचरन्ति । आश्वयुजमासस्य प्रथमदिनादारभ्य दशमीपर्यन्तम् अयम् उत्सवः भवति । तेषु दिनेषु देवीपूजायाः प्राशस्त्यम् अस्ति ।

महिषासुरः नाम राक्षसः प्रजापीडकः आसीत् । तस्य पीडाम् अशमानाः देवाः मनुष्याश्च ब्रह्मविष्णुमहेश्वरान् प्रार्थितवन्तः । त्रिमूर्तीनाम् इतरेषां च देवानाम् अंशैः सम्मिलितैः भगवती दुर्गादेवी आविर्भूता । सा देवीं सिंहारुढा भूत्वा महिषासुरेण सह युद्धम् अकरोत् । नवदिनपर्यन्तं युद्धं प्राचलत । दशमे दिने देवी महीषासुरसंहारं कृतवती । एतस्याः घटनायाः स्मरणार्थं नवरात्रोत्सवम् आचरन्ति । विजयदशम्याः संयोजनेन अयं दशदिनोत्सवः सम्पद्यते ।

आदिशक्तेः त्रिणी रुपाणि सन्ति ।महाकाली, महालक्ष्मीः, महासरस्वती चेति । अस्मिन् उत्सवे आदौ दिनत्रये महकाल्याः पूजा, म्ध्ये दिनत्रये महालक्ष्मयाः पूजा अन्ते दिनत्रये महासरस्वत्याः पूजा प्रचलति । दशम्यां च विजययात्रा भवति ।

विजयनगरराजाः नवरात्र्महोत्सवं वैभवेन आचरन्ति स्म । उत्सवाचरणार्थं महनवमीवेदिकां ते निर्मितवन्तः । तस्यः वेदिकायाः अवशेषः पम्पाक्षेत्रे इदानीम् अपि द्रुश्यते । विदेशप्रवासिनः एतत् वैभवपूर्णम् उत्सवाचरणं सविस्तरम् अवर्णयन् ।

मैसूरुनगरस्य राजसु नवमः ‘राजवडेयर’ इति ख्यातनामधेयः राजा दशाधिकषोडशशत (१६१०)तमे क्रिस्ताब्दे नवरात्रमहोत्सवं प्रारभत । श्रीरङ्गपत्तनम् उत्सवस्य स्थानम् आसीत् । नवनवत्यधिकसप्तदशशत (१७९९) तमे वर्षे मुम्मडिकृष्णराजवडेयरमहोदयः मैसूरुनगरे नवरात्रोत्सवम् अचरितुम् आरब्धवान् । एषः उत्सवः इदानीमपि प्रतिवर्षे प्रचलति । विजयदशम्यां गजारोहोत्सवं द्रष्टुं देशविदेशतः सहस्त्रशः जनाः समायान्ति । कर्नाटकराज्ये नवरात्रोत्सवं ‘जन्पदपर्व’ इत्याचरन्ति । तदा सांस्कृतिककार्यक्रमान् विशेषतः आयोजयन्ति । कर्नटकसर्वाकारः दसराक्रीडोत्सवं, सङ्गीतगोष्ठीं, वस्तुप्रदर्शनं, शोभाअयात्रादिकंअ च प्रकल्पयति ।

नवरात्रसमये विशेषपूजाः प्रचलन्ति । सप्तम्यां सरस्वत्याः पूजा । तदा पुस्तकानि, सङ्गीतवध्यानि च पूजयन्ति । अनन्तरदिनं दुर्गाष्टमी । महानवम्याम् आयुधपूजा । तस्मिन् दिने चुरिका, कर्तरी, सीवनयन्त्रं, विविधवाहननि , यन्त्रोपकरणानि इत्यादीनि अर्चयन्ति । कर्नाटकराज्ये, तमिळुनाडुराज्ये च पुत्तलिकापङिक्तम् अलङ्कृत्य स्थापयन्ति । एतत् अतीव रम्यं दृश्यम् ।

विजयदशम्याः अपरं नाम विद्यादशमीति । विद्यारम्भाय विद्यादशमी प्रशस्तं दिनम् इति मन्येन्ते ।नवरात्रमहोत्सवः दुष्टशक्तिनाशस्य द्योतकः । जातिमतभेदं विना सर्वेऽपि जनाः एतस्मिन् उत्सवे भागं वहन्ति, सन्तोषं च अनुभवन्ति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नवरात्रम्_(मैसूरु)&oldid=409358" इत्यस्माद् प्रतिप्राप्तम्