पवनमुक्तासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः सम्पादयतु

  • पृष्ठमवलम्व्य भूमौ शयनं करोतु ।
  • हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • एकं जानु पुटीकृत्य हस्तद्वयेन दृढं गृह्णातु ।
  • पूरकेण वक्षस्स्थलं प्रति जानु आकर्षतु ।
  • मस्तकम् अल्पमुत्थाप्य नासाग्रं स्पृशतु ।
  • अपरपादं ऋजुतया भूमौ स्थापयतु ।
  • पञ्चनिमेषान् तस्यामवस्थायां तिष्ठतु ।
  • शनैः शनैः रेचकेण पादम् ऋजुकृत्य भूमौ स्थापयतु ।
  • निमेषमेकं विश्रम्य अपरजानु पूर्ववत् करोतु ।
  • ततः परं जानुद्वयमेकस्मिन् समये वक्षस्स्थलं प्रति आकर्षतु ।
  • पुनः भूमौ पादद्वयं स्थापयतु ।

लाभः सम्पादयतु

  • यकृतः पाकस्थल्याः च उपरि अस्य आसनस्य प्रभावः सम्यक् भवति ।
  • आसनमिदम् उदरस्य दोषयुक्तवायुं नाशयति ।
  • अम्लदोषं विनाश्य कटिग्रन्थिं मृदु करोति ।
  • कोष्ठकाठिन्यं , पाकस्थलीरोगाः च नश्यन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पवनमुक्तासनम्&oldid=409399" इत्यस्माद् प्रतिप्राप्तम्