उपनिषद्-|भगवद्गीता-पतञ्जलियोगसूत्राणि आधारीकृत्य रूपितस्य शास्त्रीयाध्यानस्य नाम एव प्रणवयोगः इति । “ योगः” ‘ॐ योगध्यानम्’ इति नाम्नापि कथ्यते एषः । सरलतया निरूपणे निर्गुण-निराकार-नित्यसत्यं परब्रह्माणम् अकार-उकार-मकाराणां शब्दगुच्छं श्वासेन सह क्रोढीकृत्य यः जायते स एव प्रणवयोगः इति कथ्यते ।

प्रणवः ॐकारः

उद्देशः सम्पादयतु

बन्धात् मुक्तिः पीडाभ्यः शाश्वती विमुक्तिः एव अस्य उद्देशः । इतोऽपि अस्य उद्देशाः सम्यक्तया उपनिषदि निरूपिताः । यः ॐ कारमाजीवनं ध्यायति कथं तं लौकिकविचाराः जेतुं शक्नुवन्ति? यः ओंकारात् परब्रह्मणः जपं करोति सः प्रकाशे लीनः भवति । प्रायः ब्रह्मतेजसा युक्तः भवतीति भाति । एवं ब्रह्मलोके प्रवेशमवाप्नोति यश्च लोकः शान्तिः, चिरयौवनं, नश्वरता,निर्जयतरा च युक्तः भवतीति भावः । हिन्दूतत्त्वशास्त्रप्रकारेण अयम् ॐ कारः महत्प्राचीनः, तेनैव विश्वमिदं निर्मितं वर्तते । प्रणव इति व्यवह्रियमाणः ॐ कारः शक्तेः मूलरूपं सत् मन्त्ररूपेण जप्यते । मन्त्रः सार्थशब्दानां समूहः, यस्मिन् विद्यमानया शब्दकम्पनोद्भूतशक्या अस्माभिः उद्दिष्टाः शारीरिक-मानसिकपरिणामाः प्राप्यन्ते । “मननात् त्रायते” इति मन्त्रः, इति मन्त्रशब्दस्य व्युत्पत्तिः । मन्त्रो नाम चिन्तनानां परिवर्तनम् अर्थात् मनसि उत्पद्यमानभावसङ्घर्षाणाम् ऐहिकविचाराणां नाशः । मन्त्रशक्तिः न केवलम् उद्दिष्टपरिणामानां साधिका अपि तु साधुमन्त्रप्रयोक्तरि योगिनि दर्शनयोग्यपरिणामम् अपि जनयति । यथा- स्वभावे, आचारे-विचारे वा सात्त्विकपरिणामः ।

शक्तिस्रोतः ॐ सम्पादयतु

योगशास्त्रप्रकारेण अयम् ॐ कारः परमपवित्रः श्रेष्ठश्च । प्राणं नियन्त्रयति संयोजयतीति हेतोः अस्य ॐ कारस्य प्रणव इति व्यवहारः । परब्रह्मणि ऐक्यं साधयितुं येषां प्राणानां त्यागः कारणीभूतः त एव प्राणाः “परब्रह्म” इत्युच्यन्ते । अथर्वशिखा उपनिषदि ॐ कार एव शब्दब्रह्म इति निर्दिष्टः (१:१००) तत्र कम्पनमेव(नाद) भगवतः स्वरूपेण दृष्टम् । योगशास्त्रोक्तरीत्या अयं प्रपञ्चः भगवतः आदिक्रियया रचितः । नैरन्तर्येण ओंकारोच्चारणसहितध्यानकरणेन मनसः जागृतिः भवति एवं योगी ब्रह्मणि ऐक्यं साधयितुं शक्तो भवति । उपनिषदः – सर्वे उपनिषदः ॐ कारः, तदुच्चारणेन सह ध्यानम् इत्यादिषु विषयेषु अनेकान् उल्लेखान् कृतवन्तः । यथा –

 
  • यः ब्रह्मतत्त्वसम्पादनार्थम् ॐ कारमुच्चरति स नूनं ब्रह्मतत्त्वमवाप्नोति । - तैत्तिरीयोपनिषद् (१-८-१)
  • प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥
- मुण्डकोपनिषत् (२.२.४)
ओमित्येतदक्षरमुद्गीथमुपासीत ।
- छान्दोग्योपनिषत् (१.१.१)

भगवद्गीता सम्पादयतु

अनन्तदृष्ट्या विश्लेषणे कृते श्रीकृष्णः भगवद्गीतायां स्व अनेक स्वरूपवर्णनावसरे “प्रणवः सर्ववेदेषु” (७:८) इति, अग्रे नवमाध्यायस्य सप्तमे श्लोके ‘वेद्यं पवित्रमोंकार” इति दशमाध्यायस्य पञ्चविंशतितमे श्लोके ‘गिरामस्म्येकमक्षरम्” इत्यपि अवोचत् । ओंकारस्य प्रयोगः कीदृशः स्यात् इत्यपि अग्रे वदति –

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥६:१३॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥
अनन्तचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥८:१३,१४॥”

अधिकपठनाय सम्पादयतु

  • Swami Prabhavananda, Frederick Manchester. The Upanishads Breath of the Eternal. Vedanta Press 1984. ISBN 0-87471-000-6
  • Swami Prabhavananda (Translator), Christopher Isherwood (Translator). Bhagavad-Gita: The Song of God. Signet Classics 2002. ISBN 0-451-52844-1
  • Swami Prabhavananda (Translator), Christopher Isherwood (Translator). How to Know God: The Yoga Aphorisms of Patanjali. Vedanta Press 1996. ISBN 0-87481-041-8
  • Amit Ray,Om Chanting and Meditation . Inner Light Publishers, ISBN 81-910269-3-7

बाह्यसम्पर्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=प्रणवयोगः&oldid=481665" इत्यस्माद् प्रतिप्राप्तम्