वस्तुत: परित: आवरणं नाम पर्यावरणमिति सर्वे जानन्ति एव । अर्थात् यानि जैविकानि अजैविकाने च तत्वानि अस्मान् परित: विराजन्ते तानि सर्वाणि पर्यावरणस्य घटका: सन्ति । अपि च मानवजीवने प्रत्यक्षरूपेण च एतेषां पर्यावरणघटकानां ये प्रभावा: भवन्ति ते एव पर्यावरणम् । अर्थात् अस्मान् परित: यानि तत्वानि विराजन्ते तेषां प्रभाव: एव पर्यावरणम् ।प्राचीने काले विश्वस्य जनसंख्या नियन्त्रिताऽसीत् । प्राकृतिकसाधनेनैव मानवानाम् आवश्यकतापूर्ति: भवति स्म ।पर्यावरण प्रदूषकाणि कार्याणि न भवन्ति स्म । तथापि यदि येन-केन प्रकारेण वा पर्यावरणप्रदूषणानि भवन्ति स्म, तर्हि प्रकृत्या एव तस्य निवारणं भवति स्म । यत: तस्मिन् समये प्रकृतौसर्वेषां तत्वानां सन्तुलनमासीत् । सम्प्रति जनसंख्याविस्फोट: संजात: । जनसंख्यावृध्दया सह अस्माकमावश्यकता अपि वर्धिता । फलत: वनकर्तनं जातम् । औद्योगिकविस्तार: जात: । विविधप्रकाराणि प्रदूषणानि जातानि । अत्र विचारणीयं भवति यत् केषां तत्वानामभावेन प्रकृति: असंतुलिता जाता । अर्थात् येषां तत्वानामभावेन प्रकृति: असंतुलिता जाता, पर्यावरणप्रदूषणां जातं ,वातावरणमसुरक्षितं जातं,तेषामस्माकं जीवने , पर्यावरणे, प्रकृतौ च क: प्रभाव: इति । अत: आवश्यकं भवति पर्यावरणे स्थितेन घटकानांपरस्परसम्बन्धस्य च अध्ययनम् । इदमेवाध्ययनं पारिस्थिकीति नाम्ना अभिधीयते । अर्थात् मानवानां पर्यावरणेन सह पर्यावरणस्य घटकै: सह सम्बन्धस्य, पर्यावरणे स्थितानां घटकानां परस्परसम्बन्धस्य च अध्ययनं भवति पारिस्थितिकी ।

Ecology
परिसरविज्ञाने तावत् सर्वविधप्राणिनः, पक्षिणः, सस्यराशिः एवं सर्वविधमपि अत्र अन्तर्भवति

परिसरविज्ञानम् इत्यस्य आङ्ग्लभाषायां ECOLOGY इत्युच्यते । ECOLOGY शब्द: ग्रीकभाषाया: (oikos =Home and Logos=Study ) Oikos logos शब्याभ्यां निष्पन्न: ,यस्यार्थ: भवति आवासीयमध्ययनम्, Ecology=Study of Home or Habitat. सन्दर्भेऽस्मिन् परिभाषात्रयमुपस्थापितं वर्तते । यथा- १.पारिस्थितिकी केषाञ्चित् जीवधारीणां तेषां पर्यावरणस्य सन्दर्भे एकमध्ययनमस्ति । २.पारिस्थितिकी जीवधारिषु परस्परसम्बन्धस्य, जीवधारि-पर्यावरणायोर्मध्ये परस्परसम्बन्धस्यचाध्ययनमस्ति । ३.पारिस्थितिकी वनस्पति -पशु - मानवानां तथा तेषांपर्यावरणेन सह सम्बन्धस्यान्तिम: परिणाम: अस्ति ।

यद्यपि एताषां परिभाषाणामालोचनेन इदमेव तथ्यं स्पष्टं भवति यज्जीवधारीणां पर्यावरणेन सह सम्बन्धस्याध्ययनं पारिस्थितिकीति । वस्तुत: अत्र तु प्रत्येकेषां जीवधारीणां , तेषां परिस्थितिना तेषां पर्यावरणस्य, तेषां परस्पर-सम्बन्धस्य, पर्यावरघटकेषु परस्परसम्बन्धस्य,जीवधारिणां परस्परसम्बन्धस्य च सामाजिकं वैयक्तिकञ्चाध्ययनं भवति । एवं प्रकारेण अत्र वनस्पतिविज्ञानं ,जीवविज्ञानं,रसायनविज्ञानं ,भूगर्भविज्ञानं ,भूगोलशास्त्रं , वातावरणविज्ञानं , जलवायुविज्ञानं, समाजविज्ञानं , नक्षत्रविज्ञानञ्चान्तर्भूतं भवति । अनेनास्य क्षेत्रं बृहदाकारं प्राप्नोति । मूलत: सर्वविधप्राकृतिक-विज्ञानं सामाजिकविज्ञानञ्चागच्छति अत्र ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=परिसरविज्ञानम्&oldid=488025" इत्यस्माद् प्रतिप्राप्तम्