निष्कुलानन्दः स्वामी गुजरातीभाषायाः भक्तिमार्गस्य कविः आसीत् । सः स्वामिनारायणसम्प्रदायस्य अनुयायी आसीत् । तस्य ‘त्याग न टके वैराग्य विना करिए कोटि उपायजी ’ गीतम् आश्रमभजनावलीषु अस्ति । मन्दिरेषु भक्ताः एतत् गीतं भावेन गायन्ति ।

स्वामिनारायणभक्तः निष्कुलानन्दः स्वामी
सञ्चिका:Nishkulanandkavya .jpg
निष्कुलानन्दः स्वामी
जन्मस्थानम् जामनगरमण्डलम् गुजरातराज्यम्
मृत्युस्थानम् धोलेराग्रामः गुजरातराज्यम् भारतम्
तत्त्वचिन्तनम् भक्तिगीतानि
उक्तिः "त्याग न टके वैराग्य विना करिए कोटि उपायजी "

एतस्य स्वामिनारायणसम्प्रदाये महत्त्वपूर्णं स्थानं अस्ति । स्वामिनः वैराग्यप्रधानं जीवनं तस्य कृतिषु अपि प्रतिम्बितं भवति । वैराग्यप्रधाने जीवने सत्यपि ‘स्नेहगीता’ इत्यादिभिः श्रृङ्गाररसस्य विशिष्टं मिश्रणं दृश्यते तस्य गीतेषु । तस्य २४ कृतयः ‘निष्कुलानन्दकाव्यकीर्तन’ नाम्ना स्वामिनारयणमन्दिरतः वडताल-भूज-अहमदाबाद्-वडोदरा-सूरतादिषु मन्दिरेषु प्रकाशिताः अभूवन् । स्वामिनारायणसम्प्रदायस्य एनं कविं प्रति प्रेमप्रकटनाय तस्य जीनवोपरि शोधग्रन्थः अपि लिखितः वर्तते ।

जन्म जीवनञ्च सम्पादयतु

निष्कुलानन्दस्वामिनः जन्म जामनगरमण्डलस्य शेखपाटग्रामे अभवत् । तस्य जन्म वि.सं. १८२२ तमे वर्षे, माघमासस्य पञ्चम्यां तिथौ (वसन्तपञ्चम्याम्) रथकारस्य कुले अभवत् । तस्य पितुः नाम रामजी, मातुश्च नाम अमृताबा आसीत् । पूर्वाश्रमे तस्य नाम 'लालाजी' आसीत् । निष्कुलानन्दस्वामिनः मेलनं कविना दलपतरामेण सह धोलेराग्रामे अभवत् । एतस्य मेलनस्य उल्लेखः दलपतरामस्य बुद्धिप्रकाशः इत्याख्यग्रन्थे प्राप्यते । स्वामिनारायणसम्प्रदायस्य सर्वेषु कविषु निष्कुलानन्दस्वामी विशिष्टं स्थानं धरते । यतो हि अक्षरज्ञानेन विनापि सः विपुलं साहित्यं सम्प्रदायाय दत्तवान् ।

साहित्यरचना सम्पादयतु

दीक्षायाः अनन्तरं सद्यः एव भगवान् स्वामिनारायणः "साहित्यरचनां कुरु" इति आदिशत् । तदा कविवरः कथयति- ‘कृष्णमुखानि अक्षराणि छिन्नानि ।’ तदा भगवान् कथयति- ‘प्रारभ्यतां, तव कलमं प्रविश्य अहं लिखामि ।’ अनेन सह निष्कुलानन्दः लेखनं प्रारभत । यमदण्डः इत्याख्या कृतिः तस्य प्रथमा रचना अस्ति । सर्वश्रेष्ठा कृतिः ‘भक्तचिन्तामणिः’ ‘पुरुषोत्तमप्रकाशः’ च वर्तते । आजीवनं ग्रन्थप्रीतिं धारयन् सः काष्ठकलाक्षत्रेऽपि सम्प्रदायस्य अमूल्यां सेवां चकार । तेन कृता शिल्पकला धोलेराग्रामस्य स्वामिनारायणमन्दिरे दृश्यते । तत्र अद्यापि स्वामिना रचितानि तोरणानि वर्तन्ते । अस्मिन्नेव मन्दिरे सेवारतः सः वि.स. १९०९ तमे वर्षे देहत्यागम् अकरोम् ।

प्रसिद्धाः कृतयः सम्पादयतु

१. पुरुषोत्तमप्रकाशः २. भक्तिनिधिः ३. हरिबलगीता ४. वचनविधः ५. यमदण्डः ६. लग्नशुकनावलिः ७. चोसठपदी ८. मनगञ्जन ९. भक्तचिन्तामणिः १०. वृत्तिविवाहः ११. हरिस्मृतिः १२. सारसिद्धिः १३. स्नेहगीता १४. धीरज-आख्यानम् १५. दयप्रकाशः १६. हरिविचरणम् १७. गुणग्राहकः १८. कल्याणनिर्णयः १९. अरजीविनयः २०. विह्नविन्तामणिः २१. पुष्पचिन्तामणिः २२. शिक्षापत्री पद्यरूपा २३. अवतारचिन्तामणिः इत्यादयः ।

"https://sa.wikipedia.org/w/index.php?title=निष्कुलानन्दस्वामी&oldid=465772" इत्यस्माद् प्रतिप्राप्तम्