पूर्णप्रज्ञकृतं भाष्यम् आदौ तद्भावपूर्वकं ॥
योव्याकरोन्नमस्तस्मै पद्मनाभाख्य योगिने ॥

श्रीमदानन्दतीर्थभागवत्पादमुखकमलतः भक्तिविरक्तिशुश्रूषादिसम्पदा गुरुं सद्यः स्वानुग्रहोन्मुखं विधाय सद्योपलब्धज्ञानमकरन्दाः श्री पद्मनाभतीर्थ श्रीचरणाः इति श्रूयते सुमध्वविजये । एते ज्ञानिवर्याः गोदावरीतीरस्थाः इति ज्ञायते ।

आकृष्टोऽस्य गुणैर्व्याप्तैर्यो गोदाया उपाययौ ।
स पद्मनाभतीर्थाख्यः शिष्योऽन्योभूत् सुचेतसः ॥ (सु.म.१५.१२०)

एकदा गोदावरीतीरे उपन्यासं वदन्तं द्वात्रिंशल्लक्षणोपेतम् आचर्यवर्यं तेषां गाम्भीर्यं धृतिम् उरुवीर्यभावं ब्रह्मतेजः व्याख्यानकौशलं देहसौष्टवं च अवगम्य तैः गुणैः आकृष्टः सन् शिष्यत्वं प्रापुः ।

श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया ।
तस्मै प्रसन्नः प्रज्येक्षः सद्यो विद्यां ददौ शुभाम् ॥ (सु.म.१५.१२१)

यद्यापि यतीन्द्राः बहुदेशजाः शिष्याः अभवन्नपि, श्रवणमननादिना, भक्त्या, वैराग्येण, गुरुशुश्रूषया च प्रसन्नः पूर्णप्रमतिः अस्मै सद्विद्यां संस्थानप्रदानद्वारा पूर्णानुग्रहं च चकार ॥

वेदप्रवचनाचार्यशिष्योऽसाविति पूजितः ।
सभ्यः सभायां यो वेदं व्याचख्यौ वेदसारवित् ॥

वेदप्रवचनाचार्य शिष्यतया सर्वसभाजितानां प्राचीनटीकाकृतां श्रीपद्मनाभतीर्थ गुरुवर्याणां श्रीमदानन्दतीर्थभगवत्पादकृतप्रकरणसप्तकटीकानां द्वैतसाम्राज्ये अनितरसाधारणं स्थानमस्ति । अद्वैतदर्शने असाधारणं पाण्डित्यं सम्पाद्य श्रीमदानन्दतीर्थानां सम्पर्केण द्वैतदर्शनम् एते उररीचकृः । यथा त्रिविक्रमपण्डिताचार्याः । उभावप्येतौ श्रीमदाचार्याणां पूर्णानुग्रहभाजौ सत्तर्ककेसरिणौ । उभाभ्यामपि श्रीमदाचार्यकृताः ग्रन्थाः व्याख्याताः ।

वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गिलः ।
युक्तिप्रवाहसंरभ्मात् परशास्त्रनदीचरः ॥
व्याख्या प्रणादमात्रेण वीरम्मन्यान् स्वमण्डले ।
मायाविग्रामसिंहान् यो वादसिंहो निराकरोत् ॥
मत्तदुर्वादिमातङ्गर्कमस्तकदारणे ।
पञ्चास्यो योऽभवद्यक्तं चतुरास्योपि केवलम् ॥
सन्न्यायरत्नावलिरप्युदपादि यतः शुभा ।
टीका परा नुव्याख्याया अनर्घा बोधसागरात् ॥

सन्न्यायरत्नावलीनाम्ना व्याख्यानेन भूषितं श्रीपद्मनाभतीर्थयतिना श्रीमध्वकृतम् अनुव्याख्यानम् । तथैव विष्णुतत्त्वविनिर्णयाख्यः आचार्यमध्वकृतः ग्रन्थः त्र्यायरत्नावली नम्ना व्याख्यायि । सोऽयं व्याख्याग्रन्थः ऐद्म्प्राथम्येन अत्र प्राकाशि । व्याख्यायामस्याम् आदावन्ते वा मङ्गलपद्ये न स्वनाम निरटङ्कि ग्रन्थकारेण । अथापि मङ्गलकोशे ग्रन्थान्ते श्रीपद्मनाभयत्युज्ञत्वं स्फुटं उपलभ्यते । एवम् अन्ये च बहवः ग्रन्थाः एर्तैव्याख्यायि । श्रीराघवेन्द्रतीर्थप्रभृतिभिः टिप्पणिकारैः तत्र सन्दर्भवशात् श्रीपद्मनाभतीर्थ भट्टारक नामोल्लेखनपूर्वकम् उद्द्वतं वाक्यम् अस्यां टीकायाम् उपलभ्यते । न केवलं राघवेन्द्रतीर्थ प्रभृतिभिः अपि तु श्रीमट्टीकाकृत्पादैः श्रीमन्न्यायसुधामङ्गलाचरणे

रमानिवासोचितवासभूमिः सन्नयायरत्नावलिजन्मभूमिः ।
वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ॥

इति तान् भक्त्यतिशयेन आनेमिरे । तेन इदं ज्ञायते प्राचिनटीकाकीराः इति प्रथिताः श्रीपद्मनाभतीर्थश्रीचरणाः श्रीमाध्वसम्प्रदाये महदुन्नतं स्थानं अवापुः । एते कर्नाटकराज्ये हम्पीनगरसमीपे नववृन्दावनाख्ये पुरे हरि पदं प्रापुः ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=पद्मनाभतीर्थः&oldid=409384" इत्यस्माद् प्रतिप्राप्तम्