डॉ. प्यारासिंह गिल ( /ˈpjɑːrɑːsɪnhə ɡɪlə/) (हिन्दी: पियारा सिहं गिल, आङ्ग्ल: Piara Singh Gill) इत्येषः प्रख्यातः भौतिकविद् [२]। ब्रह्माण्डकिरणानाम् (Cosmic Ray) अनुसन्धाने अग्रणीः सः १९५१ तः १९६३ पर्यन्तं गुलमर्ग-अनुसन्धान-वेधशालायाः निदेशकपदं व्यभूषयत् । ततः १९६३ तः १९७१ पर्यन्तं केन्द्रियवैज्ञानिकोपकरणसङ्घटनस्य (चण्डीगढ) निदेशकत्वेन उत्तरदायित्वम् अवहत् । मॅनहॅटन्-प्रकल्पे अपि तस्य महत्त्वपूर्णं योगदानम् आसीत् ।

प्यारासिंह गिल
Piara Singh Gill
पियारा सिंह गिल
जननम् 28 1911(1911-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-28)
चेला, होशियारपुरमण्डलं,
पञ्जाब
मरणम् 23 2002(2002 -  वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम � - 23) (वयः 90) 
वासस्थानम् भारतम्
देशीयता भारतीयः
कार्यक्षेत्राणि परमाणुभोतिकी
संस्थाः टाटा इन्सिट्युट् ऑफ् फण्डामेन्टल् रिसर्च्,
एटोमिक् एजन्सि कमिशन् ऑफ् इण्डिया,
अलिगढमुस्लिमविश्वविद्यालयः,
पञ्जाबकृषिविश्वविद्यालयः,
शिकागो-विश्वविद्यालयः,
केन्द्रियवैज्ञानिकोपरणसङ्घटनस्य प्रप्रथमः अध्यक्षः (चण्डीगढ) (CSIO)[१]
मातृसंस्थाः युनिवर्सिटि ऑफ् साउथन् केलिफोर्निया,
युनिवर्सिटि ऑफ् शिकागो
संशोधनमार्गदर्शी आर्थर कॉम्पटन
विषयेषु प्रसिद्धः अत्याधुनिकपरमाणुब्रह्माण्डकिरणस्य संशोधकः । केन्द्रियवैज्ञानिकोपरणसङ्घटनस्य प्रप्रथमः अध्यभः, वैज्ञानिकश्च ।
पतिः/पत्नी चम्बेली
धर्मः सिखमतम्
विशेषम्
ब्रह्माण्डकिरणानां संशोधकः

अन्तर्विषयाः

जन्म, परिवारश्चसम्पाद्यताम्

१९११ तमस्य वर्षस्य अक्तूबर-मासस्य अष्टाविंशतितमे (२८/१०/१९११) दिनाङ्के पञ्जाबराज्यस्य होशियारपुरमण्डलान्तर्गते चेला-नामके ग्रामे प्यारासिंहस्य जन्म अभवत् । प्यारासिंहस्य जन्म सम्पन्ने जाट-सिख-परिवारे अभवत् । तस्य पिता बसन्तसिंहः, माता प्रतापकौर च । प्यारासिंहस्य पत्न्याः नाम चम्बेली आसीत् । तयोः द्वे पुत्र्यौ आस्ताम् । तयोः नाम क्रमेण निशथा, सुरिशथा च ।

शिक्षणं, क्रन्तिप्रभावश्चसम्पाद्यताम्

प्यारासिंहस्य प्राथिमकं शिक्षणं चेला-ग्रामात् ३ माइल् दूरे स्थितस्य कोट-फतूही-नामकस्य ग्रामस्य शालायाम् आरब्धम् । ततः माध्यमिकशिक्षणं (६-९) नादेलोन-ग्रामस्य 'आर् डी' उच्चमाध्यमिकशालायां पूर्णम् अकरोत् । माहिलपुरस्य खालसा-उच्चमाध्यमिकशालायाः मैट्रिक्यूलेशन् इत्यस्यां कक्षायां सः उत्तीर्णः अभवत् ।

युवावस्थायाः प्रारम्भादेव सः क्रान्तिकारित्वेन देशसेवाम् आरभत । यतो हि तस्य अग्रजः हरिसिंहः (सः खान्दा इति प्रसिद्धः) राष्ट्रियान्दोलने सक्रियः क्रान्तिकारी आसीत् । हरिसिंहः बब्बर-अकाली-आन्दोलनस्य सदस्यः आसीत् । १९२० पर्यन्तं तदान्दोलनम् आभारतं व्याप्तम् आसीत् । आन्दोलनकारिणः यदा चेला-ग्रामं गच्छन्ति स्म, तदा प्यारासिंहोऽपि बब्बर-अकाली-आन्दोलनस्य क्रान्तिकारिणां सहवासं प्राप्नोति स्म ।

अकस्मात् एकस्मिन् दिने प्रातः आपञ्जाबराज्यं शतं क्रान्तिकारिणः आङ्ग्लारक्षकैः बन्दिनः कृताः । तेषु क्रान्तिकारिषु हरिसिंहः अपि अन्यतमः । ततः लाहोरकेन्द्रियकारागारे तेषां क्रान्तिकारिणाम् अभियोगः आरब्धः । प्यारासिंहोऽपि कालान्तरे तस्य अभियोगस्य साक्षी अभवत् । तस्मिन् काले सः बब्बर-अकाली-आन्दोलनस्य अन्यसदस्यानाम् अपि सान्निध्यम् आहरति । आन्दोलनकारिणां न्यायालये निर्भीकम् आचरणं दृष्ट्वा प्यारासिंहः प्रभावितः अभवत् । अभियोगानन्तरं सोऽपि आन्दोलनकारिभिः सह विभिन्नेषु विषयेषु चर्चां करोति स्म । तेषां वीराणां सम्पर्कप्रभावेण प्यारासिंहस्य मनसि स्वतन्त्रतायाः बीजानि उप्तानि । तस्मिन् काले एव प्यारासिंहेन भारतस्वतन्त्रतायै स्वतन्त्रदेशं गत्वा विद्याभ्यासस्य सङ्कल्पः कृतः ।

उच्चशिक्षणं, ब्रह्माण्डकिरणक्षेत्रे विशेषज्ञता चसम्पाद्यताम्

१९२८ तमे वर्षे उच्चत्तरमाध्यमिककक्षायाः अभ्यासं समाप्य उच्चशिक्षणाय प्यारासिंहः संयुक्तराज्यामेरिका-देशाय यात्रां प्रारभत । अमेरिका-देशं प्राप्तुं सः पनामा-देशम् अगच्छत् । तस्मिन् काले अमेरिका-पनामा-देशयोः पर्यटनाधिपत्रं (visa) सारल्येन न प्राप्यते स्म । परन्तु पितुः मित्रस्य साहाय्येन प्यारासिंहः पनामा-तः अमेरिका-देशं प्राप्तुं सफलः अभवत् । अध्यनाय धनम् एकत्र कर्तुम् अमेरिका-देशं प्राप्य प्यारासिंहः एकवर्षं यावत् वृत्त्युपार्जनम् अकरोत् । ततः वर्कले-आख्ये स्थाने विद्यमानं कैलिफोर्निया-विश्वविद्यालयं सः प्राविशत् । १९३० तमे वर्षे प्यारासिंहः फ्रान्सिस्को-नगरं प्रापत् । यतो हि भारतदेशे भारतीयेभ्यः स्थितिः अवमूल्यनात्मिका आसीत्, अतः प्यारासिंहस्य आर्थिकसहायतां कर्तुम् अपि परिवारस्य जनाः सक्षमाः नासन् । ततः तेन साक्रामेण्टो इत्यस्मात् स्थलात् ५० माइल् उत्तरदिग्भागे स्थिते लूमिस-नामके एकस्मिन् लघुपत्तने धनोपार्जनम् आरभ्यत । षण्मासान् यावत् स्वगणितं परिशीलयितुम् अपि सः प्रयत्नरतः आसीत् । अतः रूजवेल्ट-महाविद्यालये गणितं पठति स्म सः । १९३१ तमे वर्षे सः साक्रोमेण्टो-जूनियर-कॉलेज् मध्ये प्रथमवर्षस्य छात्रत्वेन युक्तः । तस्मिन् महाविद्यालये सः वर्षद्वयम् अपठत् । सः तयोः वर्षयोः भौतिकशास्त्रं, रसायनशास्त्रं, गणितम् इत्यादिविषयान् अपठत् । तदा तस्मिन् जूनियर-कॉलेज-मध्ये अध्येतुं शिक्षणशुल्कस्य प्रावधानं नासीत् । परन्तु निवास-भोजन-वस्तूनां निर्वहणाय प्यारासिंहः महाविद्यालये, महाविद्यालयस्य समीपे च कार्यं करोति स्म ।

साक्रोमेंटो-जूनियर-कॉलेज् मध्ये प्यारासिंहस्य परिचयः डॉ. सैयद हुसैन इत्यनेन सह अभवत् । डॉ. सैयद हुसैन इत्येषः तस्मिन् विद्यालये भाषणं कर्तुम् उपस्थितः आसत् । यतो हि सः भारतीयः आसीत्, अतः सर्वेऽपि भारतीयविद्यार्थिनः तस्मै अधिकं सम्माननं प्रयच्छन्ति स्म । प्रप्रथमे परिचये एव डॉ. सैयद हुसैन इत्येषः प्यारासिंहेन सह आत्मीयताम् अन्वभत् । अतः सः प्यारासिंहस्य बहुधा मार्गदर्शनम् अकरोत् । (तस्मात् कालात् १९४९ मध्ये डॉ सैयद हुसैन इत्यस्य मृत्युपर्यन्तं तयोः सम्पर्कः अविरतः आसीत् । डॉ. सैयद हुसैन इत्येषः कैलिफोर्निया-विश्वविद्यालये इतिहासस्य अध्यापकः अपि आसीत् ।)

ततः स्वाध्ययनबलेन, स्वयोग्यव्यवहारेण च प्यारासिंहः लॉस् ऐंजिल्स् इत्याख्ये स्थाने पठितुं छात्रवृत्तिम् आर्जयत् । ततः सः अमेरिकादेशस्य युनिवर्सिटि ऑफ् साउथन् कैलिफोर्निया-विश्वविद्यालयस्य लब्धछात्रवृत्तिः विद्यार्थी अभवत् । १९३३ तमे वर्षे प्यारासिंहः लॉस् ऐंजिल्स् अगच्छत् । तत्र सः विश्वविद्यालये अध्ययनरतः अभवत् । तस्य रुचिः गणित-भौतिकशास्त्रयोः आसीत् । १९३५ तमे वर्षे प्यारासिंहः भौतिकशास्त्रे विशेषयोग्यतया (Distinction) सह सः स्नातकोत्तीर्णः अभवत् । विशेषयोग्यतायाः कारणेन सः पुनः तस्मिन्नेव विश्वविद्यालये छात्रवृत्तिं प्राप्य स्नातकोत्तरपदव्यै अध्ययनम् अकरोत् । १९३६ तमे वर्षे भौतिकशास्त्राधिस्नातकोपाधिं सः अलभत ।

एम् एस् सी इत्यस्यां कक्षायाम् उत्तीर्णस्य प्यारासिंहस्य सम्मुखे यद्यपि कैलिफोर्निया-विश्वविद्यालयपक्षतः लॉस् ऐंजिल्स् मध्ये किरणविज्ञानस्य कार्यं कर्तुं फैलोशिप्-प्रस्तावः आसीत्, तथापि सः भौतिकशास्त्रे अधिकं ज्ञानम् अर्जयितुं कस्मिँश्चित् प्रख्याते विश्वविद्यालये अध्ययनाय निर्णयं स्व्यकरोत् । ततः १९३६ तमे वर्षे सः शिकागो-विश्वविद्यालयं प्राविशत् । तत्र नॉबल्-पुरस्कारविजेतुः प्रो. आर्थर् एच् कॉम्पटन् इत्यस्य मार्गदर्शने १९३६ तः १९४० पर्यन्तं संशोधनम् अकरोत् । संशोधनोत्तरं प्यारासिंहः विद्यावारिधिपदवीम् (पी एच् डी) अलभत ।

यस्मिन् काले डॉ. प्यारासिंहः प्रो. कॉम्पटन् इत्यस्य मार्गदर्शने संशोधनं करोति स्म, तस्मिन् काले प्यारासिंहः शिकागो-अन्ताराष्ट्रिय-भवने निवसति स्म । तत्र निवासाय प्यारासिंहः छात्रवृत्तिम् अपि प्राप्नोति स्म । तां छात्रवृत्तिम् अतिरिच्य डॉ. प्यारासिंहः इतरछात्रवृत्तिम् अपि प्राप्नोति स्म । डॉ. प्यारासिंहाय ताम् अपरां छात्रवृत्तिं 'जनरल् इलेक्ट्रिक्'-संस्था यच्छति स्म । तस्यै छात्रवृत्त्यै तां संस्थाम् आग्रहं प्रो. कॉम्पटन् इत्येषः अकरोत् । शिकागो-प्रयोगशालायां डॉ. प्यारासिंहः यदा संशोध्यमानः आसीत्, तदा ब्रह्माण्डकिरणविषये संशोधनकर्तारः अन्ये अनेके वैज्ञानिकाः, छात्राः, संशोधकाः च शिकागो-प्रयोगशालां गच्छन्ति स्म । डॉ. प्यारासिंहः सर्वैः संशोधनकैस्सह सम्पृक्तः अभवत् । डॉ. प्यारासिंहः जानाति स्म यत्, ब्रह्माण्डकिरणक्षेत्रे केन वैज्ञानिकेन, छात्रेण च किं संशोधनं कृतम् अस्ति इति । सः सर्वेषां संशोधकानां यथोचित् सहायकः अभवत् ।

१९३८ तमे वर्षे शिकागो-विश्वविद्यालये ब्रह्माण्डकिरणविषयाधारिते अन्ताराष्ट्रियपरिसंवादसम्मेलने डॉ. प्यारासिंहः मुख्यभागम् अवहत् । प्रो. मार्केल् स्कीन् (Marce Schein) इत्यनेन सह ब्रह्माण्डकिरणानां सामयिकविभिन्नता (Time Variations of Cosmic Rays), ब्रह्माण्डकिरणानां परिमापविभाजनं (Size Distribution of Cosmic Rays) इत्येतयोः विषयोः डॉ. प्यारासिंहस्य अध्यनस्यापि आविश्वं प्रसिद्धिः अभवत् । डॉ. प्यासिंहस्य कार्याणि वृत्तं, मेसन्स् (The Mesons) इत्ययोः विषयोः विनिश्चयस्य मार्गं प्रादर्शयन् । एवं ब्रह्माण्डकिरणक्षेत्रे डॉ. प्यारासिंहः विशेषज्ञताम् (Specialization) अभजत् ।

यस्मिन् वर्षे डॉ. प्यारासिंहः विद्यावाचस्पतिः अभवत्, तस्मिन्नेव वर्षे प्रो. कॉम्पटन् इत्येषः शिकागो-विश्वविद्यालये धातुशोधनप्रयोगशालायाः निर्माणकार्ये रतः आसीत् [३]। १९४२ तमे वर्षे तस्यां प्रयोगशालायां प्रो. फेरमी इत्यनेन स्वप्रथमप्रयोगस्य प्रदर्शनं कृतम् । प्रो. कॉम्पटन् इत्यस्य इच्छा आसीत् यत्, युवा डॉ. प्यारासिंहः अपि तस्यां प्रयोगशालायां संशोधनं कुर्यात् इति । परन्तु तस्मिन् काले द्वितीयविश्वयुद्धं प्रचलति स्म । भारतस्य स्थितिः अपि दारुणा आसीत् । अतः डॉ. प्यारासिंहः भारतं गन्तुं सज्जः अभवत् । परन्तु स्नेहवशात् प्रो. कोम्पटन् इत्येषः युद्धमये वातावरणे भारतम् अगत्वा अत्रैव संशोधनं कुरु इति पौनःपुन्येन अवदत् । प्रो. कॉम्पटन् इत्यस्य कथनम् आसीत् यत्, युद्धकाले भारतस्य स्थितिः संशोधनानुगुणा न स्यात् तथा च अमेरिका-देशे ब्रह्माण्डसंशोधनक्षेत्रे अधिकाः अवसराः अपि सन्ति इति । यद्यपि सः प्रो. कोम्पटन् इत्यस्य सम्माननं करोति स्म, तथापि तेन भारतं प्रति गन्तुं निश्चयः कृतः ।

भारते संशोधनस्य आरम्भःसम्पाद्यताम्

अमेरिकादेशे अधिकावसरणां त्यागं कृत्वा युद्धस्थितौ भारतं प्राप्तः डॉ. प्यारासिंहः यस्मिन् दिने भारतप्रवेशम् अकरोत्, तस्मिन् दिने एव सः जवाहरलाल नेहरू इत्यस्य सम्पर्कम् अकरोत् । लाहौर-नगरे पण्डितेन सह डॉ. प्यारासिंहस्य प्रप्रथमपरिचयोत्तरं पत्रव्यवहारमाध्यमेन अपि तयोः चर्चाः भवन्ति स्म । पण्डितस्य परामर्शः आसीत् यत्, भवान् (डॉ. प्यारासिंहः) स्वसंशोधनकार्यम् अविरतं करोतु, तेनैव भारतस्य उचितं साहाय्यं भविष्यतीति । ततः डॉ. प्यारासिंहः लाहोर-नगरस्य क्रिश्च्यन्-महाविद्यालये लघ्व्याः प्रयोगशालायाः स्थापनाम् अकरोत् । तस्मिन् महाविद्यायलये सः भौतिकशास्त्रस्य व्याख्याता आसीत् । स्वल्पे वेतने लाहौर-नगरस्य प्रयोगशालायां कार्यरतः डॉ. प्यारासिंहः कठिनपरिश्रमेण संशोधनकार्यं करोति स्म । उचितसाधनानाम् अभावः, समयव्ययः च तस्य संशोधनस्य कृते काठिन्यम् अवर्धत । बहुभिः विघ्नैः क्लान्तः डॉ. प्यारासिंहः अन्ततो गत्वा सफलः अभवत् । तस्य संशोधनानाम् विश्वस्य अनेकैः विद्वद्भिः समर्थनम् अपि कृतम् ।

हिरोशिमा-नगरे यः अणुगोलकस्य प्रहारः अभवत्, तेन सम्पूर्णं विश्वं स्तब्धम् अभवत् । ततः एकदा पण्डितः लाहोर-नगरस्य प्रवासे आसीत् । सः डॉ. प्यारासिंहस्य प्रयोगशालाम् अपि अगच्छत् । प्रयोगशालायाः निरीक्षणानन्तरं सायङ्काले तौ चमनलाल इत्यस्य भोजनसमारम्भे अपि उपस्थितौ आस्ताम् । तत्र तयोः गभीरा, दीर्घा च चर्चा अभवत् । तस्यां चर्चायां डॉ. प्यारासिंहः पण्डितम् आश्वस्तम् अकरोत् यत्, सोवियत-सङ्घे तकनीकविकासेन, वैज्ञानिकज्ञानेन च त्रिचतुर्वर्षेषु वयमपि अणुस्फोटकनिर्माणाय सक्षमाः भविष्यामः इति ।

विवाहःसम्पाद्यताम्

१९४२ तमस्य वर्षस्य फरवरी-मासस्य सप्तदशे (१७/२/१९४२) दिनाङ्के डॉ. प्यारासिंहस्य विवाहः हुकमसिंहस्य पुत्र्या चम्बेली-आख्यया कन्यया सह अभवत् । सा इङ्गलैण्ड-देशस्य कैम्ब्रिज्-विश्वविद्यालये शिक्षणक्षेत्रस्य अध्ययनम् अकरोत् । तयोः द्वे पुत्र्यौ आस्ताम् ।

भारते ब्रह्माण्डकिरणक्षेत्रे संशोधनम्सम्पाद्यताम्

१९४५ तमे वर्षे डॉ. प्यारासिंहः लाहौल-आख्ये स्थले कस्याञ्चित् यात्रायां भागम् अवहत् । तस्यां यात्रायां सः कस्यचित् दलस्यापि नेतृत्वम् अकरोत् । तस्यां यात्रायां सः ब्रह्माण्डकिरणैः मेसन्स् इत्यस्य उत्पादनस्य अध्ययनम् अकरोत् । तदध्ययनं भारतीयवायुसेनायाः विमानेन अभवत् । तद्विमानं प्रो. मेघनाद सहा-महोदयस्य अनुशंसया (recommendation) डॉ. प्यारासिंहः आधत्ते स्म । मेघनाद-महोदयः डॉ. प्यारासिंहस्य संशोधने विश्वस्तः आसीत्, अतः तेन सर्वकाराय अनुशंसा कृता आसीत् । तस्मिन् अध्ययने विमानं यावच्छक्यं तावत् उन्नतं चालनीयम् आसीत् । मोस्क्यूटो इत्याख्येन विमानेन मासत्रयं यावत् लाहोर-अमृतसर-महानगरयोः त्रिंशत् सहस्रात्मके औन्नत्ये वायुप्रवासः कृतः ।

१९४६ तमे वर्षे भारतसर्वकारः निखिलभारतात् षड् वैज्ञानिकान् अमेरिका-देशं गत्वा विभिन्नासु वैज्ञानिकप्रयोगशालासु संशोधनं कर्तुम् अचिनोत् । तेषु षट्षु डॉ. प्यारासिंहोऽपि अन्यतमः । अतः डॉ. प्यारासिंहः अमेरिका-देशं गन्तुं निश्चयम् अकरोत् । तत्र सः स्वमित्रेण, सहकर्मिणा च सह शिकागो-विश्वविद्यालयस्य प्रयोगशालायां वास्तविकवैज्ञानिकसंशोधनम् अकरोत् । तस्मिन् सशोधने डॉ. प्यारासिंहेन सह प्रो. मार्केल् स्कीन् इत्येषः अपि आसीत् । अमेरिका-देशस्य जलसेनायाः ‘सुपर् फोर्टेस् बी-२९’-विमानं डॉ. प्यारासिंहस्य संशोधनमाध्यमम् आसीत् । तस्मात् संशोधनात् तद्विमानं द्विचत्वारिंशत् चरणमिते औन्नत्ये उदडीयत् इति व्यज्ञायत । तस्मिन् काले विश्वे तावदौन्नत्यम् एतद्विमानोड्डयनस्य सर्वाधिकौन्नत्यम् आसीत् । तस्मिन् अध्ययने इन्नयोकर्न, कैलिफोर्निया, मध्य-अमेरिका, दक्षिण-अमेरिका इत्यादिषु स्थलेषु विमानोड्डयनस्य परीक्षणम् अभवत् । अमेरिकादेशे स्वसंशोधनकार्यं समाप्य डॉ. प्यारासिंहः १९४७ तमे वर्षे भारतं प्रत्यागच्छत् । परन्तु तस्य हर्षस्योपरि कुठाराघातः तदा अभवत्, यदा लाहौर-नगरं प्राप्य तेन ज्ञातं यत्, भारतं स्वतन्त्रं तु अभवत्, परन्तु देशस्य विभाजनं भविष्यति इति ।

लाहोर-नगरे प्रयोगशालायाः स्थापना यथा लघुकार्यं नासीत्, तथैव प्रयोगशालायाः स्थानान्तरणम् अपि लघुकार्यं नासीत् । डॉ. सैयद हुसैन, जवाहरलाल इत्येतयोः महानुभावयोः परामर्शेण, साहाय्येन च डॉ. प्यारासिंहः भारतं प्रापत् । यतो हि सः भारतविभाजनस्य निर्णयात् प्रागेव भारते आसीत्, अतः अधिकाः समस्याः नाभूवन् । १९४७ तमस्य वर्षस्य जुलाई-मासस्य त्रयोविंशतितमे (२३) दिनाङ्के लाहोर-नगरं त्यक्त्वा सः मुम्बई-नगरम् अगच्छत् ।

स्वातन्त्र्योत्तरं डॉ. प्यारासिंहःसम्पाद्यताम्

मुम्बई-महानगरं प्राप्य डॉ. प्यारासिंहः ‘टाटा इंस्टीट्यूट् ऑफ् फंडामेंडल रिसर्च’ इत्याख्यायां संस्थायां भौतिकशास्त्रस्य प्राध्यापकत्वेन दायित्वं स्व्यकरोत् । तस्मिन् काले डॉ. होमी जहाँगीर भाभा इत्यनेन सह तस्य नैकट्यम् अवर्धत । तौ उभावपि स्वाध्ययनक्षेत्रे प्रसिद्धौ आस्ताम् । प्रथमः प्रयोगात्मकभौतिक्याम्, अपरश्च सैद्धान्तिकभौतिक्यां विशेषज्ञः आसीत् ।

१९४८ तमे वर्षे डॉ. प्यारासिंहः वॉशिंग्टन-नगरे स्थितया कोर्नेगी इत्यनया संस्थया आमन्त्रितः । सा संस्था ब्रह्माण्डकिरणस्य सौरतापीयप्रभाव-विषयस्य विशेषसमस्यायाः संशोधनं कारयितुम् इच्छति स्म । सा संस्था प्रो. एम् एस् वलार्टा, डॉ. एस् ई फोरबुश इत्येताभ्याम् अपि आमन्त्रणम् अयच्छत् । ततः १९४८ तमस्य वर्षस्य जूनमासे डॉ. प्यारासिंहः ‘कैलिफोर्निया इस्टीट्यूट् ऑफ् टैक्नोलॉजी’ इत्याख्यायां संस्थायां प्रो. आर् ए मिलिकान् इत्यस्य अशीतितमस्य जन्मदिवसावसरस्य समारोहे उपस्थितः । तस्य समारोहस्य भागत्वेन कस्याश्चित् परिसंवादशालायाः अपि आयोजनम् आसीत् । डॉ. प्यारासिंहः तस्यां परिसंवादशालायाम् अपि भागम् अवहत् ।

काँश्चन मासान् डॉ. प्यारासिंहः विदेशे यापयित्वा भारतं प्रत्यागच्छत् । भारतं प्रत्यागत्य तस्य मनसि इच्छा अभवत् यत्, अहम् उत्तरभारते कुत्रचित् निवसामि इति । अतः तेन उत्तरभारतं गन्तुं प्रयासाः आरब्धाः । ततः प्रधानमन्त्री डॉ. प्यारासिंहम् अणुशक्त्यायोगस्य विशेषाधिकारित्वेन न्ययुङ्क्त । यतो हि देहल्यां प्रयोगशाला नासीत्, अतः डॉ. प्यारासिंहः कस्मिँश्चित् विश्वविद्यालये प्रयोगात्मकभौतिकविज्ञानस्य प्राध्यापकत्वेन कार्यं कर्तुम् ऐच्छत् । तस्मिन् काले अलीगढ-विश्वविद्यालयस्य कुलपतिः डॉ. जाकिर हुसैन आसीत् । सः डॉ. प्यारासिंहाय अलीगढ-मुस्लिम्-विश्वविद्यालये पाठयितुम् आमन्त्रणम् अयच्छत् । डॉ. प्यारासिंहः अलीगढ-विश्वविद्यालये यदा नियुक्तः अभवत्, तस्मात् पूर्वं षण्मासान् यावत् सः वॉशिंग्टन-नगरे राष्ट्रियमानकविभागे (National Bureau of Standards) परामर्शकत्वेन नियुक्तः आसीत् । राष्ट्रियमानकविभागे सः बीजभौतिकीविषयस्य (Nuclear Physics) परामर्शदाता (Adviser) आसीत् । यदा सः वॉशिंगटन-नगरे आसीत्, तदा सः डॉ. जाकिर हुसैन इत्यस्य आग्रहेण अलीगठ-विश्वविद्यालये पाठयितुं निश्चयम् अकरोत् । ततः भारतं प्रत्यागत्य १९४९ तमस्य वर्षस्य सितम्बरमासस्य प्रथमे (१) दिनाङ्के डॉ. प्यारासिंहः अलीगढ-मुस्लिम्-विश्वविद्यालयस्य भौतिकविभागाध्यक्षत्वेन पदभारम् अगृह्णात् ।

अलीगढ-विश्वविद्यालयेसम्पाद्यताम्

१९४९ तः १९६३ पर्यन्तं डॉ. प्यारासिंहः भौतिकविभागाध्यक्षत्वेन अलीगढ-विश्वविद्यालये एव कार्यरतः आसीत् । सः भौतिकविभागस्य आधुनिकीकरणम् अकरोत् । उत्तमान् छात्रान् अन्विष्य सः स्वविभागे तान् छात्रान् सक्रियान् अकरोत् । तस्य प्रयत्नः सर्वोत्तमविद्यार्थिनां निर्माणस्य आसीत् । १९५० तमे वर्षे 'अमेरिकन फिलॉसॉफिकल् सोसाइटी' इत्येषा संस्था डॉ. प्यारासिंहम् आमन्त्रयत् । तस्याः संस्थायाः इच्छा आसीत् यत्, 'बार्टोल् रिसर्च फाउण्डेशन्' इत्यस्य निदेशकस्य डॉ एफ डब्ल्यू जी स्वान् इत्यस्य सहायकत्वेन डॉ. प्यारासिंहः कार्यं कुर्यात् इति । अतः क्रमशः स्वार्थमोर, पेनिसल्वेनिया, अलीगढ, गुलमर्ग इत्येतेषु स्थानेषु डॉ. प्यारासिंहः स्वप्रयोगस्य योजनाम् अकरोत् ।

१९५१ तमे वर्षे डॉ. प्यारासिंहः गुलमर्ग-नगरे उच्चलम्बत्वप्रयोशालाम् (High Altitude Laboratory) अस्थापयत् । ब्रह्माण्डकिरणेषु उच्चलम्बत्वं भवति, तस्य प्रयोगः तस्यां प्रयोगशालायां भवति स्म । अलीगढ-विश्विद्यालयस्य प्रगोशालायां १९५० तः १९५३ पर्यन्तं, १९५६ तः १९५८ पर्यन्तञ्च षट्वर्षाणि अधिष्ठातृत्वेन (Dean) कार्यम् अकरोत् । डॉ. प्यारासिंहः उत्तरप्रदेशराज्यस्य विश्वविद्यालयानुदानसमितेः अपि सदस्यः आसीत् । सः लखनऊ, बनारस, इलाहाबाद इत्येतेषु विद्यालयेषु अपि पाठ्यक्रमण्डलसमितेः सदस्यः आसीत् । १९५७-१९५८ मध्ये अलीगढ-विश्वविद्यालस्य भौतिकविभागः निखिले भारते प्रायोगिकभौतिक्याः सर्वोत्तमविभागत्वेन प्रथितः आसीत् । गुलमर्ग-अलीगढ-स्थानयोः स्थितयोः प्रगोगशालयोः अनेके विद्यार्थिनः डॉ. प्यारासिंहस्य मार्गदर्शने “विद्यावाचस्पतिः” इत्युपाधिम् अलभन्त ।

१९६१ तमे वर्षे जर्मन-जनवादिगणतन्त्रस्य विज्ञान-अकादमी-बर्लिन्-संस्थया डॉ. प्यारासिंहः निरीक्षकत्वेन आहूतः । तस्याः संस्थायाः आवश्यकतानुगुणं सः जर्मनी-देशं गत्वा विभिन्नानां संस्थानां, विश्वविद्यालयानां च निरीक्षणम् अकरोत् । परन्तु तत्र सः केवलम् एकमासं यावदेव कार्यम् अकरोत् । ततः कानिचन दिनानि सोवितसङ्घस्य कृते कार्यं कृत्वा तस्मिन्नेव वर्षे सः अमेरिका-देशम् अगच्छत् । यतो हि डॉ. प्यारासिंहं वॉशिंगटन-स्टेट्-विश्वविद्यालयः निषेवकव्याख्यातृत्वेन (visiting lecturer) कार्यं कर्तुम् आह्वयत् । अतः १९६२-१९६३ शैक्षणिकवर्षं सः वॉशिंगटन-नगरे यापयत् ।

विभिन्नासु संस्थासु प्रयोगाःसम्पाद्यताम्

१९६२ तमे वर्षे चीन-देशः भारतस्योपरि आक्रमणम् अकरोत् । तस्मिन् समये केन्द्रियवैज्ञानिकयान्त्रिकसङ्घटनस्य निदेशकपदं रिक्तम् आसीत् । यतो हि वैज्ञानिकी-औद्योगिकी-अनुसन्धान-परिषदः अध्यक्षः प्रधानमन्त्री भवति, अतः सः निदेशकस्य पदाय निखिलात् भारतात् प्रख्यातवैज्ञानिकान् आह्वातुं शक्नोति । एवं प्रधानमन्त्रिणा आहूतः डॉ. प्यारासिंहः केन्द्रियवैज्ञानिकयान्त्रिकसङ्घटनस्य निदेशपदम् अङ्ग्यकरोत् । यद्यपि डॉ. प्यारासिंहः कस्यचित् विश्वविद्यालयस्य सदस्यः आसीत्, तथापि प्रधानमन्त्रिणः आग्रहेण देशसेवायै सः तत् पदं स्व्यकरोत् । १९६३ तमस्य वर्षस्य सितम्बरमासस्य द्वितीये (२/९/१९६३) दिनाङ्के सः केन्द्रियवैज्ञानिकयान्त्रिकसङ्घटनस्य निदेशपदे आरूढः ।

मध्ये वॉशिंगटन-स्टेट-विश्विवद्यालये कृतस्य कार्यस्य आधारेण वॉशिंगटन-स्टेट-विश्वविद्यालयस्य प्रशासकाः डॉ. प्यारासिंहं स्थायिवृत्तित्वेन भौतिकीविषयस्य प्राध्यापकत्वेन पदं दातुम् इच्छति स्म । परन्तु सः विश्वविद्यालस्य प्रसाशनस्य प्रस्तावं निराकृत्य भारतं प्रति गन्तुं निश्चयम् अकरोत् सः । यदा वॉशिंगटन-नगरात् डॉ. प्यारासिंहः भारतं प्रति गन्तुम् उद्युक्तः आसीत्, तदैव अमेरिका-देशे अष्टादशविश्वविद्यालयैः सञ्चालितात् राष्ट्रियपर्यावरणीयानुसन्धानकेन्द्रात् सः किञ्चित् पत्रं प्रापत् । तस्मिन् पत्रे उल्लिखितम् आसीत् यत्, भवान् प्रतिवर्षं मासत्रयम् अमेरिका-देशस्य कोलोराडो-राज्यस्य बोल्डर-महानगरे स्थिते राष्ट्रियपर्यावरणीयानुसन्धानकेन्द्रे प्रयोगं करोतु इति । १९६३-१९६४ मध्ये मासत्रयं सः तस्मिन् अनुसन्धानकेन्द्रे यापयत् । १९६५ तमे वर्षे भारत-पाकिस्थानयोः युद्धत्वात् सः तत्र गन्तुं न शक्तवान् ।

अमेरिका-देशे मासत्रयं संशोधनं कुर्वन् डॉ. प्यारासिंहः केन्द्रियवैज्ञानिकयान्त्रिकसङ्घटने अपि स्वदायित्वं बहुधा वहति स्म । तस्य मार्गदर्शने चण्डीगढ-महानगरे अनेकासां प्रयोगशालानां, कार्यशालानां च स्थापना अभूत् । केन्द्रियवैज्ञानिकयान्त्रिकसङ्घटनस्य यान्त्रिकोद्योगस्य विकासाय ताः शालाः मूलस्तम्भायमानाः आसन् ।

पदारूढःसम्पाद्यताम्

  • रिसर्च फेलो, १९४०-१९४१ शिकागो-विश्वविद्यालयः ।
  • भौतिकीव्याख्याता, फोरमैन क्रिश्चियन कॉलेज, लाहौर, १९४०-१९४७ ।
  • प्रायोगिकभौतिकीप्राध्यापकः, टाटा-मूलभूत-अनुसंधान-संस्थानम्, मुम्बई, १९४७-१९४८ ।
  • विशेषाधिकारी, भारतस्य परमाणूर्जायोगः | परमाणूर्जायोगः]], १९४८-१९४९ ।
  • अधिष्ठाता (Dean), प्राध्यापकश्च, भौतिकीविभागः, अलीगढमुस्लिमविश्वविद्यालयः, अलीगढ, १९४९-१९६३ ।
  • अधिष्ठाता, विज्ञानसंकायः, अलीगढमुस्लिमविश्वविद्यालयः, अलीगढ, १९५०-१९५३, १९५६-१९५८ च ।
  • निदेशकः, गुलमर्गसंशोधनवेधशाला, गुलमर्ग, १९५१-१९७१ ।
  • मानदवैज्ञानिकपरामर्शकः पञ्जाबसर्वकारः ।
  • निदेशकः, केन्द्रियवैज्ञानिकोपकरणसंगठनम् (CSIO), चण्डीगढ, १९६३-१९७१ ।
  • सेवामुक्तप्राध्यापकः (Professor Emeritus), पञ्जाबकृषिविश्वविद्यालयः, १९७२-१९८२ ।
  • अध्यक्षः, युनिवर्सल् मग्नेटाइस् (पी) लिमिटेड्.
  • भौतिक्याः सहायकप्राध्यापकः, जॉर्जिया इंस्टिट्यूट ऑफ् टेकनोलोजि, अटलांटा, जॉर्जिया, १९९०-१९९४ ।

भौतिक्याः मानदप्राध्यापकःसम्पाद्यताम्

सामाजिकसंस्थानां सदस्यतासम्पाद्यताम्

  • अमेरिकी-भौतिक-सोसाइटी सहायकत्वेन ।
  • भारतीय-भौतिक-सोसाइटी सहायकत्वेन ।
  • इण्डियन् एकडमी ऑफ् सायन्सिस् ऑफ् इण्डिया सहायकत्वेन ।
  • इण्डियन् नेशनल् ऑफ् सायन्स् ऑफ् इण्डिया सहायकत्वेन ।
  • एक्सप्लोरर् क्लब सहायकत्वेन ।

समाजेषु गृहितानि पदानिसम्पाद्यताम्

  • भारतीयविज्ञान-कांग्रेस्-संस्थायाः भौतिकीविभागाध्यक्षः (१९५४) ।
  • इण्डियन् एकडमी ऑफ् सायन्सिस् ऑफ् इण्डिया-संस्थायाः अध्यक्षः (१९५७-१९५८) ।
  • भारतीय-भौतिक-सोसाइटी-संस्थायाः अध्यक्षः ।
  • भारतीय-विज्ञान-कांग्रेस-एसोसिएशन-संस्थायाः सचिवः (१९६०-१९६३) ।
  • विदेशसचिवः, भारतीय-राष्ट्रिय-विज्ञान-अकादमी (१९६१-१९६४) ।
  • उपराष्ट्रपतिः, उत्तरभारतीयविज्ञानसङ्घटनम् ।
  • राष्ट्रपतिः, ऑप्टिकल् सोसाइटि ऑफ् इण्डिया (१९७०)।

कोविन्निकायानां सदस्यता (Membership of learned bodies)सम्पाद्यताम्

  • उत्तरप्रदेशस्य वैज्ञानिक-अनुसंधान-समितेः सदस्यः ।
  • उत्तरप्रदेशस्य विश्वविद्यालयानुदानसमितेः सदस्यः ।
  • भारतीयराष्ट्रियविज्ञान-अकादमी-संस्थायाः परिषदत्सदस्यः ।
  • भारतीयभौतिक-सोसाइटी-संस्थायाः परिषत्सदस्यः ।
  • इण्डियन् नेशनल् ऑफ् सायन्स् ऑफ् इण्डिया-संस्थायाः परिषत्सदस्यः ।
  • इंडियन जर्नल ऑफ् फिझिक्स्-संस्थायाः सम्पादकमण्डलस्य सदस्यः ।
  • लखनौविश्वविद्यालयस्य सङ्कायानां सदस्यः (बनारस-इलाहाबाद)।
  • व्यापक-चिकित्सा-'जर्नल', कैलिफोर्निया।
  • सदस्यः, पेनल् ऑफ् कन्स्ल्टस् इन् टेकनोलोजिकल् साइन्सिस् एण्ड् अप्लाईड् रिसर्च टू दी डिरेक्टर् जनरल् ऑफ् यूनेस्को (१९६७) ।
  • अध्यक्षः, डेवलोप्मेन्ट् काउन्सिल् फोर् इन्सिट्युट् इण्डस्ट्रि सेट् अप बाय दी गवर्नमेन्ट् ऑफ् इण्डिया, मिनिस्ट्रि ऑफ् इन्टर्नेशनल् ट्रड् एण्ड् कम्पनी अफिरियन्स् (डिपार्डमेन्ट् ऑफ् इण्डस्ट्रियल् डेवलोपमेन्ट्) ।
  • सदस्यः, सीनेट, पञ्जाबविश्वविद्यालयः, चण्डीगढ
  • सदस्यः, सीनेट, सिंडिकेट च, पञ्जाबीविश्वविद्यालयः, पटियाला
  • सदस्य, सीनेटः, गुरुनानकदेवविश्वविद्यालयः, अमृतसर

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=प्यारासिंह_गिल&oldid=318152" इत्यस्माद् पुनः प्राप्तिः