प्रमुखा विकल्पसूचिः उद्घाट्यताम्

निरुक्तं षड् वेदाङ्गेषु अन्यतमम् । निरुक्तं निघण्टोर्महत्त्वपूर्णा टीकाऽस्ति । निरुच्यते निश्शेषेण उपदिश्यते तत् तदर्थावबोधनाय पदजातं यत्र तत् निरुक्तमिति कथ्यते । निरुक्तं यस्मिन्नाधारे प्रवृत्तं भवति — अर्थात् प्रत्येकं संज्ञापदं धातुना व्युत्पन्नोऽभवत् इत्याधारस्तु नितान्तं वैज्ञानिकमस्ति । अस्यैव सम्प्रति नामास्ति ‘भाषाविज्ञानम्' । अस्योन्नतिः पाश्चात्यजगति शतवर्षाभ्यन्तरे अभवत् । त्रिसहस्रवर्षं प्राग् वैदिकाः ऋषयः अस्य शास्त्रस्य सिद्धान्तानां वैज्ञानिकरीत्या निरूपणं कृतवन्तः । भाषाशास्त्रस्य इतिहासे भारतवर्षमेव अस्य मूलोद्गमस्थानमस्ति । निरुक्तस्य आरम्भेऽस्य विषयस्य येषां नियमानां प्रतिपादनं समुपलब्धं भवति, तत्तु विशेषरूपेण महनीयमस्ति।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः


निघण्टुग्रन्थस्य भाष्यमेव निरुक्तमित्युक्तं हि । उभयोः ग्रन्थयोः गणना वेदाङ्गे़षु क्रियते निरुक्तनाम्ना । यतो हि - अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् - इत्युक्तत्वात् । अपि च एकैकस्य पदस्य सम्भाविता अवयवार्थाः यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम् । एवंविध लक्षणेन निघण्टुनिरुक्तयोः गणना भवति निरुक्तनाम्ना ।

अर्थःसम्पाद्यताम्

निरुक्तशब्दस्य व्याख्या सायणाचार्यानुसारेण -

'अर्थावबोधे निरपेक्षतया पदजातं यत्र तद् निरुक्तम्॥' इति।

अस्मिन् प्रसङ्गे दुर्गाचार्यस्य कथनमिदमस्ति -

'प्रधानं चेदमितरेभ्यः अङ्गेभ्यश्च अर्थपरिज्ञानाभिनिवेशात्। अर्थो हि प्रधानः तद्गुणः शब्दः, स च इतरेषु व्याकरणादिषु चिन्त्यते। यथा शब्दलक्षणपरिज्ञानं सर्वशास्त्रेषु व्याकरणाद् एवं शब्दार्थनिबन्धनपरिज्ञानं निरुक्तात्।'[१]

निरुक्ते वैदिकशब्दानां निरुक्तिरस्ति। निरुक्तिशब्दस्यार्थों भवति व्युत्पतिः। निरुक्तस्य सर्वमान्यमतमिदमस्ति यत्, प्रत्येकः शब्दः केनाऽपि धातुना सहावश्यमेव सम्बद्धो भवति । अतो निरुक्तकारः शब्दानां व्युत्पत्तिं प्रदर्शयन् धातुना सह विभिन्नप्रत्ययानां निर्देशमपि दर्शयति। निरुक्तानुसारेण सर्वे शब्दाः व्युत्पन्नाः भवन्ति। वैयाकरण-शाकटायनस्य अपीदमेव मतमासीत्। अस्योल्लेखो यास्केन पतञ्जलिना च स्व-स्वग्रन्थे कृतोऽस्ति ।

'तत्र नाना आख्यातजानीति शाकटायनो निरुतसमयश्च।'[२]

'नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम्'।[३]

शब्दानां व्युत्पतिः बहुविधाऽस्ति । दुहिता-शब्दस्य व्युत्पत्या विषये यास्को वदति - दुहिता दुहिता । दूरे हिता दोग्धेर्वा इति। अर्थाद् दूरे विवाहिता दुहिता एव हितकरा भवति अथवा यत्र प्रदत्ता तत्र एव अहितकरा भवति, अथवा सा हि नित्यमेव पितुः उत दोग्धेः सकाशाद् द्रव्यं दोग्धि।

स्वरूपम्सम्पाद्यताम्

निघण्ट्वाख्यस्य वैदिककोषस्य भाष्यरूपमस्ति निरुक्ताख्यं वेदाङ्गम् । निघण्टौ तु केवलं वैदिकाः शब्दाः परिगणिताः सन्ति, परन्तु निरुक्तकारो यास्कः तेषां वैदिकानां शब्दानां सविस्तरं विवेचनं करोति । अर्थात् निरुक्तनामके ग्रन्थे वैदिकशब्दानाम् अर्थज्ञानस्य प्रक्रिया वर्णिता अस्ति । निघण्टोः पञ्चाध्यायानां विवेचनं स्वकीये निरुक्तग्रन्थे यास्केन द्वादशाध्यायेषु सम्पादितमस्ति । निरुक्तं निरूपयन् सायणाचार्यः ऋग्वेदभाष्यभूमिकायामाह, अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम् यदि अन्यानि वेदाङ्गानि वेदस्य बहिर्भूतानि तत्त्वानि व्याकुर्वन्ति, तर्हि निरुक्तं वेदस्य अन्तर्भूतानि तत्त्वानि व्याकुर्वति । अन्यच्च निरुक्तं गद्यशैल्यां निबद्धमस्ति, किन्तु अन्ये वेदाङ्गग्रन्थाः सूत्रशैल्यां निबद्धाः सन्ति । इत्थं निरुक्तेन वेदार्थानामवगमे सौविध्यं भवति ।

कालःसम्पाद्यताम्

निघण्टुकालानन्तरं निरुक्तानां समयः प्रारम्भो भवति । दुर्गाचार्यानुसारेण निरुक्तं चतुर्दशसङ्ख्यकमासीत् ।[४] यास्कस्य उपलब्ध-निरुक्ते द्वादशनिरुक्त-कत्तॄणां नामानि मतानि च निर्दिष्टानि सन्ति।

एतेषु ग्रन्थकारेषु शाकपूणेः मतम् आधिक्येन उद्धृतमस्ति । बृहद्देवतायामपि अस्य मतस्योल्लेखो लभ्यते । बृहद्देवतायां तथा पुराणेषु च शाकपूणिः 'रथीतरशाकपूणि' नाम्ना स्मृतोऽस्ति ।

निरुक्तकाराःसम्पाद्यताम्

आसन् बहूनि निरुक्तानि इति ज्ञायते । बृहस्पतिः, काश्यपः, औपमन्यवः, औदुम्बरायणः, वार्ष्यायणिः, गार्ग्यः, आग्रायणः, शाकपूणिः, और्णवाभः, तैटीकिः, गालवः, स्थौलाष्ठीविः, क्रौष्ठुकिः, कात्थक्यः, कौत्सव्यः, यास्कः इत्यादयः सन्ति निरुक्तकाराः । इदानीमुपलभ्यते केवलं यास्कीयनिरुक्तम् ।महर्षियास्केन केषाञ्चन निरुक्तकाराणां नामानि उद्धृतानि स्वग्रन्थे ।

प्रयोजनम्सम्पाद्यताम्

व्याकरणज्ञानस्य परिपूरणं निरुक्तस्य अध्ययनेनैव भवति । अतः व्याकरणस्य कार्त्स्न्यं निरुक्तस्य एकं प्रयोजनम् । अस्य निरुक्तस्य किं प्रयोजनमिति उच्यते यास्केनैव । अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । - अस्य शास्त्रस्याध्ययनं विना वेदमन्त्राणाम् अर्थज्ञानं न सम्भवति । यतो हि अस्मिन् शास्त्रे वैदिकशब्दानां विवरणं, शब्दार्थविज्ञानं (Etymology) चोपदिष्टम् । अपि च वेदार्थेनैव सफला वयं भवेमेति उच्यते निरुक्ते । मन्त्रार्थज्ञानस्य प्रयोजनञ्चोक्तम् - योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा । - यो अर्थज्ञः स एव मङ्गलकरं प्राप्नोति नान्ये इति।

प्रतिपादनशैलीसम्पाद्यताम्

निरुक्तं भाषाशास्त्रदृष्ट्या एकमनुपमं रत्नमस्ति । निरुक्तस्य मान्यः सिद्धान्तोऽस्ति यन्निरुक्ते नाम धातुजमस्ति । वैयाकरणेषु शाकटायनस्य एव इदं मतमासीत् - 'सर्वधातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्' इति। अस्य मतस्य समीक्षा युक्तिपूर्वकेण केनाऽपि गार्ग्याचार्येण कृताऽऽसीत, यस्य खण्डनं प्रबलतराभिर्युक्तिभिः कृतं यास्केन। भाषायाः मूलं धातुरेव भवति, अस्य तथ्यस्य उद्घाटनं यास्केन सहस्रत्रयवर्षं पूर्वमेव कृतम् । तथ्यमिदमाधुनिकभाषाविज्ञानस्य मेरुदण्ड एवास्ति । यास्कः स्वस्य वैज्ञानिकमतस्य प्रस्थापनं युक्तिपूर्वकं कुतवानस्ति ।

गार्ग्यस्य प्रथमा आपत्तिः असङ्गताऽस्ति - कस्याऽपि वस्तुनः क्रियानुसारेण नामकरणेन अनेकेषां वस्तुनाम् एकक्रियात्वेन अनेकानाम् एकनाम भवितुं शक्यते। तुल्यकर्मकर्तृषु जनेष्वपि तेनैव कर्मणा व्यक्तिविशेषस्य श्रेणीविशेषस्य वा नाम भवति न तु सर्वेषाम् । लोकव्यवहारस्य इयमेव शैली अस्ति । तक्ष्णः = कर्मकस्य, परिव्रजनम्=परितः भ्रमणम्, इत्यादि क्रिया बहुभिर्जनैः सम्पादिता भवति, तथापि ‘तक्षा'-पदेन कर्मकारस्यैव बोधो भवति। एवञ्च परिव्राजकपदेन संन्यासिनां बोधो भवति । कस्यापि शब्दस्य स्वभाव एक एवास्ति यत्, कयाऽपि क्रियया कस्यापि एकस्यैव वस्तुनः बोधो भवति नान्यस्य। एकेन वस्तुना सह बहूनां क्रियाणां योगे सत्यपि एकैव क्रियानुसारेण तस्य नाम भवति। शब्दस्य अयं स्वभावः, लोकप्रियव्यवहारः च अपि अस्ति। 'तक्षा' एवं परिव्राजकः अन्यायाः अपि क्रियायाः सम्पादनं करोति। किञ्च क्रियायाः वैशिष्ट्येन तक्षण-परिव्रजनक्रियाऽनुसारेण तयोः नामकरणमभूत् । निष्पन्नेन नाम्ना एव कस्यापि वस्तुनः क्रियायाः परीक्षणं नासङ्गतं भवति । यतो नाम्नः निष्पन्ने सति तस्य योगार्थस्य परीक्षणं भवितुं शक्यते।[५] नाम्नो निष्पन्नत्वाभावे कस्य परीक्षणं भविष्यति? 'प्रथनात् पृथिवी' विस्तृतत्वेनेदं नाम पृथिव्या भवति। शाकटायनस्य अस्यां व्याख्यायां गार्ग्यस्य इदं कथनं नितान्तम् अयुक्तिकरमस्ति यदियं केन विस्तारिता ? इति। तर्कहीनमिदं कथनमस्ति, यतः पृथिव्याः पृथुत्वं प्रत्यक्षदृष्टमस्ति । अस्याः कथनस्य विषये प्रश्न एव निरर्थकोऽस्ति । अतो गार्ग्यस्य इयमप्यापत्तिरसङ्गतैवास्ति ।

शाकटायनेन पदानां निरुक्त्यै एकस्य अभिन्नपदस्य व्याख्या अनेकेषां धातूनां योगेन निष्पादिता । सत्य-शब्दः शाकटायनेन भागद्वये विभाजितः, यथा सत -- य = सत्यम्, यस्मिन् प्रथमांशः ‘अस्ति'-शब्दान्निष्पन्नो भवति तथा द्वितीयांशः ‘इण्'-धातोः ‘अायाति'-शब्दात् निष्पन्नोऽस्ति । 'सन्तमेव अर्थम् अायाति गमयतीति सत्यम् ॥' अर्थाद् यत् विद्यमानार्थस्य (यथार्थस्य) ज्ञानं कारयति, तत् सत्यम् । अस्योपरि गार्ग्यस्य आपत्तिरस्ति महती । यास्कस्य प्रतिवचनमस्ति - शब्दान् स्वपक्षप्रतिपादनं विद्यासम्पादयन्नपि शाकटायनस्य निरुक्तिः अनुगतार्थाऽस्ति, अतो नाम अन्यमस्ति। अनन्वितार्थे शब्दस्य संस्कर्त्ता पुरुषो निन्दनीयो भवति, शास्त्रगर्हा तु नास्त्येव — 'सैषा पुरुषगर्हा' निरुक्त्याः पदस्य चान्वयो न्याय्योऽस्ति । तदर्थं पदविभाजनं नानुचितमस्ति । ब्राह्मणग्रन्थेषु निरुक्तिक्रमोऽयं ग्राह्योऽस्ति, न गर्हणीयः । शतपथब्राह्मणं[६] हृदयशब्दं भागत्रयेषु विभज्य तस्य निरुक्तिः हृ, दा, इण् (अाययति रूपात्) धातोः निष्पन्नमकरोत् । फलतः शाकटायनस्य मतं यथार्थमस्ति ।

परभाविन्यया क्रियया पूर्वजातस्य वस्तुनो नामकरणं नोचितमित्यपि गार्ग्यस्य आपत्तिरकिञ्चित्करैवास्ति । लोके परभाविन्यया क्रियया पूर्वजातस्य वस्तुनः संज्ञा वा व्यपदेशो बहुषु स्थलेषु परिलक्षितो भवति । भविष्यद्योगेन, सम्बन्धसाहाय्येन च कस्यापि जनस्य विल्वादः अथवा लम्बचूडको नामकरणं लोके भवति । मीमांसादर्शनस्य अप्ययमेव सिद्धान्तोऽस्ति । रूढशब्दानामपि व्युत्पतिः अनावश्यका एवास्ति। इदं कथनमपि नोचितमस्ति। वेदे रूढशब्दानां व्युत्पत्तिरनेकत्र दृग्गोचरा भवति - 'यदसर्पत तत् सर्पिः'॥ सर्पिषो व्युत्पत्तिर्गमनार्थकस्य सृप्धातोः निष्पन्नो भवति । अनेन प्रकारेण यास्केन युक्तिव्यूहैः स्पष्टतः प्रतिपादितस्य समस्तं नाम धातुजं भवति तथा वर्त्तमानभाषाशास्त्रस्य अयमेव मान्यः सिद्धान्तः अस्ति।[७]

वेदाङ्गत्वेनसम्पाद्यताम्

यास्ककृतं निरुक्तन्तु निघण्टुग्रन्थस्य व्याख्याऽस्ति । अतोऽस्य वेदाङ्गत्वमनुपपन्नमित्याशङ्क्य समाधत्ते- 'अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्॥'

अन्यच्च -

'एकैकस्य पदस्य सम्भाविता अवयवार्या यत्र निःशेषेण उच्यन्ते तदपि निरुक्तम्॥' अतोऽस्य वेदाङ्गत्वम् अङ्गीक्रियते।

यास्कस्य निरुक्तम्सम्पाद्यताम्

वेदानां षडङ्गेषु अन्यतमस्य निरुक्तस्य प्रतिधिनित्वं सम्प्रति यास्करचितनिरुक्तमेव करोति। यास्कः स्वस्य निरुक्ते अपि अन्येषां निरुक्ताचार्याणाम् उल्लेखं कृतवान्।

विषयवस्तुसम्पाद्यताम्

अस्मिन् निरुक्ते द्वादशाध्यायाः सन्ति । अन्ते द्वावध्यायौ परिशिष्टरूपेण स्तः । अनेन प्रकारेण समग्रग्रन्थोऽयं चतुर्दशाऽध्यायेषु विभक्तोऽस्ति । परिशिष्टभागम् अपि अर्वाचीनमिति वक्तुं न शक्यते । यतो यास्क इव उव्वटोऽपि परिशिष्टभागात्परिचितः आसीत् । उव्वटः स्वकीये यजुर्वेदभाष्ये[८], निरुक्ते[९] समुपलब्धं वाक्यं निर्दिष्टवान्। अतो अस्यांशस्य भोजराजात्प्राचीनत्वं मन्यते।

ग्रन्थस्यारम्भे यास्को निरुक्तस्य सिद्धान्तस्य वैज्ञानिकं प्रदर्शनमकरोत् । वेदार्थानुशीलनाय तदाऽनेकपक्षाः आसन् । येषां नामानि अनेन प्रकारेण प्रदत्तानि सन्ति -

(१) अधिदैवतः, (२) अध्यात्मः, (३) आख्यातसमयः (४) ऐतिहासिकाः, (५) नैदानाः, (६) नैरुक्ताः, (७) परिव्राजकाः, (८) याज्ञिकाश्च ।

अनेन मतनिर्देशेन वेदार्थानुशीलनस्य इतिहासोपरि विशिष्टरूपेण प्रकाशः प्रसरति । यास्कस्य प्रभावः अवान्तरकालिकभाष्योपरि अस्ति । सायणस्तु अस्याः पद्धत्याः अनुसरणं कृत्वा वेदभाष्यरचनायां कृतकार्योऽभवत् । यास्कस्य प्रक्रिया आधुनिकभाषावेत्तॄणां प्रधानतया मान्याऽस्ति । निरुक्तस्य एकमात्रप्रतिनिधित्वेन निरुक्तग्रन्थस्य सर्वातिशायि महत्त्वमस्ति ।

निरुक्तं तु स्वयं भाष्यरूपमेवास्ति। तथाऽपि यत्र तत्रैतादृशं दुरूहमस्ति, यत्तस्य अर्थावबोधने विद्वान् टीकाकारः अपि काठिन्यम् अनुभवति। निरुक्तं व्याख्यातुं विक्रमाब्दात् पूर्वमेव विदुषां ध्यानाकृष्टोऽभवत्। पतञ्जलेः महाभाष्यम् अस्ति प्रमाणं यत् -

'शब्दग्रन्थेषु चैषा प्रभूततरागतिः भवति। निरुक्तं व्याख्यायते। न कश्चिदाह पाटलिपुत्र! व्याख्यायत इति।'

अत्र पतञ्जलेः सङ्केतः कस्यां दिशि वर्त्तते? इति तु ज्ञातुं न कोऽपि शक्नोति। परन्तु निरुक्तस्य उल्लेखो लभते।

अधिकारी कःसम्पाद्यताम्

अस्य ग्रन्थस्य अधिकारी भवति सः यः ज्ञानमपेक्षन् गुरोः समीपमागच्छति, तपस्वी, मेधावी च भवति । यः ज्ञानं नेच्छति तस्य ज्ञाने सर्वदा असूया भवति । यदि सः मन्त्रार्थविषये कार्यं करोति तर्हि अनर्थमेव भवति । उक्तं हि - बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति । पश्यामः च यास्कोक्तिम् - न अवैयाकरणाय, नानुपसन्नाय, अनिदंविदे वा, नित्यं हि अविज्ञातुः विज्ञाने असूया, उपसन्नाय तु निर्ब्रूयात्, यो वा अलं विज्ञातुं स्यात् मेधाविने, तपस्विने वा ।
निरुक्तस्य प्रथमभागे यास्ककृतभूमिका वर्तते । तदनन्तरं नैघण्टुककाण्डम् । अनन्तरञ्च नैगमकाण्डम्, दैवतकाण्डम्, परिशिष्ठञ्चेति निरुक्तस्य विभागाः । अन्तिम अध्यायद्वयं परिशिष्टकाण्डं यास्ककृतं वा न वेति विवादः वर्तते । किन्तु सायणदुर्गाचार्यादयः चतुर्दशाध्यायाः अपि यास्ककृताः एव इति मन्यन्ते ।
यास्ककृतभूमिकायां ग्रन्थस्य प्रयोजनम्, अधिकारी, निरुक्तस्य विभागाः इत्यादिविषयाः प्रस्तुताः ।
नैघण्टुककाण्डे एकार्थकानामनेकशब्दानां निर्वचनं कृतम् । ते सर्वे पर्यायशब्दाः ।
तदुत्तरं नैगमकाण्डे अनेकार्थकशब्दानां सङ्ग्रहः वर्तते । एते शब्दाः अनवगतसंस्काराः । अर्थात् एतेषां शब्दानां प्रकृतिप्रत्ययभावः अस्पष्टः । तेषां नाम ऐकपदिकाः अथवा नैगमाः । अतैव अस्य काण्डस्य नाम नैगम इति । अत्र २७९ शब्दाः सङ्गृहीताः।
दैवतकाण्डे वेदमन्त्राणां देवतानां (मन्त्रप्रतिपाद्यविषयो देवता) विवरणं वर्तते । देवताविज्ञानं मन्त्रार्थसहायकं कथमित्यस्मिन् काण्डे उच्यते । अस्मिन् १५१ शब्दाः सन्ति ।

व्याख्याकाराःसम्पाद्यताम्

निरुक्तस्य बहवः व्याख्याकाराः सन्ति । तेषु प्रमुखाः क्षीरस्वामी, देवराज यज्वा, बर्बरस्वामी, दुर्गाचार्यः, स्वामी ब्रह्ममुनि परिव्राजकः इत्यादयः । ब्राह्मणग्रन्थानामनन्तरं प्रथमवेदभाष्यं निरुक्तमेव । अस्मिन् ग्रन्थे नतु सर्वे वैदिकशब्दाः निर्वचिताः। न च सर्वे मन्त्राः व्याख्याताः । परन्तु निर्वचनप्रकारः, मन्त्रार्थपरिज्ञानविज्ञानमत्र प्रदर्शितः । अस्य मार्गदर्शनेन वेदार्थपरिज्ञानेच्छुकाः वेदाध्ययनं कुर्युः।

दुर्गाचार्यःसम्पाद्यताम्

निरुक्तस्य प्राचीनोपलब्धः टीकाकारो दुर्गाचार्य एवास्ति । किञ्चायं न आद्यः टीकाकारोऽस्ति। स्वकीयां दुर्गवृत्त्यामयं प्राचीनटीकाकतॄणामुल्लेखं कृतवान्। अस्यामेव वृत्त्यां चतुर्षु स्थलेषु अनेन कस्यापि वार्तिककर्तुः उल्लेखः कृतः।[१०] स्कन्दस्वामी अप्यस्य पूर्वटीकाकारस्य उल्लेखं कृतवान् । 'तस्य पूर्वटीकाकारैर्वर्वरस्वामिभगवद्दुर्गप्रभृतिभिर्विस्तरेण व्याख्यातस्य।' अस्यां वृत्त्यां निरुक्तस्य, तस्मिन्नूल्लिखितमन्त्राणां च सविस्तरेण व्याख्यामकरोत् । अत्र निरुक्तस्य प्रतिशब्दः समुद्धृतोऽस्ति । निरुक्तप्रतिपादिताः विषयाः अधःस्थितेन श्लोकेनोपस्थाप्यन्ते —

'वर्णागमो वर्णविपर्यस्य द्वौ चापरौ वर्णविकारनाशौ।

घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम्॥'

दुर्गाचार्येण निरुक्तस्य विषये कथितम् -

'ईदृशेषु शब्दार्थन्यायसङ्कटेषु मन्त्रार्थघटनेषु दुरवबोधेषु मतिमतां मतयो न प्रतिहन्यन्ते, वयं त्वेतावदत्रावबुद्ध्यामह इति'।[११]

परिचयःसम्पाद्यताम्

क्वचित् क्वचिदनेन स्वयम् अभिनवपाठस्य योजनाऽपि कृतेति । यदि इयं वृत्तिः समुपलब्धा न भवेत्, तर्हि अस्य अवबोधनं दुरूहो व्यापारो भवेत्। दुर्गाचार्यस्य विषये ऐतिहासिकं ज्ञानम् अतिस्वल्पमस्ति। निरुक्तव्याख्यायाम् अयं स्वं कापिष्ठलशाखाध्यायी वसिष्ठगोत्रीयो ब्राह्मणमलिखत्।[१२] प्रत्येकस्य अध्यायस्य अन्तिमायां पुष्पिकायामनेन प्रकारेण लिखितमस्ति - ‘इति जम्बूमार्गाश्रमवासिन अाचार्यभगवद्दुर्गस्य कृतौ ऋज्वर्थायां निरुक्तवृत्तौ ___ अध्यायः समाप्तः॥'

अनेन जम्बूमार्गाश्रमस्य निवासी अासीत् इति मन्यते। किञ्च स्थानमिदं कुत्रास्तीति तु अज्ञातम्। डा० लक्ष्मणस्वरूपमहोदयस्त्वेनं काश्मीर-राज्यस्य प्रसिद्धनगरं ‘जम्बू' मन्यते । किञ्च भगवद्दत्तमहोदयस्य इदमनुमानमस्ति यदयं दुर्गाचार्यो गुर्जरप्रान्तस्य निवासी अासीत्। यतोऽनेन मैत्रायणीसंहितायाः स्वव्याख्यायामुद्धरणानि प्रदत्तानि। प्राचीनकाले संहितेयं गुर्जरप्रान्ते एव विशेषरूपेण प्रसिद्धा आसीत् । ईदृशमनुमानेऽयमेवाधारोऽस्ति इति।

यथार्थरीत्या दुर्गाचार्यस्य समयनिरूपणं नाभूत् । अस्याः वृत्त्याः प्राचीना हस्तलिखिता वृत्तिः १४४४ विक्रमाब्दस्यास्ति । अतो दुर्गाचार्यः अस्मात् कालात्प्राचीनतरः मन्यते । ऋग्वेदस्य भाष्यकारः उद्गीथो दुर्गाचार्यस्य वृत्त्या परिचितः आसीत् । आचार्यस्य द्गीथस्य समयः विक्रमाब्दस्य सप्तमशतकमस्ति । अतो दुर्गाचार्यमपि सप्तमशतकाद् अर्वाचीनत्वेन स्वीक्रियते।

स्कन्दमहेश्वरःसम्पाद्यताम्

निरुक्तस्य अपरासु टीकासु महेश्वरस्य टीका लाहौर-नगरीतः प्रकाशिताऽभवत् । टीकेयं प्राचीना पाण्डित्यपूर्णा चाऽस्ति । अयं स एव स्कन्दस्वामी वर्तते यो हि ऋग्वेदस्य भाष्यं लिलेख । अयं गुर्जरस्य प्रख्यातस्य 'वलभी'-नगरस्य निवासी आसीत् । अस्य पितुर्नाम भर्तृध्रुव आसीत् । अस्य समयस्तु विक्रमाब्दस्य सप्तमशतकस्योत्तराद्धमस्ति । अस्य ऋग्वेदस्य भाष्यम् अल्पाक्षरत्वेनापि सारगर्भितमासीत् ।

वररुचिःसम्पाद्यताम्

मुख्यलेखः : स्कन्दस्वामी
वररुचि-नाम्नः कश्चन विद्वान् निरुक्तनिचय-नामिकायाः वृत्त्याः रचयिता अासीत् । इयं नास्ति निरुक्तस्य साक्षाद् व्याख्या, अपि तु निरुक्तसिद्धान्तस्य प्रतिपादकानां शताधिकानां श्लोकानां स्वतन्त्रा व्याख्याऽस्ति । निरुक्तस्य आसां टीकानाम् अनुशीलनेन भाषाशास्त्रीयज्ञातव्यस्य विषयस्य ज्ञानं प्राप्यते। निरुक्ते, तस्य वृत्त्यां च प्रदत्तसङ्केतं गृहीत्वैव मध्यकालिकाः विद्वांसः वेदभाष्यरचनायां साफल्यमाप्नुवन् । मध्यकालिकभाष्यकर्त्तारो विद्वांसः स्वसिद्धान्तनिर्माणे एभिर्ग्रन्थैरेव प्रेरणामलभन्त । एतेषां ग्रन्थानामैतिहासिकं महत्वं वेदस्यार्थानुचिन्तनस्य विषये विशिष्टमस्ति । अस्य ग्रन्थस्योद्धरणं प्रतिष्ठितैः आचार्यैः कृतमतम्।

अधिकज्ञानाय पठ्यताम्सम्पाद्यताम्

सम्बद्धाः विषयाःसम्पाद्यताम्

उद्धरणम्सम्पाद्यताम्

  1. (दुर्गाचार्यवृत्तिः, पृ० ३)
  2. (निरु० तः १॥१॥२॥२ ॥)
  3. (महाभाष्यम्/तृतीयोऽध्यायः/तृतीयः पादः, 3091 वार्तिकम्।। 6 ।।)
  4. (‘निरुक्तं चतुर्दशप्रभेदम्' - दुर्गवृ० १॥१३)
  5. ('भवति हि निष्पन्नेऽभिव्यवहारे योगपरीष्टिः' निरु०॥११)
  6. ( १४८।।४।१ )
  7. ( निरु० १।१४)
  8. (१८॥७७ )
  9. ( १३॥१३ )
  10. (निरुक्तवृत्तिः ११, ६॥११, ८॥४१, ११॥१३ )
  11. (७॥३१)
  12. ४॥१४
"https://sa.wikipedia.org/w/index.php?title=निरुक्तम्&oldid=437141" इत्यस्माद् पुनः प्राप्तिः