'हितोपदेशः' पञ्चतन्त्रस्य परिष्कृता काचित् आवृत्तिः चेदपि स्वतन्त्रग्रन्थत्वेन एव तस्य ख्यातिः अस्ति । तस्य हितोपदेशस्य रचयिता नारायणभट्टः(Narayanabhatta) । एषः बङ्गालदेशीयः। एषः धवलचन्द्र्स्य आश्रये आसीत् । एतस्य् कालः क्रि श १० इति पण्डिताः अभिप्रयन्ति । यद्यपि पञ्चतन्त्रस्य आधारेण एषः ग्रन्थः रचितः, तथापि अन्यग्रन्थेभ्यः अपि अत्र कथाः स्वीकृताः ।महाभारतात् स्वीकृता मुनिमूषककथा, वेतालपञ्चविंशतितः स्वीकृता वीरवरकथा इत्यादीनि अत्र उदाहरणानि । हितोपदेशस्य भाषा अतीव सरला । संस्कृतभाषाबोधनं नीतिबोधनं च एतस्य लक्ष्यम् इति कविः स्वयम् उक्तवान् अस्ति । संस्कृताभ्यासिनः सर्वे प्रायः एतं ग्रन्थं पठन्ति एव ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=नारायणभट्टः&oldid=444059" इत्यस्माद् प्रतिप्राप्तम्