पर्यावरणशिक्षा
पर्यावरणशिक्षाया: आवश्यकता
सम्पादयतुअध्यायस्यास्याध्ययनेन एवं स्पष्टं भवति यत् प्राचीने काले अस्माकं पर्यावरणं संरक्षितं,संतुलितञ्चासीत् । यदि काचन पर्यावरणीय समस्या आयाति स्म तर्हि तेषां समाधानं सर्वे ॠषय: अनौपचारिक-रुपेण एव कुर्वन्ति स्म ।परं सम्प्रति जनसख्यावृध्द्या, औद्यागीकरणेन अन्यकारणेन च अस्माकं पर्यावरनं पूर्ण-रुपेण प्रदूषितमस्ति । प्रक्रुतौ एतत् सामर्थ्यं नास्ति येन पर्यावरणं पुन: सन्तुलितं भविष्यति । सम्प्रिति जीवनं जगति दुष्करं प्रतिभाति ।सर्वकारेण संस्थाभिक्ष्च ये उपाया: क्रियन्ते तेषां क्रियान्वयनं पूर्णरुपेण न भवितुमर्हति । यत:नागरिका: पूणजगरुका: न सन्ति । एतदर्थं पर्यावरणशिक्षा साम्प्रतिके युगे अतीव महत्त्वपूर्ण अस्ति । अस्या: आवश्वकता विषये यदि विचारयामो वयं तर्हि एकं स्वतन्त्रं पुस्तकं भविष्यति । अत: संक्षिप्ते एव दृक्पात: क्रियते ।
१.सौरमण्डले मात्रं " पृथ्वी " एवस एक: ग्रह: अस्ति यत्र जीवनं भवति ,भवितुमहर्ति वा । यदि इयं हि नष्टा भविष्यति, जीवाय अनुपयुक्ता भविष्यति , तर्हि जगति जीवनाऽभाव: भविष्यति । अत: अस्या: पर्यावरणशिक्षाया: आवश्यकतावलोक्यते यत् पृथिव्या: संरक्षणं पृथ्वीवासिनेभ्य: सुखप्रदजीवनप्रदानम् ।
२.समेषां पर्यावरणीयसमस्यानां मूलं भवति जनसंख्यावृध्दि: । जनसंख्यावृध्द्या एव प्रकृतौ असन्तुलनं जातमस्ति । सम्प्रति जनसंख्यावृध्दि: इत्थं भवति येन अस्माकं शृङ्खलितं प्रकृतिचक्रं विशृङ् लितं जातम् । प्रकृति-चक्रं व्यवस्थापनाय,भविष्यति सुरक्षितं, संरक्षितञ्च वातावरणं हस्तान्तरयितुं जनसंख्या-वृध्द्यवरोधनमावश्यकं भससवति ।अतस्तदर्थं जनजागरणाय अस्या: शिक्षाया: आवश्यकता वर्तते ।
३. अस्माकं प्रकृतौ संसाधनस्याभाव: न विद्यते । परं तेषां संसाधनानां ज्ञानं नास्ति अस्माकं पार्श्वे । फलत: वयं कष्टमनुभवम: । येषां संसाधनानां ज्ञानमस्ति तेषामुपयोग: सम्यक् न क्रियतेऽस्माभि: । तत्र ज्ञनाभाव: एव कारणम् । अत: प्राकृतिकसंसाधनानां विषये पूर्णज्ञानप्रदानाय शिक्षेयमावश्यकीति ।
४.प्रकृतौ मात्रं पादपा: वनस्पतय: एव सन्ति ये कार्बनडाइ-आक्साइड (co2)इति नामकं गैसम्, आँक्सिजन (o2) प्राणवायु: इति नामके गैसे परिवर्तयन्ति ।अपि च जीवानां कृते आँक्सीजननामकं गैसं महदावश्यकं भवति । यद्यस्य परिवर्तनमवरुध्दं भवति तर्हि प्रकृतौ असन्तुलंन भवति । अत एतदर्थं किं करणीयं किं न करणीयमित्येतदर्थमावश्यकीयं शिक्षा ।
५. सम्प्रति जगति औद्योगिक-क्रान्तिरागता, वैज्ञानिकसंसाधनानां बाहुल्यं जातम् । परमनेन प्रकृतौ कञ्चन प्रदूषणं जातम् । अत: प्रदूषणानि निवारणाय, पर्यावरणीयसमस्यां समाधानमन्वेष्टुमावश्यकीयं शिक्षा ।
पर्यावरणशिक्षाया:उद्देश्यानि
सम्पादयतुपर्यावरणशिक्षया: उद्देश्यानां निर्धारणं प्रारम्भत: एवम् ।(IEEP. International Environmental Education Plan.) अन्ताराष्ट्रिय-पर्यावरण-शिक्षा योजनामाध्यमेन जातम् । अस्या: प्रथमा सगोष्टी ( International workshop On Environmental Education ) १३-२२ अक्तूबर १९७५ वर्षे बेलग्रेड (यूगोस्लाविया) नगरे जाता । अस्यां कार्यशालायां बेलग्रेडघोषणापत्रस्य निर्माणं जातम् ।अस्मिन्नेव घोषणापत्रे बेलग्रेडघोषणापत्रस्य निर्माणजातम् अस्मिन्नेव घोषणापत्रे पर्यावरणीयशिक्षाया: उद्देश्यानां यथा- १.जागृति - सम्पूर्णपर्यावरणं प्रति तत्सम्बन्धिसमस्यां प्रति च जागृति: आनयनं , संवेदनशीलत्व-प्रदानञ्च । Awareness- To help individuals and social groups aquir an awareness of , and sensitivity to the total environmental and its allied problems. )
२.ज्ञानम्-सम्पूर्णपर्यावरणस्य तेषां समस्यानाञ्च सम्बन्धितसम-स्यानाञ्चाधारभूतज्ञानप्राप्ति: । Knowledge :- To help individuals and social groups acquire basic understanding of the total enviornment , its associated problems and humanity's crilially responsible presence and role in it .
३.अभिवृत्ति:- पर्यावरणसंरक्षणाय क्रियमाणं चिन्तनं प्रति, सामाजिकदायित्वनिर्वाहं प्रति तेषां , सुरक्षायै सुधारार्थं च क्रियमाणं कार्यं प्रति चाभिप्रेरणम्। Attitude- To help individuals and social groups acquire social values, strong feelings of concern for the enviornment and the motivation for activity participation in its protection and improvement.
४.कौशलसम्प्राप्ति:- शिक्षेयं पर्यावरणीयसमस्यानां समाधा-नान्वेषणार्थं कौशलप्राप्तौ सहायिका भवति । Skill.-To help individuals and social groups acquire the skills for solving environmental problems.
५.मूल्यांकनकौशलम्- शिक्षेयं पर्यावरणीयोपायस्य शैक्षिक-कार्य-क्रमस्य च पारिस्थितिक-सामाजिक-सौन्दर्यपरक-शैक्षिकपरिप्रेक्ष्ये च मूल्यांकनार्थं सहायिका भवति । Evaluation Ability-To help individuals and social groups evaluate environmental measures and education programmes in terms of ecological,political, economic, social,esthetic and educational factors.
६.सम्भागिता-शिक्षेयं पर्यावरणायसमस्यां प्रति, समस्यानामुचितं निश्चितञ्च समाधानान्वेषणं प्रति च महत्वभावनां, दायित्वभावनाञ्च विकासयति । Participation-To help individuals and social group develop a sence of responsibility and urgency regarding environmental problems so as to ensure appropriate action to solve those problems.
एतेषामुद्देश्यानां विभाजनं त्रिधा कर्तुं शक्यते
सम्पादयतु- १. भावात्मकम् - रुच्याधारितम्अभिवृत्याधारितं ,मूल्य-परिवर्त्अनाधारितञ्च ।
- २. संज्ञानात्मकलम्-स्मरणं, समस्यासमाधानम्,अवधारणानिर्माणञ्च ।
- ३. क्रियात्मकम्- शरीरिकाभ्यास:, योग:, व्यायामश्च ।
संज्ञानात्मकमुद्देश्यम्
सम्पादयतु- १. तत्कालीनपर्यावरणस्य ज्ञानप्रादानाय सहाय्यप्रदानम् ।
- २. जैविकाजैविकापर्यावरणयोरवबोधे सहाय्यप्रदानम् ।
- ३. भविष्यज्जगति अनियन्त्रितजनसंख्यावृध्दे:दुष्प्रभावस्य ज्ञानप्रदानम् ।
भावात्मकमुद्देश्यम्
सम्पादयतु- १. समीपस्थ-दूरस्थपर्याश्च वानस्पतिकं, जैविकञ्च प्रति अभिरुच्युत्पादनम् ।
- २. विविध-जातिं प्रति, प्रजाति प्रति, धर्म प्रति, संस्कृतिं प्रति च सहिष्णुता-प्रदर्श्नम् ।
- ३. स्वकीयस्य पर्यावरणस्य स्वच्छतां प्रति शुध्दतां प्रति चावधानं प्रदानम् ।
क्रियात्मकमुद्देश्यम्
सम्पादयतु- १. वायु-जल-ध्वनि-मृत्तिकादिप्रदूषणकार्यक्रमे सक्रियत्वेन भागग्रहणम् ।
- २. परित: स्वच्छताकार्यक्रमे भागग्रहणम् ।
- ३. नगरीय-नियोजने, ग्रामीण-नियोजने च भगग्रहणम् ।
- ४. खाद्यसामग्रीषु अनावश्यकतत्वानां, हानिप्रदतत्वानाञ्च मिश्रण-नियन्त्रणकार्यक्रमे भागग्रहणम् ।
- ५. अधिकांशभूमौ वृक्षारोपणकार्यक्रमस्यायोजनं ।
- ६. जलप्रदूषणसमस्यानिवारणार्थं , जलस्य महत्वविषये च ज्ञानप्रदानम्।
- ७. ध्वनिप्रदूषणे जायमानानां रोगाणां विषये ज्ञान-प्रदानम् ।
- ८. वृक्षाणाम्( वनानाम् ) अनावश्यककर्तनस्यावरोधनम् । परिपक्व वृक्षस्य स्थाने नूतनानां वृक्षाणामारोपणम् ।
- ९. वन्यजीवानां संरक्षणम् ।
- १०. अनावश्यकमृत्तिकाकर्तनस्यावरोधनम् ।
एवं प्रकारेण बेलग्रेडचार्टरस्यानुसारेण- पर्यावरणं सम्पूर्णरुपेण पश्यतु, यदि तत् प्राकृतिकं, पारिस्थितिकं, राजनैतिकम्, आथिकम्, औद्योगिकं,वैधानिकं, सास्कृतिकं, सौन्दर्यपरकञ्च भवतु । Consider the enviornment in its totally- Natural or manmade, ecological, political , economic , tecnological, social legislative, cultural and aesthetic .
पर्यावरणशिक्षाया: महत्त्वम्:
सम्पादयतुपर्यावरणीयसमस्याया: पर्यावरणसंरक्षणस्य वा विचार: यदा मानवमनस्सु समायात: तदैव जगति पर्यावरणशिक्षाया:महत्व-विषये चिन्तनं समारब्धम् । स्टाँकहोम( १९७२ ) नगरे समायोजिते मानवपर्यावरण्म् इति अन्ताराष्ट्रिये सम्मेलनेऽपि विषयेऽस्मिन् चिन्तनं जातम् ।अत: परं बेलग्रेडचार्टर (१९७५) इत्यस्याधारे तिबलिसी-अन्तर्देशीय -सम्मेलने (१९७७ ) पर्यावरण-शिक्षाया: कार्यक्रमस्य उपादेयत्वं स्पष्टं जातम् । अस्यानुसरेण पर्यावरण-शिक्षाया: महत्वमेवं भिवितुमर्हति ।
- १. पर्यावरणस्य सत्यं , तथ्यात्मकञ्च ज्ञानं जनेभ्य: प्रदानम् ।
- २. ज्ञानस्याधारे पर्यावरणस्यासन्तुलनस्य सम्भावितकारणान्वेषणम् ।
- ३. सन्निकटे भविष्ये आगम्यमानानां समस्यानां जीवाय विपत्ति -कराणां समस्यानाञ्च विषये पूर्वमेव ज्ञानप्रदानम् ।
- ४. समस्याअनां समाधानान्वेषणं , ज्ञापनम्, अवबोधनञ्च् ।
- ५. समस्यामवगन्तुं समाधानमन्वेष्टुञ्च जनानामन्तर्निहितश्क्तीनां विकास: ।
- ६. पर्यावरणसंरक्षणं प्रति, सुरक्षां प्रति, सम्बोधनं प्रति, जनान् अभिप्रेरणम् ।
- ७. सर्वमवगत्य जना: एवं कार्यं कुर्यु: इति विषयकं ज्ञानं जनेभ्य: ,नूतनेभ्य:सामाजकेभ्यश्च प्रदानम् ।
- ८. स्वयं सौविध्येन जिवेम्, अन्ये च सौविध्येन जीवेरन् इति भावना जनेषु जागरणम् ।
फलत: ज्ञातव्यं यत् शिक्षेयमद्यतनीया आवश्यकता वर्तते,अस्या: उपादेयत्वं स्वीकरणीयम् । अस्य कार्यक्रमस्य सफलतायै प्रयत्नीय: । अनया पर्यावरणस्य गुणवत्ता जीवनस्य गुणवत्ता चायाति ।
पर्यावरणशिक्षाया: पाठ्यक्रम:
सम्पादयतुपर्यावरणशिक्षानाम समेषां जीवजन्तूनां , वनस्पतीनां ,जैविकाजैविक -वस्तूनां , परिस्थितीनां ,वातावरणस्य चाध्ययनम् । फलत: अस्या: अध्ययनं मात्रम् औपचरिकरूपेण भावितुं नार्हति इति विचार्य एव तिबलिसीसंगूठ्या: इत्यस्या: शिक्षाया: विषयवस्तूनां निर्धारणंकृत: । यथा आङ्ग्लभाषायाम् -
- 1.The general public at every age at all levels of formal education for pupils studentsand teachers and in the various non formal educationa activities for young people and adults.
- 2. Specific occupational or social groups with a focus on those whose activity and influense have an importent bearing on the enviornment for instance , ingineers , architects , administrators and planners ,industrialists,trade unionists, policy -makers and agriculturalists,verious levels in formaland non-formal education should contribute to this training. It is importent ,moreover ,that the training of certain professionals and scientists involve with problems of the enviornment , such as biologist hydrologist sanitary engineers etc. include an interdiciplinary enviornmental component.
फलत: पर्यावरणईयशिक्षाया: व्यवस्था यदि एकात्मिका भवति तर्हि सर्वे लाभप्रदा: नभवितुमर्हन्ति । अत: भवतु विषयवस्तुन: सैध्दान्तिक: पक्ष: एकात्मक: ,परं तस्य वर्गीकरणं विविधरूपेण करणीयमपेक्षते । एवं प्रकारकंविचारं स्वीकृत्य एव अस्याअ; शिक्षाया: पाठ्यक्रम: औपचारिका-र्ध्दौपचारिकानौपचारिकश्चेति त्रिध स्वीकृत: ।
१.औपचारिकी-पर्यावरणशिक्षा-पाठ्यक्रम :- Formal Enviornmental Education Curriculum - श्रेण्यामस्यां समाजस्य राष्ट्रास्य च प्रधानसमूह: छात्रसमूह: आगच्छति । स: छात्रसमूह: चतुर्षु स्तरेषु अध्दयनं करोति । यथा - प्राथमीकस्तर:, उच्चप्राथमीकस्तर:, माध्दमिकस्तर:,उच्चस्तरश्चेति । एतेषां स्तराणां के विषया: उपयुक्ता:इति परं चिन्तयाम: ,पूर्व त्वस्य पाठ्यक्रमस्य विषयवस्तूनिविचारयाम: ।
- स्वकीयं पर्यावरणं ,पृथ्वि: , सौरमण्डलं,पारिस्थितिकञ्च ।
- प्राकृतिकसंसाधनं , वनं , वन्यजीवा:, ऊर्जा, वायु:, जलं ,भूमि: राष्ठ्रियोद्यानम्, अभयारण्यञ्च।
- पर्यावरणीयप्रदूषणं , पर्यावरणीयसमस्या, जनसंख्यावृध्दि:, वाहनप्रदूषणं , ध्वनिप्रदूषणं , पर्यावरणीयनियमोपनियमाश्च ।
- स्वयंसेवीसंस्था: , पर्यावरणप्रन्ध:, विविधदेशीयस्तरेषु, अन्तराष्ट्रियस्तरेषु, च पर्यावरणशिक्षाकार्यक्रमा: ।
प्राथमिकस्तरे- स्तरेस्मिन् बालका: अनौपचारिकरूपेण, भ्रमणेन, दर्शनेन ,कार्यक्रमेण वा शिक्षाग्रहणे तत्परा: भवन्ति ।अत: एतै: माध्यमै: जलस्य,वायो:, भोजनस्य , स्वास्थ्यस्य, वनस्य च ज्ञानं प्रदातव्यम् ।
उच्चप्राथमिकस्तरे-स्तरेस्मिन् छात्रा: प्रकृते: प्राकृतिकसाधनेभ्यश्च परिचिता: भवन्ति । अत: तेभ्य: प्रदर्शनीमाध्यमेन ,विडियोफ़िल्ममाध्यमेन , लघुनाटकमाध्यमेन, कवितामाध्यमेन , पर्यावरणगीतिमध्यमेन, प्रहेलिकामाध्यमेन, क्रीडामाध्यमेन च पर्यावरणस्य ज्ञानप्रदानम् ।
माध्यमिकस्तरे-स्तरेस्मिन् छात्रा: स्वकीये क्षतिलाभादिविषये जानन्ति ।सामाजिककार्यक्रमेषु, च रुचिं प्रदर्शयन्ति । अत: ते नातिजटिलपर्यावरणीयसमस्याभि: परिचिता: भवितुमर्हन्ति । यथा- जनसंख्यावृध्दे: दुष्परिणाम:,खाद्यसामग्रीणामभाव:, विवधप्रकारकं प्रदूषणं, भूक्षरणं, वन्यजीवसंरक्षणमित्यादय: ।
उच्चस्तरे :-स्तरेस्मिन् महाविद्यालय:, विश्वविद्यालयश्चागच्छति । अस्यामवस्थायां छात्रेभ्य: पर्यावरणस्य विषयवस्तूनि , तेषां तथ्यात्मकं विश्लेषणं,देशस्य वास्तविकी स्थिति:, जनानां पर्याअवरणं प्रति उपेक्षित: व्यवहार:, विविधप्रकाराकाणि प्रदूषणानि, प्रादूषणकृत-हानि:, वन-वन्यजीवानां संरक्षणं , पर्यावरणसंरक्षणे वनस्य योगदानं, पर्यावरणकृत -हानि : ,वन-वन्यजीवानां संरक्षणं, पर्यावरणसंरक्षणे वनस्य योगदानं , पर्यावरणीयप्रबन्ध:, विविधस्तरेषु जनानामुत्तरदायित्वञ्चेत्यादिकस्य वृहदज्ञानं छात्रेभ्य: दातव्यम् । स्तरेऽस्मिन् पर्यावरणडिप्लोमाकोर्श इति प्रचालनीयम् ।
- २. अर्ध-औपचारिक- पर्यावरणषिक्षा-पाठ्यक्रम: Semiformal Enviornmental Education - सामान्यत: छात्रान् परित्यज्य जगत्यस्मिन् द्विप्रकारकौ जनौ निवसत: । अशिक्षित: शिक्षितश्च । प्राय: शिक्षिता: जना: सर्वकारिसंस्थाने, अर्धसर्वकारिसंस्थाने, वैयक्तिकसंस्थाने वा कार्यरता: सन्ति । एतेषु कार्यरतेषु केचन पर्यावरणं प्रदूषयन्ति अपि च केचन प्रदूषणं निवारयन्ति । यथा परिवहनकर्मचारिण: प्रदूषणकारका: भवन्ति ,औद्योगिकसंस्थासु कार्यरता: कर्मचारिण: अपि प्रदूषणस्य कारका: भवन्ति तथा पर्यावरणसंरक्षणकार्यक्रमेषु संलग्ना: कर्मचारिण: प्रदूषणनियन्त्रका: भवन्ति । अत: आवश्यकं भवति यत् सर्वविधकर्मचारिणां कृते पर्यावरणशिक्षाया: आवश्यकता वर्तते । परम् एते कर्मचारिण: औपचारिकरूपेण शिक्षाप्राप्तुं समर्था: न भवन्ति । अत: तेषां कृते समयबध्दा: पाठ्यक्रमा: सञ्चालनीया: येन ते अल्पे एव समये सम्पूर्णपर्यावरणकार्यक्रमे प्रशिक्षिता: भविष्यन्ति । यथा दशदिवसात्मक: पर्यावरणसप्ताह: कैप्शूलकोर्श इत्यादय: ।
- ३.अनौपचारिक -पर्यावरणशिक्षापाठ्यक्रम: Non-formal Environmental Education -ये जना: ग्रामेषु निवसन्ति, अशिक्षिता: सन्ति, औपचारिकशिक्षाग्रहणे असमर्था:सन्ति, तेषां कृतेऽपि शिक्षेयमावश्यकी अस्ति । यत: ग्रामिणा: जना: एव पर्यावरणसंरक्षणे सन्तुलने च अधिकतमं कार्यं कुर्वन्ति । अत: तेभ्य: पर्यावरणशिक्षाया: ज्ञानमवश्यं प्रदेयम् । यथा वैकल्पिक-ऊर्जाव्यवस्थाया: ( वायोगैस, सौर-ऊर्जा, जल-ऊर्जा ) ज्ञानं , कृषिसंरक्षणस्य ज्ञानं , पशु-सुरक्षाव्यवस्थाया: ज्ञानं , मृत्तिकासंरक्षणस्य ज्ञानं स्वच्छ-आवसस्य, स्वास्थ्यशिक्षाया:, व्याधे: , तन्निदानस्य, मद्यपाननिषेधस्य, धूम्रपाननिषेधस्य च ज्ञानम् । यत: एते सर्वे पर्यावरणस्य एव घटका: सन्ति । अनौपचारिकरूपेण इयं शिक्षा जनेभ्य:दातव्या । अस्या: साधनमपि अनौपचारिकरूपेण भवेत् । यथा दूरदर्शनमाध्यमेन, लघुनाटकमाध्यमेन, गीतमाध्यमेन, काष्ठपुत्तलिकानृत्यमाध्यमेन, लोक-गीतमाध्यमेन, जनसम्मर्दनमाध्यमेन, प्रदर्शिनीमाध्यमेन चेयं शिक्षा अशक्षितेभ्य: ग्रामीणेभ्यश्च जनेभ्य: दातव्या ।
पर्यावरणशिक्षाया: निर्देशकसिध्दान्ता:
सम्पादयतु(Guiding principles of Environmental Education)
- १. पूर्णताया: सिध्दान्त :-पर्यावरणं सदा सम्पूर्णरूपेण द्रष्टव्यम्, भवतु, तत्-प्राकृतिकं , मानवकृतं ,प्रायोगिकं ,सामागिकं वा पर्यावरणम् ।
- २. आजीवनप्रक्रिया-पर्यावरणशिक्षा आजीवनं प्रचलति । विद्यालयात् पूर्वमेवारभ्य औपचारिकानौपचारिकमाध्यमेन वाप्रचलन्तीयं शिक्षा मृत्यु-पर्यन्तं प्रचलति । अस्या:आवश्यकता जीवनस्य प्रत्येकस्मिन् क्षेत्रे भवति ।
- ३. अन्तर्विषयात्मकसिध्दान्त :-पर्यावरणशिक्षाया: प्रकार अन्तर्विषयक: भवेत् येन अन्येभ्य: विशिष्टपाठ्यविषयं संगृह्य सन्तुलितं परिदृश्यं प्रस्तुतं स्यात्।
- ४. सार्वबौमिकदृष्टिकोणात्मकसिध्दान्त:-पर्यावरणीयशिक्षया प्रमुखं पर्यावरणीयघटकं स्थानीयदृष्ट्या, क्षेत्रीयदृष्ट्या, अन्ताराष्ट्रियदृष्ट्या च परीक्षाणीयम् । अनेन जना: सर्वेषां भौगोलिक-क्षेत्रीय-पर्यावरण-परिस्थितीनामध्ययने समर्था: भवेयु: ।
- ५. सार्वकालिकताया:सिध्दान्त:-पर्यावरणशिक्षया यदा परिस्थितीनामवलोकनं क्रियते तदा प्राचीन-वर्तमान-संभावितस्थिती: अपि अवलोकनीय: , अवधेयश्च ।
- ६. सार्वत्रिकसिध्दान्त:- यदा पर्यावरणशिक्षया कश्चन विकास-कार्यक्रमस्य, वृध्दिकार्यक्रमस्य चायोजनं भवति तदा पर्या
वरणस्य सर्वे घटका: अवधेया भवेयु: ।
- ७. सहयोगिताया:सिध्दान्त:-अनया यदा समस्यासमाधानमन्विष्यते तदा राष्ट्रिय-अन्ताराष्ट्रिय-क्षेत्रीय-स्थानीयसहयोगा: स्वीकरणीया: । आवश्यकता च प्रोत्साहनीया: ।
- ८. नूतनेभ्य: अवसरप्रदानम्- यदि कश्च नूतन: जन: स्वकीयानुभवेन योजनानिर्माणं कुर्वन्ति, तर्हि तेभ्य: योग्यताप्रदानम्
- ९. संवेदनशिलताया:सिध्दान्त:-पर्यावरणीयसमस्याया: समाधानमन्वेष्टुं सर्वेभ्य: अवसर: प्रदातव्य: । परन्तु समस्यानां संवेदन-शीलतामवलोक्य, अन्वेषणकतृणाञ्च ज्ञानमवलोक्य एव अवसर: प्रदातव्य: ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- The Environmental Education Directory
- United Nations Environmental Education Programme (UNEP)
- Fourth International Conference on Environmental Education, Tbilisiplus30
- Earth Day Network Archived २०१०-०९-२३ at the Wayback Machine
- The Belgrade Charter
- The Tbilisi Declaration
- OurEarth.org College Directory Archived २०१०-०२-०७ at archive.today
- The National Environmental Education Foundation
- Council for Environmental Education (CEE)