प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सुरत ( /ˈsʊrətəm/) (गुजराती: સુરત, आङ्ग्ल: Surat)महानगरं गुजरातराज्यस्य दक्षिणे तापीनद्याः तीरे स्थितं महानगरमस्ति । भारतस्य, गुजरातराज्यस्य च अन्यनगरेभ्यः आप्रवासस्य (immigration) आधिक्यात् एतन्महानगरं शीघ्रविकासं कुर्वदस्ति । सद्यः सुरतमहानगरस्य ७०% जनसङ्ख्या नगरेतरवासिनामस्ति । अतः अत्र गुजराती, हिन्दी, आङ्ग्लभाषानां विद्यालयाः सन्ति । अत्र मराठी-बङ्गाली-तमिळ-तेलुगु-उडिया-मलयालमभाषानामपि विद्यालयाः दरिदृश्यन्ते । सुरतमण्डलस्य मुख्यकेन्द्रमस्ति एतन्महानगरम् । भारतस्य स्वच्छतमनगरेषु सुरतमहानगरं सर्वोच्चस्थानेऽस्ति । 'सिल्क सिटी', वज्रनगरम् (The Diamond City), हरितनगरम् (Green City) इति प्रख्यातमेतन्महानगरम् । अस्य सूर्यपुरम् इति नामान्तरम् अस्ति । महानगरस्यास्य वर्तमानं यथा उज्ज्वलमस्ति, तथैव भूतकालोपि आसीत् । आङ्ग्लानां प्रप्रथमशासनम् एतन्महानगरे आरब्धम्, आभारते विस्तृतञ्च । ‘डच्’-‘पुर्तगाली’-जनानाम् एतत् मुख्यव्यापारस्थानमासीत् ।

सूर्यपुरमहानगरम्

સુરત

Surat
'Diamond City of the world'
सूर्यपुरमहानगरम्
सूर्यपुरमहानगरम्
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् सुरतमण्डलम्
महानगरविस्तारः ३२६.५१५ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ७,५७३,७३३
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body सुरत म्युनिसिपल् कोर्पोरेशन्
 • महापौरः निरञ्जनः झञ्झमेरा
 • म्युनिसिपल कमीशनर् मनोजकुमार दास
Demonym(s) सुरती
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
पीनकोड
३९५ ०XX, ३९४ XXX
Area code(s) ०७९
Vehicle registration जीजे-०५,जीजे-२८
साक्षरता ८६.६५%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.suratmunicipal.gov.in

इतिहासःसम्पाद्यताम्

क्रिस्ताब्दस्य ३०० वर्षपूर्वमपि सुरतमहानगरस्येतिहासः अतीव तेजस्वी आसीत् । मूलतः एतन्महानगरं हिन्दुपरम्पराम् अनुसरतां नगरमासीत् । १५०० तः १५२० पर्यन्तम् अस्य नाम सूर्यपुरम् इति आसीत् । अत्र भृगु-सौवीरा-नामकराजानौ क्रमेण शासनं चक्रतुः । १२ शताब्दे 'पारसी'जनाः अत्र स्थायिरूपेण निवसितवन्तः । १७५९ तमे वर्षे मुघलशासकेभ्यः एतन्महानगरम् आङ्ग्लाः बलेन नीतवन्तः । सुरतमहानगरं तापीनद्याः तीरे, अरबीसागरतटे च विकसितम् अस्ति । अस्य समुद्रतटविस्तारः ६ कि.मी. लम्बमानः अस्ति । अतः प्रचीनकालात् एतन्महानगरं व्यापारस्य मुख्यस्थानम् अस्ति । १६, १७, १८ शताब्देषु अस्य समुद्रतटः भारतस्य प्रमुखं व्यापारकेन्द्रमासीत् । एतन्महानगरं पोत(Ship)निर्माणस्यापि मुख्यं केन्द्रमासीत् ।

समुद्रतटेतिहासःसम्पाद्यताम्

१६ तमे शताब्दे निर्मितस्य अत्रत्यस्य राजदुर्गस्य प्राचीनस्मारकेषु गणना भवति । पुरा एषः दुर्गः सुरतमहानगरम् आक्रमणकारैः रक्षति स्म । कर्णावतीमहानगरस्य राजा ‘महमूद्-III’ (१५३८-१५५४) आदिष्टवान् आसीत् "यथा दुर्गः दुर्जेयः भवेत् तथास्य निर्माणं भवतु" इति । आदेशानुसारं ‘साफि-आघा’नामकः तुर्कीसैनिकः दुर्गनिर्माणस्य दायित्वं स्व्यकरोत् । दुर्गनिर्माणस्य कार्यं १७४६ तमे वर्षे समाप्तं जातम् । राजा यथा इष्टवान् आसीत्, तथैव दुर्गस्य निर्माणं जातम् आसीत् । अतः राजा तं ‘खुदावन्द् खान्’ इति नामकरणं कृतवान् । ततः ‘अक्बर्’-राजा सुरतस्य अधिपतिः जातः । यदा सः दिल्लीमहानगरं गतवान्, तदा स्वस्य विश्वस्तं ‘सिधि’ इत्येनम् उपराजत्वेन नियुक्तवान् । परन्तु १८५९ तमे वर्षे ‘सिधि’ इत्यस्मात् आङ्ग्लाः एनं दुर्गं बलात् नीतवन्तः ।

वीक्षणीयस्थानानिसम्पाद्यताम्

प्राचीनकालात् सुरतमहानगरं बाह्यप्रदेशात् आगतानां निवासस्थानम् अस्ति । अतः भिन्नसंस्कृतीनां, भिन्नसम्प्रदायपथां मुख्यस्थानमपि एतन्महानगरम् अभूत् । अत्र यानि वीक्षणीयस्थलानि सन्ति, तानि भिन्नसंस्कृतीनां स्मारकाणि सन्ति । यथा – सुरतमहानगरस्य कोटः(Fort), 'पारसी अगियारी', चिन्तामणिजैनमन्दिरं, सरदार् वल्लभभाई पटेलस्मारकं, दाण्डीसमुद्रतटः, तीथलसमुद्रतटः, गोपीतडागः, ‘नवसईद् मस्जिद्’, वीरनर्मदसरस्वतीमन्दिरम् इति ।

सुरतमहानगरस्य कोटःसम्पाद्यताम्

१५४० तमे वर्षे ‘सुल्तान् महमुद्-III’ सुरतमहानगरकोटस्य (સુરતનો કોટ) निर्माणं कारितवान् । सद्यः अत्र सर्वकारकार्यालयाः सन्ति । परन्तु प्रवासिनः दुर्गस्य सर्वोच्चाट्टं गत्वा तापीनद्याः, सुरतमहानगरस्य च हृदयाह्लादकं दृश्यं द्रष्टुं शक्नुवन्ति ।

'पारसी अगियारी'सम्पाद्यताम्

एतत् 'पारसी'जनानां मुख्यं प्रार्थनास्थानमस्ति । अस्य समीपे अन्यान्यपि बहूनि लघुप्रार्थनास्थानानि सन्ति । अत्र 'पारसी'-इतरजनानां प्रवेशनिषेधोऽस्ति ।

चिन्तामणिजैनमन्दिरम्सम्पाद्यताम्

१७ तमे शताब्दे ‘बादशाह् औरङ्गजेब्’ इत्यस्य शासनकाले चिन्तामणिजैनमन्दिरं निर्मितमासीत् । यवनाः मन्दिरधनलुण्ठकाः आसन्, अतः अस्य बाह्यरूपम् अत्यन्तं साधारणं दृश्यते । परन्तु अन्तः अद्भुतशिल्पकलायाः दर्शनं भवति । अन्तः काष्ठस्य ये स्तम्भाः सन्ति, ते प्राकृतिकरङ्गेन रञ्जिताः सन्ति ।

सरदार् वल्लभभाई पटेलस्मारकम्सम्पाद्यताम्

१९८९ तमे वर्षे सरदार् वल्लभभाई पटेलस्मारकस्य स्थापना कृता । अत्र सुरतमहानगरस्य इतिहासस्य वस्तूनि, अन्यानि पुरातनवस्तूनि च प्रदर्शन्यां स्थापितानि सन्ति । एतत् स्मारकं सर्वकारावकाशेषु, रविवासरे च पिहितं भवति । परन्तु अन्यदिनेषु ९-११:३०, २:४५-५:४५ समयपर्यन्तम् आगन्तुकानां कृते उद्घाटितं भवति । अत्र तारालयः (planetarium) अस्ति । अत्र अन्तरिक्षप्रदर्शनं भवति ।

अन्यान्यपि वीक्षणीयस्थलानि सन्ति एतस्मिन् महानगरे, यत्र प्रवासिनः अधिकसङ्ख्यायां गच्छन्ति । तेषु एकस्य चित्रं दत्तमस्ति अत्र ।

तीथलसमुद्रतटस्य रमणीयं दृश्यम्

मार्गाःसम्पाद्यताम्

विमानमार्गःसम्पाद्यताम्

सुरतविमानस्थानकं मुख्यनगरात् १६ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च सुरतमहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गःसम्पाद्यताम्

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गःसम्पाद्यताम्

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः सुरतमहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद्-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्

http://www.suratmunicipal.org/Contents/Default.aspx

http://www.mapsofindia.com/surat/

http://timesofindia.indiatimes.com/city/surat

"https://sa.wikipedia.org/w/index.php?title=सुरत&oldid=318044" इत्यस्माद् पुनः प्राप्तिः