इदं महाकाव्यम् उपकाव्यम् इति भेदेन प्रथमं द्विविधम् । अष्टादश संख्याकवर्णनाभिः विभूषितं काव्यं महाकाव्यम् उच्यते । वर्णनानां संख्याविषये मतभेदाः सन्ति।

नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥
विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रद्यूतप्रयाणाऽऽजिनायकाभ्युदया अपि ॥
एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।
एषामष्टादशानां यैः कैश्चिदूनमपीष्यते ॥

इति प्रतापरुद्रीयकारस्य विद्यानाथस्य मतम् । नरसभूपालीये द्यूतस्य स्थाने दौत्यं, मधुपानस्य स्थाने मधु (वसन्त्) वर्णनं च स्वीकृतम् । मधुवर्णनस्य ऋतुवर्णनान्तर्भूततया पृथक् परिगणनमनावश्यकमेव । साहित्यदर्पणे सन्ध्या-सूर्य-चन्द्र-रात्रि-प्रदोष-दिन-उदय मध्याह्न-मृगया- शैल-ऋतु- वन -सागर-सम्भोग-विप्रलम्भ-मुनि- स्वर्ग- अध्वर- रण-प्रयाण-विवाह- मन्त्र पुत्रोदयाः वर्णनीयाः इत्युक्तम् । एषु सन्ध्यातः सागरपर्यन्तानि वर्णनानि यथासंभवं, समभोगात् पुत्रोदयपर्यन्तानि वर्णनानि साङ्गोपाङ्गं च वर्णनीयानि- इत्युक्तम् । अप्पकविः प्रतापरुद्रीयकथितानामष्टादशवर्णनानामनन्तरं, मौनीन्द्र-पुण्याश्रम-कन्याङ्गसौन्दर्य-दौह्रुदाख्यानि चत्वारि वर्णनानि वर्ण्यांशेषु परिगणितवान् । अलङ्कारशेखरकारः द्वात्रिंशत् वर्णनांशानकथयत् । परं बहवः अष्टादशवर्णनाविशिष्टं महाकाव्यमिति तत्र केषाञ्चिदभावेऽपि न महाकाव्यत्वहानिरिति च, अङ्गीचक्रुः ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=पद्यकाव्यम्&oldid=409386" इत्यस्माद् प्रतिप्राप्तम्