सेयं परावाक् स्वरुपज्योतिरुपा संविद्रुपा स्वप्रकाशेति महाभारते लिखितमस्ति । मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरुपा स्पन्दशून्या बिन्दुरुपिणी सेति नागेशेन प्रतिपादितम् । चैतन्याभासविशिष्टतया प्रकाशिका माया निष्पन्दा परा वागिति पद्मपादाचाये वर्णितम् । परावाक् स्फोटशब्देनोच्यते । सैव शब्दब्रह्मेति कृष्णमित्रेण स्वीकृतम् ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=परावाक्&oldid=409388" इत्यस्माद् प्रतिप्राप्तम्