पुणेमण्डलम्
पुणेमण्डलं (मराठी: पुणे जिल्हा, आङ्ग्ल: Pune District) महाराष्ट्रराज्ये पश्चिममहाराष्ट्रविभागे स्थितं मण्डलम् अस्ति । अस्य मण्डलस्यकेन्द्रम् अस्ति पुणे इत्येतन्नगरम् | छत्रपति-शिवाजी-महाराजस्य तथा तस्य मातुः जिजाऊ इत्यस्याः चरणस्पर्शेन मण्डलस्य भूमिः पवित्रा सञ्जाता । शिवाजीमहाराजस्यानन्तरम् अत्र पेशवे-आधिपत्यम् आसीत् । एवम् अस्य मण्डलस्य इतिहासः अतीव स्फूर्तिदायकः ।
पुणेमण्डलम् Pune District पुणे जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये पुणेमण्डलम् | |
देशः | India |
जिल्हा | पुणेमण्डलम् |
उपमण्डलानि | पुणे, जुन्नर, आम्बेगाव, खेड, मावळ, मुळशी, हवेली, वेल्हे, भोर, पुरन्दर, बारामती, इन्दापूर, दौण्ड, शिरूर |
विस्तारः | १५,६४३ च.कि.मी. |
जनसङ्ख्या(२०११) | ९४,२९,४०८ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://pune.nic.in |
भौगोलिकम्
सम्पादयतुपुणेमण्डलस्य विस्तारः १५,६४३ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि सोलापुरमण्डलं, पश्चिमदिशि रायगडमण्डलम्, उत्तरदिशि ठाणेमण्डलम्, अहमदनगरमण्डलं च, दक्षिणदिशि सातारामण्डलम् अस्ति । महाराष्ट्रराज्यस्य ५.१०% क्षेत्रं पुणेमण्डलेन व्यापृतम् अस्ति । पश्चिममहाराष्ट्रे सह्याद्री-आवल्याः समीपे पुणेमण्डलं त्रिविभागेषु विभक्तम् अस्ति । ते च विभागाः - ‘घाटमाथा', 'मावळ', 'देश’ इति । अस्मिन् मण्डले सामान्यतः ६५० मि.मी.मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले भीमा नदी, माण्डवी, कुकडी, मीना, घोड, इन्द्रायणी, पवना, मुळा, मुठा, कऱ्हा, नीरा इत्येताः प्रमुखनद्यः प्रवहन्ति ।
कृष्युत्पादनम्
सम्पादयतु'बाजरी', तण्डुलः, गोधूमः, चणकः, यवनालः(ज्वारी) इत्येतानि प्रमुखसस्योत्पादनानि सन्ति । तैः सह इक्षुः (बारामती-भोर-इन्दापुर-उपमण्डलेषु), द्राक्षाफलानि (बारामती-इन्दापुर-उपमण्डलेषु) अपि अत्र उत्पाद्यन्ते । ‘आम्बेमोहोर’ इति सुगन्धि-तण्डुलः भोर-उपमण्डले उत्पाद्यते, स च महाराष्ट्रे प्रसिद्धः । मावळविभागे उत्पाद्यमानः ‘इन्द्रायणी’तण्डुलः अपि आमहाराष्ट्रं प्रसिद्धः ।
जनसङ्ख्या
सम्पादयतुपुणेमण्डलस्य जनसङ्ख्या(२०११) ९४,२९,४०८ अस्ति । अस्मिन् मण्डले ४९,२४,१०५ पुरूषाः, ४५,०५,३०३ महिलाः च निवसन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते क्षेत्रे ४६१ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ४६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१९ अस्ति । अत्र साक्षरता ८६.१५% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि-
- पुणे
- जुन्नर
- आम्बेगाव
- खेड
- मावळ
- मुळशी
- हवेली
- वेल्हे
- भोर
- पुरन्दर
- बारामती
- इन्दापूर
- दौण्ड
- शिरूर
लोकजीवनम्
सम्पादयतुपश्चिममहाराष्ट्रविभागलोकजीवनम् अत्र दृश्यते ।
उद्योगक्षेत्रे एशियाखण्डस्य प्रथमा महानगरपालिका इति प्रसिद्धा पिम्परी-चिञ्चवड अस्मिन्नेव मण्डले तिष्ठति । शिरूर-जुन्नर-आम्बेगाव-वेल्हे इत्यादयः ग्रामाः अपि अस्मिन्नेव मण्डले अन्तर्भवन्ति । एवं लोकजीवने वैविध्यं दृश्यते ।
मण्डलेऽस्मिन् कृषिः, उद्यमाः, सेवाक्षेत्रं (Service sector to boost economy) च अर्थव्यवस्थादृष्ट्या महत्त्वपूर्णम् ।
पुणेनगर-परिसरे मुम्बई-पुणे-राष्ट्रियमहामार्ग-निर्माणानन्तरम् उद्योगक्षेत्रे बहुप्रगतिः जाता । अस्याः प्रगतेः प्रभावः जनानां व्यवहारे, वेशभूषायामपि दृश्यते । यद्यपि नगरेषु जनाः पाश्चिमात्यसंस्कृत्यनुसरणं कुर्वन्ति । तथापि केषुचन नगरेषु पारम्परिकता अपि द्रष्टुं लभ्यते । एतेषु पुणेनगरम् अन्यतमम् । नगरेषु गणेशोत्सवः, शिवजयन्तिः, दीपावलिः इत्येतान् उत्सवान् जनाः आचरन्ति ।
ग्रामीणजनाः कृषि-पशुपालन-व्यवसायेषु रताः । ग्रामेषु बैलपोळा, दीपावलिः, गणेशोत्सवः, शिवजयन्त्युत्सवः इत्येतान् उत्सवान् जनाः आचरन्ति । एतान् उत्सवान् विहाय जनाः देहू, आळन्दी, जेजुरी इत्यत्र याः यात्राः प्रचलन्ति, तासु अपि सहभागिनः भवन्ति ।
अस्मिन् मण्डले अनुसूचितजनजातिषु ‘महादेव कोळी/ठाकूर’-जातिः अधिका दृश्यते । तेषां विशिष्टा संस्कृतिः आम्बेगाव, मावळ, खेड, जुन्नर इत्येतेषु उपमण्डलेषु द्रष्टुम् उपलभ्यते ।
शिक्षणक्षेत्रेऽपि इदं मण्डलम् अग्रगण्यम् । ‘विद्येचे माहेरघर' अर्थात् विद्यास्रोतः इति पुणेनगरं प्रसिद्धम् । तदनुरूपं वातावरणं मण्डलेऽस्मिन् दृश्यते एव ।
वीक्षणीयस्थलानि
सम्पादयतुमण्डलेऽस्मिन् बहूनि ऐतिहासिक-धार्मिक-सांस्कृतिकदृष्ट्या महत्त्वपूर्णानि वीक्षणीयस्थलानि सन्ति ।
तीर्थस्थलानि -
- आळन्दी (सन्त-ज्ञानेश्वरस्य समाधिस्थानम्)
- देहू (सन्त तुकारामस्य ग्रामः)
- भीमाशङ्कर-मन्दिरं, खेड
- श्री-खण्डोबा-मन्दिरं, जेजुरी
ऐतिहासिकस्थलानि -
पुणेनगरे -
- शनिवारवाडा
- लाल महाल
- पर्वती
- शिन्दे छत्री, विश्रामबाग वाडा, आगाखान पॅलेस, दिनकर केळकर वस्तुसङ्ग्रहालयः
अन्यानि वीक्षणीयस्थलानि -
- खेड -उपमण्डले - चासकमान-जलबन्धः, राजगुरुनगर(हुतात्मा-राजगुरू इत्यस्य जन्मस्थानम्), भुईकोटः
- मावळ-प्रदेशे - लोणावळा, खण्डाळा, राजमाची, कार्ले-चैत्यगृहम्, भाजे-चैत्यगृहम्, भुशी-जलबन्धः
- बारामती-उपमण्डले - ‘मोरगावचा मयूरेश्वर’ गणपतिमन्दिरम्
- पुरन्दर-उपमण्डले - जेजुरी, नारायणपुर, सासवड(सन्त-सोपान-समाधिस्थानम्), लोहगड-दुर्गः
- शिरुर-उपमण्डले - तुळापुर(सम्भाजीमहाराजस्य समाधिस्थानम्)
- वेल्हे-उपमण्डले - राजगड-दुर्गः, तोरणा-दुर्गः
- आम्बेगाव-उपमण्डले - डिम्भे-जलबन्धः
- भोर-उपमण्डले - बनेश्वरमन्दिरम्
- दौण्ड-उपमण्डले - बहादुरगड, मालठण, कुरकुम्भ
- जुन्नर-उपमण्डले - शिवनेरी-दुर्गः (शिवाजीमहाराजस्य जन्मस्थानम्), ओझर-गणपतिमन्दिरम्
पुणेनगरे -
- कसबा गणपतिः, चतुःशृङ्गी इत्यस्थं मातामन्दिरं, सिंहगड-दुर्गः, खडकवासला-जलबन्धः, पानशेत-जलबन्धः, माळशेज पर्वतमार्गः, ताम्हिणी पर्वतमार्गः, भुलेश्वरमन्दिरं, सारसबाग-उद्यानम्, ओशो-उद्यानं, भाटघर-जलबन्धः, मुळशी-जलबन्धः ।
पुणेनगरस्य संस्कृतिः
सम्पादयतुपुण्यनगरं महाराष्ट्रस्य सांस्कृतिकराजधानी इति विख्यातम् अस्ति। अस्य नगरस्य संस्कृति: अत्यन्तं समृद्धा विविधाश्च अस्ति। एतत् नगरं ऐतिहासिक महत्वेन, शैक्षिक संस्थाभिः, प्रगतिशीलदृष्ट्या च प्रसिद्धम् अस्ति, यत्र परम्परा आधुनिकेन सह सम्यक् मिलति।
ऐतिहासिकं पृष्ठभूमिः
सम्पादयतुपुणेनगरस्य सांस्कृतिकं स्वरूपं अष्टादशशतके मराठासाम्राज्यस्य पेशवानां राजधानीरूपेण अस्य महत्त्वेन प्रभावितम् अस्ति। एतस्मिन् काले कलानां, साहित्यस्य, वास्तुकलायाः च उत्कर्षः अभवत्, यस्य प्रभावः नगरस्य सांस्कृतिके परिदृश्ये अद्यापि दृश्यते।
शिक्षा बौद्धिकता च
सम्पादयतुपुणेनगरं "पूर्वस्य ऑक्सफोर्ड" इति नाम्ना अपि ज्ञायते, यतः अत्र अनेकानि महाविद्यालयानि विश्वविद्यालयानि च सन्ति। एतत् शैक्षिकं वातावरणं नगरस्य अनुसन्धानस्य नवप्रवर्तनस्य च केन्द्ररूपेण ख्यातिं वर्धयति।
कलाः साहित्यं च
सम्पादयतुपुणेनगरे शास्त्रीयसङ्गीतस्य, नृत्यस्य, रङ्गमञ्चस्य च सजीवा परम्परा विद्यते। अत्र नियमितरूपेण सांस्कृतिककार्यक्रमाः उत्सवाः च आयोज्यन्ते। मराठीसाहित्यस्य मूलानि पुणेनगरे गम्भीराणि सन्ति, अनेके प्रसिद्धाः लेखकाः कवयः च अस्मात् नगरात् उद्भूताः।
उत्सवाः समारोहाः च
सम्पादयतुनगरे विविधाः उत्सवाः मनुष्यन्ते, ये अस्य जनसङ्ख्यायाः वैविध्यं प्रदर्शयन्ति। केचन प्रमुखाः उत्सवाः -
- गणेशचतुर्थी: महान् उत्सवः यत्र नगरे विशालाः गणेशप्रतिमाः स्थाप्यन्ते।
- सवाई गन्धर्वसङ्गीतोत्सवः: वार्षिकः भारतीयशास्त्रीयसङ्गीतोत्सवः।
- पुणेअन्तर्राष्ट्रीयचलच्चित्रोत्सवः: राष्ट्रीयान्तर्राष्ट्रीयचलच्चित्राणां प्रदर्शनम्।
भोजनसंस्कृतिः
सम्पादयतुपुणेनगरस्य पाकसंस्कृतिः पारम्परिकमहाराष्ट्रीयव्यञ्जनानां बहुसांस्कृतिकजनसङ्ख्यायाः विविधप्रभावाणां च मिश्रणम् अस्ति। कानिचन स्थानीयविशेषव्यञ्जनानि: -
- वडापाव: लोकप्रियं वीथिभोजनम्
- मिसलपाव: तीक्ष्णं व्यञ्जनं यत् क्वथितमसूरैः निर्मीयते
- पुणेविशिष्टशैल्याः भाकरवडी: तीक्ष्णः मधुरश्च अल्पाहारः
आधुनिकाः प्रभावाः
सम्पादयतुपारम्परिकमूलानां संरक्षणेन सह पुणेनगरम् आधुनिकसांस्कृतिकांशान् अपि स्वीकृतवत्। अत्र सूचनाप्रौद्योगिक्याः उद्योगः समृद्धः अस्ति, यः विविधान् कर्मचारिणः अन्तर्राष्ट्रीयप्रभावान् च आनीतवान्। एतेन कारणेन भोजनालयसंस्कृतेः, सूक्ष्ममद्यनिर्माणशालानां, सजीवरात्रिजीवनस्य च वृद्धिः जाता।
क्रीडाः
सम्पादयतुभारतस्य अधिकांशभागवत् पुणेनगरे अपि क्रिकेट् अतीव लोकप्रियः। नगरे बैडमिण्टन् टेनिस् इत्येतयोः अपि दृढा परम्परा अस्ति, अनेके राष्ट्रीयस्तरीयाः क्रीडकाः अत्र उत्पन्नाः।
स्मारकानि वास्तुकला च
सम्पादयतुपुणेनगरस्य वास्तुकला अस्य ऐतिहासिकं सांस्कृतिकं च यात्रां प्रतिबिम्बयति। केचन प्रसिद्धाः स्थलानि: -
- शनिवारवाडा: पेशवाशासकानां ऐतिहासिकं निवासस्थानम्
- आगाखानप्रासादः: भारतस्य स्वातन्त्र्यसङ्ग्रामस्य महत्त्वपूर्णं स्थलम्
- ओशोअन्तर्राष्ट्रीयध्यानकेन्द्रम्: आध्यात्मिकं केन्द्रं यत् विश्वस्य सर्वेभ्यः भागेभ्यः आगतान् दर्शकान् आकर्षति
ऐतिहासिकमहत्त्वस्य, शैक्षिकप्रसिद्धेः, कलात्मकसमृद्धेः, आधुनिकविकासस्य च एतत् मिश्रणं पुणेनगरस्य संस्कृतिं विशिष्टां सजीवां च करोति।