प्रमुखा विकल्पसूचिः उद्घाट्यताम्

निघण्टुः वेदस्य कठिनशब्दानां समुच्चयः अस्ति । निघण्टुग्रन्थस्य सङ्ख्याविषये पर्याप्तः मतभेदः अस्ति । सम्प्रति समुपलब्धो निघण्टुग्रन्थ एक एवास्ति, किञ्च प्राचीनपरम्परायाः अनुशीलनेन निघण्टुग्रन्था अनेके प्राप्यन्ते।[१]

निरुक्तस्य आरम्भे 'निघण्टुम्' 'समाम्नाय' इत्येतेन पदेनाभिधीयते । तेनास्य प्राचीनत्वं प्रमाणयन्ति विद्वांसः । महाभारतस्य मोक्षधर्मपर्वानुसारेण अस्य निघण्टोः रचयिता प्रजापतिः कश्यपः आसीत् —

'वृषो हि भगवान् धर्मः ख्यातो लोकेषु भारत।

निघण्टुकपदाख्याने विद्धि मा वृषमुत्तमम्॥

कपिर्वराहः श्रेष्ठश्च धर्मश्च वृष उच्यते।

तस्माद् वृषाकपिं प्राह कश्यपो मां प्रजापतिः॥'[२]

वर्त्तमाने निघण्टुग्रन्थे ‘वृषाकपिः’ शब्दः सङ्गृहीतोऽस्ति । अतः महाभारतकालेऽस्य निघण्टुग्रन्थस्य निर्मातृपदेन प्रजापतिः कश्यप एव प्रख्यातः मन्यते।

व्युत्पत्तिःसम्पाद्यताम्

निघण्टु्शब्दस्य व्युत्पत्तिः एवं भवति । नि + गम्लृ गतौ + तुन् प्रत्ययः (उणा.१.६९.) अपि च वदति यास्कः - निघण्टवः कस्मात्? निगमा इमे भवन्ति । ते निगन्तव एव सन्तो निगमनात् निघण्टव इत्युच्यन्त इति औपमन्यवः। निश्चयेन गमयन्ति प्रापयन्ति वेदार्थान् इति निगमाः, निघण्टवो वा । अपि च हन धातुना अपि निघण्टुशब्दस्य व्युत्पत्तिं दर्शयन्ति - सम्यक्तया आहताः वेदेभ्यः इति ।

विषयवस्तुसम्पाद्यताम्

निघण्टुग्रन्थे १७७३ शब्दाः सङ्गृहीताः । अध्यायपञ्चकेषु विभक्तोऽयं ग्रन्थः । गवादि देवपत्न्यन्ताः वैदिकशब्दाः तत्रोक्ताः । प्रथमाध्यायत्रयं नैघण्टुककाण्डमिति प्रोक्तम् । चतुर्थाध्यायस्तु नैगम इत्युच्यते । पञ्चमस्तावत् दैवतमिति संविज्ञातम् । अस्य ग्रन्थस्य विषये यास्कः स्वयमेव वदति -

समाम्नायः समाम्नातः, स व्याख्यातव्यः । ... छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः ।[३]

अर्थात् अस्मिन् ग्रन्थे निघण्टौ आम्नायशब्दाः एव समाहृताः । तस्य विवरणमत्र निरुक्ते क्रियते ।

निघण्टौ पञ्चाध्यायाः सन्ति । आदिमस्त्रयोऽध्यायाः ‘नैघण्टुककाण्डम्' इत्यभिधीयन्ते । चतुर्थोऽध्यायो नैगमकाण्डं, पञ्चमोऽध्यायो दैवतकाण्डमिति पदेन व्यपदिश्यते । प्रथमतस्त्रिष्वध्यायेषु पृथिव्यादिबोधकानाम् अनेकशब्दानाम् एकत्र सङ्ग्रहोऽस्ति । द्वितीयकाण्डमेकपदीयमपि कथ्यते । 'नैगमः' इत्येतस्य पदस्य तात्पर्यमिदमस्ति यदेतस्य प्रकृतिप्रत्यययोः यथार्थावगमनं न भवति - 'अनवगतसंस्कारांश्च निगमान्॥' दैवतकाण्डे देवतायाः स्वरूपस्थानयोः निर्देशो लभते।

निघण्टुनिर्वचन-व्याख्यासम्पाद्यताम्

सम्प्रति निघण्टुग्रन्थस्यैका एव व्याख्या समुपलब्धा भवति । अस्याः व्याख्यायाः रचयिता देवराजयज्वा अस्ति । अस्य पितामहस्यापि नाम देवराजयज्वा एवासीत् । अस्य पितुर्नाम यज्ञेश्वरोऽस्ति । अयं हि विद्वान् ‘रंगेशपुरी' इत्याख्यस्य नगरस्य पार्श्ववर्त्तिनः कस्याऽपि ग्रामस्य निवासी अासीत् । नाम्ना अयं विद्वान् सुदूरदक्षिणभारतस्यैव निवासी मन्यते। अस्य समयस्य विषये मतद्वयं प्रचलितमस्ति। केषाञ्चिद्विदुषां मते विद्वानयं सायणात्परवर्त्ती आसीत्, किञ्च यथार्थतः सायणात्पूर्ववर्त्ती एवायमासीत् । आचार्यसायणेन ऋग्वेदीयमन्त्रस्य[४] स्वकीये भाष्ये निघण्टुभाष्यवचनस्य उल्लेखः कृतः । उल्लेखोऽयं देवराजयज्वनः भाष्येऽपि किञ्चित्पाठान्तरेण समुपलब्धो भवति । अस्माद्भाष्याद् अतिरिक्तं न किमप्यन्यं निघण्टुभाष्यं विद्यमानमस्ति । देवराजयज्वा स्वभाष्यस्य उपोद्घाते क्षीरस्वामिनः, अनन्ताचार्यस्य च निघण्टुव्याख्यायाः उल्लेखं कृतवानस्ति । यथा -

'इदं च क्षीरस्वामी अनन्ताचार्यकृतां निघण्टुव्याख्यां'..... निरीक्ष्य क्रियते।' अनन्ताचार्यस्योल्लेखोऽत्र प्राथम्येन एव प्राप्यते। क्षीरस्वामिनो मतस्योल्लेखोऽत्र बहुलतया कृतोऽस्ति । क्षीरस्वामी अमरकोशस्य प्रसिद्धः टीकाकारोऽस्ति । क्षीरस्वामी अमरकोशस्य प्रसिद्धः टीकाकारोऽस्ति । यज्वन उद्धरणम् ‘अमरकोशोद्घाटने' यथावदुपलब्धं भवति ।

अस्य भाष्यस्य नाम-निघण्टूनिर्वचनमस्ति । स्वप्रतिज्ञानुसारेण देवराजयज्वा नैघण्टुककाण्डस्यैव निर्वचनमधिकेन विस्तरेण कृतवान्।[५] अन्यकाण्डानां व्याख्या अत्यल्पाऽऽकारा अस्ति । अस्य भाष्यस्य उपोद्घातो वैदिकभाष्यकर्त्तृृणाम् इति वृत्तावबोधनाय नितान्तं प्रयोजनीयोऽस्ति । अस्मिन्नुपोद्घाते स्कन्दस्वामिनः ऋग्भाष्यष्टीकातः, महेश्वरस्य निरुतभाष्यटीकातश्च साहाय्यं गृहीतमस्ति । प्राचीनप्रामाण्यादपि सुष्ठूद्धरणानि सन्त्यनेकानि च । सायणात्पूर्ववर्त्तित्वेन अस्य व्याख्यायाः, निरुक्तेश्च विशेषं महत्त्वमस्ति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यपरिसन्धिःसम्पाद्यताम्

उद्धरणानिसम्पाद्यताम्

  1. दुर्गावृत्तिः पृ० ३
  2. (महा० मो० ध० प० अ० ३४२, श्लो० पृ० ८६-८७)
  3. (निरु.१.१.)
  4. ( १॥६२॥३ )
  5. 'विरचयति देवराजो नैघण्टुककाण्डनिर्वचनम्' श्लो०६
"https://sa.wikipedia.org/w/index.php?title=निघण्टुः&oldid=427381" इत्यस्माद् पुनः प्राप्तिः