भगवान् पतञ्जलिः ( /ˈbhəɡəvɑːnə pətəŋəlɪhɪ/) (हिन्दी: पतञ्जलि मुनि, आङ्ग्ल: Patañjali) योगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।

भगवान् पतञ्जलिः
पतञ्जलि मुनि
Patanjali


हरिद्वारे पतञ्जलियोगपीठे पतञ्जलिशिल्पम्
रचनाः
प्रसिद्धिः योगसूत्रकारः, महाभाष्यकारः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

केचिद्वन्ति यत्पतञ्जलिरुपाधिरासीदिति, अपि चानेकाः पतञ्जलय आसन्, अस्य प्रमाणमिदं यद्महाभाष्यं शुङ्गकाले लिखितमासीत् किन्तु योगदर्शनस्तु भारतथुधात्पूर्वमासीत् तदैव व्यासेन भाष्यं रचितम्

विशालकाये महाभाष्येऽपि भगवतः पतञ्जलेः इतिवृत्तम् ईषदुपलभ्यते । अतः पतञ्जलेः देशविषये “इदम्-इत्थम्” इत्येवं वक्तुं न शक्यते । तथापि महाभाष्ये “विभाषा साकाङ्क्षे” इति सूत्रव्याख्यावसरे “अभिजानासि देवदत्त ! कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः” इत्युदाहरणबलेन इदं प्रतीयते यत् पतञ्जलेः जन्मभूः कश्मीरदेशः स्यादिति । महाभाष्यस्य उदाहरणैः इदमपि ज्ञायते यत् पतञ्जलिः आधिक्येन पाटलिपत्रनगरे वासञ्चकार । ततश्च सः भारतस्य दक्षिणपूर्वदिग्भागे महाभाष्यस्य प्रचारप्रसाराय मथुरायां, वाराणस्यां, पाटलिपुत्रे, साकेते, कौशम्ब्यां च प्राचरत् इति प्राक्तनभारतीयैतिह्यानुशीलनेन ज्ञायते ।

पतञ्जलेः देशसम्बद्धः अपरः तर्कः अपि प्राप्यते यथा - पतञ्जलेः देशकालविषये दृढ: मानदण्ड: विद्यते । अस्य देशः 'गोनर्दः' इति ज्ञायते यतः तेन एव उच्यते - 'गोनर्दीयस्त्वाह' इति । तत्र भाष्ये 'पुष्यमित्रं याजयामहे' इति दत्तात् उदाहरणात् पतञ्जलिः पुष्यमित्रस्य पुरोहितः इत्यपि केचन वदन्ति । पुष्यमित्रस्य प्रधानभूता राजधानी पाटलीपुत्रम् आसीत् । तथापि अयोध्या उपराजधानी आसीत् इति वदन्ति इतिहासकाराः । अतः गोनर्द(गोण्डा)देशवासिनः पतञ्जलेः पुष्यमित्रेण सह सम्बन्धः स्यात् एव | पतञ्जलिः क्रि०पू० २ शतके आसीत् इति पण्डिताः मन्यन्ते ।

परिचयः सम्पादयतु

विभिन्नेषु प्राच्यग्रन्थेषु पतञ्जलेः गोर्नदीयः, गोणिकापुत्रः, नागनाथः, अहिपतिः, फणिराट्, शेषराजः, चूर्णिकारः तथा च पदकारः इत्यादीनि नामानि प्रसिद्धिं भजन्ते । एभिर्नामभिः इदं स्पष्टं प्रतीयते यत् पतञ्जलिः शेषनागस्य अवतारः आसीदिति ।

नामान्तराणि सम्पादयतु

पतञ्जलिर्भगवान् शेषावतारः सर्वमपि पाणिनीयं मूलतन्त्र तदुपरि प्रोक्तानी विविधानां वातकानाञ्च महाभाष्यं प्रणीतवान् । तत्र भगवान् पतञ्चलिरनेकैर्नामभिः स्मर्यते ग्रन्थेषु । यथा गोनर्दीयः गोणिकापुत्रः, नागनाथः, अहिपतिः, फणी, फणिभृत्, शेषः,, शेषराजः, शेषाहिः, चूर्णिकारः पदकारश्चेति । स हि गोनर्दसम्बद्धत्वेन गोनदयः । गोनद नाम कश्चिद्चुग्रामः सम्प्रदायश्च । गोणिकायाः पुत्र इति गोणिकापुत्रः, शेषावतार इति नागनाथः, तस्यैव पर्यायाः अहिपति-फणि-फणिभृत्-शेष-शेषराज-शेषाहिशब्दाः, चूर्णिनीयभाष्यं तस्य कर्ता चुणकारः, पदानां कर्ता इति पदकारः-सूत्रकारः ' पाणिनिर्वाक्यकारो वररुचिः पदकारश्च पतञ्जलिरिति त्रिनुनिव्याकरणम् ।

यादवप्रकाशप्रणीते वैजयन्तीकोशे स हि ‘गोनर्दीय' पतञ्जलिः[१] इति स्मृतः । कैयटो भर्तृहरिश्च तथैव । पण्डिता गोणिकापुत्रो काव्यकार इत्याहुरिति नागेशः । कैयटो हि तं नागनाथ इति पदेनापि स्मरति ।[२] चक्रपाणिः तं चरकव्याख्याप्रारम्भे अहिपतिनाम्ना स्तौति । यथा--

पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।

मनोवाक्कायदोषाणां हन्त्रेऽहिपतये नमः ।।

नागेशो हि तं फणिनाम्ना स्मरति । यथा -

फणिभाषितभाष्येऽस्मिन्.कृतभूरिपरिश्रमः ।

नत्वाः फणीशं नागेशस्तनुते ऽर्थप्रकाशकम् । भोजश्च तं फणिभृद्भत इति नाम्ना स्मरति -

वाक्चेतोवपुषां यथा फणिभृतां भव येनोद्धृतः । हैमवृहद्वत्यवचूर्णिकारो ऽमरचन्द्रस्तं येदाह श्रीशेषराजः इत्युल्लिखति । शिशुपालवधटीकायां वल्लभः .. देवस्तं शेषाहिनाम्ना स्मरति’ पदं शेषाहिविरचितं भाष्यम् इति ।

भर्तृहरिचूणकारपदेन तमुल्लिखति । क्षीरस्वामी भाष्यं चूणिरिति । पैरिभाषां करोति । स्कन्दस्वामिप्रमृतयस्तं पदकारं कथयति । एवमेपोव्वटोऽपि ।

पतञ्जलिनामविषयिणी किंवदन्ति सम्पादयतु

एकदा कश्चित् मुनिः कस्मिंश्चित् तडागे स्नानरतः आसीत् । स्नानसमये कश्चित् क्षुद्रः सर्पः तस्य अञ्जलौ अपतत् । किञ्चिद् भीतः मुनिवरः अपृच्छत् “कोડर्भवान् ?” इति । सर्पः उदतरत् - “सपोડहम्” । ततः श्रुत्वा मुनिवरः पुनः अपृच्छत् “रेफःक्वगतः?” इति । सर्पः उक्तवान् - “त्वया अपहृतः” इति । मुनिवरः स्वत्रुटिं ज्ञात्वा लज्जितः अभवत् । सः ज्ञातवान् यत् अवश्यम् अयं कश्चन महापुरुषः विद्वान् च वर्तते । पतञ्जलेः जीवन-वृत्तान्तविषये अन्याः अपि काश्चन किंवदन्त्यः सन्ति ।

देशः सम्पादयतु

एवं बहुभिर्बहुभिर्नाममिर्बहुधा स्मृतः परमप्रामाणिक आचार्यो भगवान् पतञ्जलिः कुत्रत्य इति संम्प्रत्यपि नैव निश्चितम् । केचित्तं गोतयंसंज्ञया. पौर्वात्यं मन्यन्ते । मत्स्यपुराणे हि गोनर्दजनपदः प्राच्यदेशेषु परिगणित इति । अपरे तु गोनर्दनाम्ना काश्मीरेषु त्रयाणां राज्ञां सत्त्वात् काश्मीरेषु हि गोनर्दजनपदोऽस्तीत्यपि मन्यन्ते । स हि महामाष्ये पाटलिपुत्र-मंथुरा-साकेत-कौशाम्बी प्रभृति जनपदां संस्मरति । पाटलिपुत्रे हि तेन चिरमुषितं विद्याध्ययनायेति , इहाधीमहे, इह वसामः इह पुष्यमित्रं याजयाम'-इति[३] महाभाष्य - वचनीज्ज्ञायते । तथैव राजशेखरस्य पतञ्जलेः पाटलिपुत्रे शास्त्रकारत्वेन परीक्षणवचनादपि सिध्यतीदम् । यथोक्त -

‘श्रूयते हि पाटलिपुत्रे शास्त्रकारपरीक्षा - अत्रोपवर्षबर्षावि पाणिनिपिङ्गलाः विहव्याडिः । वररुचिपतञ्जली इह परीक्षिताः ख्यातिमपजग्मुः' इति । साकेत मथुरे हि रामकृष्णविहारभूमित्वेने स्मर्तब्ये एव सर्वैः । कौशाम्बी च वाक्यकारजन्मभूमित्वेने स्मरतीति किमांश्चर्यम् । अथांवशिष्यते तस्यांसकृत् काश्मीरस्मरणम् । स हि अभिजानासि देवदत्तं काश्मीरान् गमिष्यामः तत्र सक्तुन् । पास्यामः' इति । (३।२।११४) समल्लिखति। अन्यत्र चं स्मरति काश्मीरानसकृदेव । तस्य च काश्मीरस्मरणं हिंदूंचंयंतिं यत्स, काश्मीरेषु' गोनर्दमण्डले जन्मावाप्य विद्याध्ययनार्थं पाटलिपुत्रं गतः तत्रैव पुष्यमित्रसत्कुतो न्युवासेति । | तस्य हि काश्मीरगमनोत्कण्ठा तं सततं वाधते स्मेति महाभाष्ये तदुपस्थापितोदाहरणतो ज्ञायते । तत्र सक्तून् पास्यामः' इति तस्य काश्मीरपरम्परयो संह घनिष्ठतमः सम्बन्धः सुच्यते । पार्वत्यप्रदेशे हि भृष्टमकायं पेषणके पिष्ट्वा सक्तुन्निर्माय भुज्यते जलपयोदध्यादिभिः सह वा केवलमपि। किन्तु तत्र सक्तवो ८. भुज्यन्ते न तु पीयन्ते । सक्तूनां पानं तु मध्यदेशीयप्रभाव एव । स स्वयमपि तज्जानाति यतः स तैलमुक्तधृतमुक्तम्' इति’ समुल्लिखति । किन्तु पाटलिपुत्रप्रभावात्स सक्तून् । पास्याम' इति कथयति न तु भोक्ष्याम इति । तेनास्य काश्मीरेषु जन्म पाटलिपुत्रेः कर्मेति स्पष्टमेब । स्थाने स्थाने हि स गोनर्दीय| शब्दप्रयोगेण जन्मस्थानं स्मरति । केचित्तु गोनर्दीयशब्देन साम्प्रतिकगोण्डा मण्डलमाकलयन्ति । तत्तु वादार्थं वाद एव । तत्तु ‘गोनदी' शब्दस्यापभ्रंश एव प्रतीयते । गोभिः सुकेन यत्र पेयी नदी विद्यते रापतीनाम । अथवा घासबहुलत्वाद् गावो यत्र नन्दन्ति इति गोनन्दस्तस्यापभ्रंशो गोण्डा इति ।

अपरञ्च काश्मीरेष्वेव महाभाष्यस्यासकृदुद्धारोऽपि श्रूयते राजतरङ्गिणी अंमृतिगन्थेषु । सम्भवति महाभाष्यं हि निर्मुक्त भगवति पतञ्जलौ तच्छिष्यैर्महा| भाष्यं हि काश्मीरेषु नीतम् । तस्य शिष्येषु काश्मीराःदाक्षिणात्याश्वासन् । 'तैः स्वस्वसङ्गृहीतं पाठं स्वान् स्वान्, प्रदेशानुनयन्ति स्म । इदमपि सम्भवति यदुपरते पुष्यमित्रे विद्वदनुरागवति तत्पुत्रोऽग्निमित्रो मगधसाम्राज्यमवाप । स हि । विद्याविरत आसीदिति मालविकाग्निमित्रे चित्रितेन तच्चरित्रेण ज्ञायते । अग्नि-..। मित्राननुमोदितो हि भगवान् वार्धक्ये पुनः काश्मीरानेव प्रतिनिवृत्त इत्यपि । स्याद्यद्वा तद्वा, काश्मीरेण हि राज्ञाऽभिमन्युना जयापीडेन च भाष्यस्योद्धारः । कृतः इति सज़तरङ्गिणीतो ज्ञायते । यथोक्त तत्र -

चन्द्रादिभिर्लब्ध्वा तस्माद् देशात्तदागमम् ।

प्रवततं महाभाष्यं स्वञ्च व्याकणं कृतम् ।।[४]

कालश्चैषः -

तदा भगवतः शाक्यसिंहस्य परनिवृतेः ।

अस्मिन् महीलोकधातौ साधं वर्षशतं ह्यागात् ॥[५]

तथ्यमिदं भतृहरिपि स्मरति वाक्यपदीये कथनानेन -

'प्रायेण सङ्क्षेपरूचीमल्पविद्यापरिगहान् ।

( सङ्ग्रहो' नाम व्थाडिप्रणीतो ग्रन्थः)।

कृतेऽथ पतञ्जलिना गुरुणा तीर्थदशिनी ।

सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ।

अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवान् ।।

तस्मिन्नकृतबुद्धीनां नैवावास्थितनिश्चयः ।।

बैजिशौभवहर्यक्षैः , शुष्कतर्कानुसारिभिः ।

आर्षे विप्लाविते ग्रेन्थे सङ्ग्रहप्रतिकञ्चुके।

यः पतञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः।

काले स दाक्षिणात्येषु ग्रन्थमात्र व्यवस्थितः ।।

पर्वतादागमं लब्ध्वा भाष्यघीज़ानुसारिभिः ।

स नीतो बहुशाश्वत्वं चन्द्राचार्यादिभिः पुनः ।

उभयस्मिन्नेव कथने काश्मीरादेव[६] स्मृता । पुनश्च कालेन प्रणष्टे महाभाष्ये काश्मीरेण महीभुजा जयापीडेन - क्षीरादिविद्वत्साहाय्येन विच्छिन्नं महाभाष्यं पुनः प्रवर्ततमिति राजतरङ्गिणीत ज्ञायते यथोक्त -

उत्पत्तिभूमौ देशेऽस्मिन् दूरदूरतिरोहिता।

कश्यपेन वितस्तेन तेन : विद्यावतारिता।

वचोमूखऽयमित्येव कस्मैचिद्वदते स्फुटम् ।

सर्वज्ञानान्, ददच्चकै सर्वान् विद्याभियोगिनः।

देशान्तराद्रागमय्य व्याचक्षाणान् क्षमापतिः ।

प्रावर्तयत विच्छिन्नं महाभाष्यं महीतले ।

क्षीरामिधाच्छब्दविद्योपाध्यायात्सम्भृतश्रुतः ।

बुधैः सह ययौ वृद्धिं स जयायीडपण्डितः।[७]

केचिद्धि राजतरङ्गिणी प्रोक्त तस्माद्देशात्तदागमम्'[८] इत्यत्र तस्मादित्येतस्य कस्माच्चिद् दाक्षिणात्यप्रदेशादिति। निरर्गलमर्थं कुर्वन्ति । तत्तेषां. प्रादेशिकमतिरेव । वस्तुतस्तु प्रकरणानुसारेण तस्मादिति काश्मीरसंज्ञकाः देव । यथा च प्रकरणम्-

स्वनामाङ्क शशाङ्काङ्कशेखरं विरचय्य स ।

परार्थ्यविभवं, श्रीमानमिमन्युपुर व्यधात् ।।[९]

अनेनैतज्ज्ञायते यत्पतञ्जहिहि भगवान् ज़न्मना किंवा कर्मणा कि वा न्यैरप्यज्ञातैः कांग्गै काश्मीरैः सह घनिष्टरूपेण सम्बद्ध आसीत् । वयन्त्वेतदेवानुमामो यत्तस्य जन्मभूमिः काश्मीरमण्डलं कर्मभूमिश्च पाटलिपुत्रमिति ।

कालः सम्पादयतु

एवमेव तस्य कालविषयेऽपि पण्डिता विवदन्ते । विवादो हि विदुषां वैदुष्यप्रदर्शनावमरं ददाति । केदिद्धितं पाणिनिसमकालिकं मन्यन्ते, केचित्तु पुष्यमित्रसमकालिकमपरे तु विक्रमसमकालिकमपि । पतञ्जलेंहि पाणिनिसमकालिकत्वसमर्थंनं तु वादार्थवाद एव । केचित्तं हि वररुचिशिष्यं मन्यन्ते । वयमपि पक्षमेनं न तथा प्रत्याख्यामः तस्य । पुण्यमित्रसमकालिकत्वकथनेनाऽपि तथ्यमिदं सुंपुष्टं भवति । केचित्तु ‘इह पुष्यभित्रं याजयामः' इति वचनमेव चन्द्राचार्यप्रक्षिप्त मन्यन्ते । अस्मद्विचारे तु तदप्यतिवाद एव । तस्य हि विक्रमसमकालिकुत्वं तु नितान्तमेवाचिन्त्यं व्यर्थत्वान्निराधाराच्च ।,

वररुचिः कात्यायनो नन्दोत्तरकाले ह्यासीत् । नन्दकालश्च श्रीमद्भागतानुसारेण १०७९ मित वर्षेषु कलिगतेषु समापतति । राजतरङ्गिणीकारानुसारेण तु कलेः ६५३ मित वर्षेषु व्यतितेषु ' पाण्डवा अभूवन् । यदा ते नवाशीति, वर्षवयस्काः सञ्ञातास्तदा महाभारतयुद्ध समभूत् । ततश्च दशमे मासि परीक्षिज्जन्म लेभे । परीक्षित आरम्य नन्दाभिषेकपर्यन्तं १११५ मितः कालो व्यतीतः । तेन ६५३ +८९x१११५= १७५७ मित वर्षेषु कलेर्यातेषु नन्दकालः । कलेः ३०४५ मितवर्षेषु व्यतीतेषु विक्रमकालस्तेन नन्दकालो - विक्रेमार्कात् ३०४५-१७५७=१२८८ मितवषैपूर्व समापतति । नन्दकालश्च ११० वर्षाणि चलति । ततश्च चन्द्रगुप्तोदयः । चन्द्र गुप्ताद्या दश मौर्याः १३७ मितवर्षाणि भुवमशासुः । ततश्च पुण्यमित्रोदय इति पुण्यमित्रस्य कालो कलणानुसारेण कलिगतेषु ११५७X२३७= २०९४ ) २०९४ मितवर्षेषु भागवतानुसारेण तु (१०७९४२३७=१३१६) १३१६ मितवर्षेषु समापतति । तथैव सः कालो भागवतानुसारेण विक्रमाकद. १७२९ वर्षपूर्वं राजतङ्गिणीकारानुसारेण तु ९५१ वर्षपूर्वं सम्भवति । अत्रेदमन्तरं यद्भागवतं हि कृष्णस्य वैकुण्ठगमनदिनादारभ्य कलि प्रारब्धं मन्यते । राजतरङ्गिणीकारस्तु कृष्णजन्मतोऽपि ६५० वर्षांपूर्वमेव कलि प्रबृत्तं मन्यते । वस्तुतस्तु राजतरङ्गिणीकार एव साधुः । |, यतः कलिस्तु कृष्णजन्मनःः पूर्वमेव प्रवृत्त आसीत्कन्तु कृष्णमहिमा न तथा प्रस्फुटितम् आसीत् । याते हि कृष्णे वैकुण्ठं स सम्यक्प्रवृत्तः । भुचुकुन्दो यदी गुहातो निष्क्रान्तस्तदा स क्षुल्लकान् दृष्ट्वा कलियुगं प्राप्त मत्वा विरक्तः सन्नुत्तरां दिशं ययाविति भागवत एवोक्तम् ।

तेनात्र राजतरङ्गिणीकारमेवानुसृत्य पुष्यमित्रकालो तिर्णीतः स हिं विक्रमार्कात १०५१ वर्षपूर्वमासीदिति । अयमेव हि पतञ्जलिरपि कालः । यदा हि जना दीर्घायुषोऽभूवन्नेव । तेन तस्ये कात्यायनशिष्यत्वमपि स्थितिकालदृष्टया न विरुध्यते । राजतरङ्गिणीकारार्नुसारेण अभिमन्युह बुद्धनिर्वाणानन्तरसार्द्धकशतवषण्यभित आसीत् । तद महाभाष्यं हि प्रणष्टमासीदिति तत्कथनेन महाभाष्यस्य तस्मादपि पूर्ववतत्व सिध्यति । कनिष्कस्यावस्थितिमपि तत्कालमभित एव मन्यते राजतरंङ्गिणीकारः । यद्यपि तथ्यं गुहासु निहितं महदन्वेषणमपेक्षते तथापि सामान्यतोऽभिमन्युह पुष्यमित्रादनन्तरवत्र्येव । राजतरङ्गिणीकारो हि अभिमन्योरनन्तरवति । १३०२ मितवर्षाण्यभितो विक्रमस्यावस्थिति मन्यते ।.महाभाष्यस्या पूर्ववर्तत्वमपि तत्रैव वणितमिति तदृष्टया तु पतञ्जलेरवस्थितिवक्रमपूर्व-पञ्चदशशतकमभित आपतति । तेन हि विक्रेमपूर्वपञ्चदशशतकमारम्य दशम-- शतकपूर्वपर्यन्तं सामान्यतः पतञ्जलेरवस्थितिमनुमातुं शक्यते।

सामान्यतो विक्रमपूर्वदशमशतकमेव पतञ्जलेः स्थितिकाल: ' समीचीनः । महाभाष्यगंतानि, ‘अरुणद्यवनः साकेतमु, 'अरुणद्यवनो माध्यमिकाम्' 'अनुशोणे पाटलिपुत्रं', ‘मौर्यैहरण्याथिभिरचः प्रकल्पिताः' पुष्यमित्रसमा, इह पुष्यमित्रं याजयामः,"। पुष्यमित्रो यजते, याजका याजयन्ति' इतिप्रभृतिवाक्यानि चादाय पण्डिताः । पतञ्जलेरवस्थितिविषये स्वामिमतं मतं स्थापयन्ति । तत्र ‘अरुण यवनः । साकेतम्' इति वाक्ये लङः प्रयोगमादाय तच्च प्रयोक्तर्दर्शनविषयं मत्वा मिनाण्डर .. इति संज्ञकस्याक्रमणेन सह संयोजयन्ति । किन्तु यवनस्योल्लेखस्तु प्राचीनेषु । पुराणेष्वपि दृश्यते । केन सह घटनेयमन्वितेति न शक्यते यथार्थतो वक्तम् । वयन्तु ब्राह्मणाः ब्राह्मणविद्यामेव जानीमहे । ताश्च वेदवेदाङ्गपुराणाद्याः । भागवत-विष्णुपुराणादिंग्रन्थानुसारेण हि शासतिं युधिष्ठिरे चित्रशिखण्डिनः ।, सप्तर्षयः (मद्यास्वासन् । ते). हि एकनक्षेत्रे शतं वर्षाणि तिष्ठन्ति । यदा हि पूर्वाषाढासु विचरन्त आसंस्तदा नन्दाभिषेकः सम्पन्नः । ते च यदा श्रवणेषु प्रविष्टास्तदा पुण्यमित्रणाश्वमेघयज्ञः कृतः । ६५३ वर्षेषु कलेयतेषु युधिष्ठिरो जनि लेभे । स च ८९ वर्षे साम्राज्यमवापेजे चाश्वमेधेन द्वोनवतितमे वर्षे । तेन हि कलेः २०९४ वर्षेषु व्यतीतेषु पुष्यमित्रस्याभिषेको यस्य.प्रधान', 'आचार्यैः पतञ्जलिरिति । यतो हि तस्यावस्थिविक्रमपूर्वदशमशतकमेव न्याय्यम्। स्याद्दतदन्यथाऽपि।

पतञ्जलिर्हि भगवान् काठकसंहिताध्यायीति कथ्यते ।

संवादशैल्यां प्रोक्तं हि महाभाष्यमिदं वातकानामेव व्याख्यानम् ।

वार्तिकमेवावलम्यास्य प्रायः प्रवृत्तिः । सूत्राणि तु स्वातन्त्र्येण कानिचिदेव व्याख्यातानिं । तेनेदं हि वार्तिकभाष्यं वर्तिकानि च भाष्य सूत्राणि । येषु हि सूत्रषु वार्तकानि न सन्ति तत्र प्रायेण भाष्यमपि न दृश्यते । तथापि भाष्यं हि सूत्रसमर्थकम् । यत्रापि वार्तिककारेण सूत्रकारः प्रत्याख्यातोऽपि तत्र भाष्य हिं युक्तया-सूत्रमेव मण्डयति ।

महाभाष्यस्य प्रथमं चन्द्राचार्येणोद्धारः कृतः द्वितीयोद्धारश्च क्षीराख्येन विदुषेति राजतरङ्गिण्यां स्पष्टम् । एवं पुनः पुनरुद्धारे यत्र कुत्र मौलिकता भवेदपि रूपान्तरिता तथापि ग्रन्थान्तरापेक्षया महाभाष्यं हि मौलिकरूपेणैव स्थित स्थितम् । व्याकरणसम्बद्धमपि महाभाष्यं सरलं सरसञ्च । अनेन हि आत्मसात्कृता संवादशैली विषयस्य स्पष्टरूपेणोपस्थापनाय नितान्तमेव समर्था । अस्या हि । सरलंता प्राञ्जलता च विस्मयावहः विषयप्रतिपादनक्षमता तु अनन्यपूर्व केव । | महाभाष्यं हि पाणिनीयव्याकरणस्य प्रामाणिकोव्याख्याग्रन्थः । इदमेव भर्ती हुरिकथनानुसारेण, सर्वेषामेव न्यायबीजामामाकरग्रन्थः । राणिनीयं हि व्याकरणं व्याकरणेतरापेक्षयाऽभिनवमासीत् । तेनेदं सर्वेषामेव कृते आकर्षकं । सञ्जीतम् । तदधिकृत्यानेकैविचक्षणैवृत्तिग्रन्था वार्तिकग्रन्थाश्च प्रणीताः । तदा हि पाणिनीयसूत्रोपरि व्याख्याग्रन्थस्य प्रणयनं प्रतिष्ठाजनके मन्यतेस्म । तेन सूत्रान्तरणयनसमर्थ व्याडिप्रभृतयोऽपि तेषामेव व्याख्याने प्रवृत्ताः । तथा - सति वृत्तिवार्तिकग्रन्थानां सरिदेवोद्भूता यया सूत्राणां मौलिक आशय एव रूपान्तरितः । 'यथा 'एङ् प्राचां देशे' . इत्यत्र प्राचामिति पदग्रहणमाचार्यनिर्देशार्थं व्यवस्थितविभाषार्थञ्चेति मत्वा कुणिप्रभृतयः 'एङ यस्याचामादिस्तेवृद्धसंज्ञ' भवति देशे बोध्ये प्राचां मतेनेति व्याख्यान्ति ।

अन्ये तु प्रागंदेशे इति व्याख्यन्ति । तथैव सुत्रान्तरेऽपि तदिदं प्रामाणशास्त्रमेव विपन्नं दष्टवा भगवता पतञ्जलिना सूत्राशयसंरक्षक प्रमाणशास्त्रं महाभाष्यं प्रणीतम् । अनेन हि व्याख्यानमुखेन व्यकिरणदर्शनसिद्धान्तानामपि निरूपणं कृतं यदाधारी :: कृत्य भतृहरिणा वाक्यपदीयं प्रणीतम् । लोकप्रचलितभाषायां प्रोक्तत्वादपि महाभाष्यं लोकप्रिय सञ्जातम् । अस्य हि यथार्थानुवतिता सर्वातिशायिनी । सूत्रस्य प्राप्तिज्ञों देवानां प्रियो न तु दृष्टिज्ञः” इति कथनं कमप्यनाकर्षयेत् । महाभाष्यकारस्तु उभय एवासीत्प्राप्तिज्ञः इष्टिज्ञश्च । व्यवहारे प्राप्त्यप्रेक्षया इष्टेरेवाधिकं महत्वं भवति । सूत्राणामेवानुसरणं प्राप्तिः प्रयोगानुसरणमिष्टिः । तथैवात्र शब्दगडूमात्रं, काकपेया नेदी, चन्वा ( तृणमयः पुरुषः ) प्रभृतिशब्दानां प्रयोगोऽपि तस्य व्यावहारिकत्वं साधयन्ति । एवमेव द्विर्बद्धं सुबद्ध भवति, संमानगुणे एव स्पर्धा भवति न ह्याब्धाभिरूप स्पर्धेते, पर्याप्तोप्येक पुलाकः स्थाल्यानिदर्शनार्य, न च मृगा, सन्तीति यवा नोप्यन्ते, आम्रान् पृष्टः। कोविदारानाचष्टे इत्यादिवाक्यान्यप्यस्य प्रभावोत्पादकतां साधयन्ति । एवंविधैरन्यैरपि वैशिष्टयैर्वैयाकरणैर्यथोत्तरं मुनीणां प्रामाण्यमिति 'वादः स्वीकृतः । पाणिन्यपेक्षया कात्यायनस्य तदपेक्षया पतञ्जलेः कथनं प्रामाणिक मित्यवस्याशयः ।

यथा हि अकारलोपस्य स्थानिवद्भावेन गुणवृद्धेरप्राप्तेः न धातुलोप आर्धधातुके इत्यस्यादृष्टार्थकत्वम्, 'न बहुव्रीहौ' इत्यनेन बेहुव्रीहिः विषये सर्वादीनां निषिद्धयां सर्वनामतायामपि तेषामकजन्तुप्रयोगों घंथा त्वपितृक इत्यत्र त्वकत्पिवृक इति, ‘सामान्यवचनं विभाषितं विशेषवचने इत्यत्र बहुवत्रनयोगेन सामान्यवचनस्य प्रत्याख्याने, “उपसर्गादनोत्परः इत्यत्र अतिव्याप्त्यव्याप्तिनिवारणाय बहुलमिति पाठः, असति तथा द्र णो नमः इत्यत्र ओत्परत्वेनणत्वस्यासिद्धिः स्यात् प्र नः पूषा इत्यत्रानात्परत्वेन णत्वं स्यात् । एवञ्च पदव्यवायेऽपि ( नुमो णत्वं न ) इत्सस्य बाधकत्वेनं 'अतद्धिते इति वक्तंव्यम्' इति वातिकेन सिद्ध.णत्वे आई गोमयेणेति वाक्यंकारेण पदे साधितम् । किन्तु भाष्यकारेण पदेव्यवायः इति सप्तमीसमासं, परिकल्ध्य सूत्रेणैव समस्या समाहिता । तेनैव कैय्टः कथयति-.

पाणिनीयव्याख्यानभूतत्वेऽपि इष्ट्यादिकथनेन ।

अन्वाख्यातृत्वादस्येतरभाष्यवैलक्षण्येन महत्वम् ॥' इति ।

धात्वर्थप्रसङ्ग स हि द्विविधं रूपं स्वीकरोति विद्यते इष्यते चेति । तेन । हि पतञ्जलिलक्ष्यपर आचार्यः । स हि लक्षणं शास्त्रत्वेन समाद्रियते लक्ष्य

ञ्चेष्टित्वेन । स हि लक्ष्यानुसारं लक्षणं करोति । अनेन नैतच्चिन्तनीयं यत्पतञ्जलिहिं पाणिनिकात्या तौ समाद्रियते । तस्य मतभेदस्तु इष्टावेव न तु प्राप्तौ । तेन यथोत्तरं मुनीनां प्रोमाण्यमिति प्रायोवाद एव । सर्वेषामप्याचार्याणां स्वस्वस्थाने प्रामाणिकत्वम् । असति तु तथा शब्दानां नित्यत्वमेवे हीयते । स्वयमेव पाणिनिरपि पूर्वसिद्धप्रयोगान् समांद्रियते । स हिं सूत्रेषु स्वप्रणीय मानसूत्रासिद्धानपि प्रयोगान् प्रयुक्त यथा - जनिकर्तुः इत्यत्र सकारलत्वं, पुराणं प्रोक्त षु ब्राह्मणकल्पेषु' इत्यत्र पुराणबाह्मणशब्दौ च । तथैव पाणिनिनी । ., पञ्चबाणः क्षिणोति' इत्यत्रं क्षिाणु ( हिसायां ) धातोस्तनादिके उप्रत्यये प्राप्त', स्योप्रधागुणस्य निषेधाय कोऽपि प्रबन्धों न कृतस्तेन तन्मते तु क्षेणोति इत्येव भवति किन्तु इष्टौ न तथा । तेन हिलं, आत्र यमैत्रेयौ, संज्ञापूर्वको विधिरनित्यः इति गुणाभावं मन्येते । तेन हि ऋणु ‘इत्येतस्य, ‘ऋणोति' 'अर्णोति' इति रूपद्वयस्यैव सिद्धिः। तेन हि सर्वेषामेव मुनीनां प्रामाण्यं न तु यथोत्तरमेव । ". यथा-हि पतञ्जलिः पाणिनि समाद्रियते तथैव कात्यायनमपि । सहि कात्यायनस्य न केवलं. वातकानि व्याख्याति अपितु तेषां सम्भविप्रत्याख्यानमुपस्थाप्य तत्समादधात्यप । स हि दार्शनिकपक्षे कात्यायनोपरि व्याडेः प्रभावं, मन्यते पतञ्जलिहि कात्यायनापेक्षयाऽधिकमेव वैदिकमार्गानुसारी प्रतिभाति ।

मह्यभाष्यातिरिक्त पतञ्जलिकृतत्वेन महानन्दकाव्यं, चरकपरिष्कारः ।। सिद्धान्तसारावली, कोषग्रन्थः आर्यापञ्चाशीति, साहित्यशास्त्र, लोहशास्त्र चे प्रसिद्धा ग्रन्थाः पतञ्जलेर्महानन्दकाव्यं समुद्रगुप्तः कृष्णचरिते स्मरति । अवशिष्टग्रन्थानां प्रणेता कतमः ‘पतञ्जलिंरितिं नैवाधुनाऽपि निर्णीतम्। केचित्तुं : चरकमपि पतञ्जलेरेव नार्मान्तरं मन्यन्ते।

प्रक्रियाकौमुद्युदयेन यथाष्टाध्याय्याः पठनपाठनादिकं लुप्तप्रायमेवाऽभूत्तथैव महाभाष्यस्य महत्त्वं न्यूनीकृतमेव । किन्तु न हि दीपः सूर्यमभिभवितुं प्रभवति । महाभाष्यं हि न केवलं व्याकरणग्रन्थ एवापितु इदं हि भारतीयसंस्कृते विश्वकोश एव । तस्योपेक्षा तु भारतीयसंस्कृतेरेवोपेक्षा । महाभाष्यस्येदमेवासाधारणं महत्त्वं विचिन्स्य तस्य हि बहुभिर्भतृहरिसदृशैव्यख्यातृभिव्यख्यिाग्रन्थाः विरचिताः। तेषु हि भर्तृहरिः कैयटः, ज्येष्ठकलशः, मैत्रेयरक्षितः पुरुषोत्तमदेवः, धनेश्वरः, शेषनारायणः, विष्णुमित्रः, नीलकण्ठः शेषविष्णुः, तिरुमलयज्वा, गोपालकृष्णः, शिवरामेन्द्र, सदाशिवश्व प्रसिद्धाः अथैषां संक्षेपेण परिचयोऽत्र प्रस्तूयते ।

कृतयः सम्पादयतु

महाराजः समुद्रगुप्तः कञ्चन “कृष्णचरितम्” इत्याख्यम् एकं महाकाव्यं निर्ममे तत्रोच्यते पतञ्जलेः विषये यत्-

महानन्दमयं काव्यं योगदर्शनमद्भतम्।
योगव्याख्यानभूतं तद् रचितं चित्रदोषहम्।।

एवञ्च राधावल्लभो भोजः स्वनर्मितशब्दानुशासनग्रन्थे पतञ्जलिम् इत्थं सस्मार -

योगेन चित्तस्य पदेनवाचां
मलं शरीरस्य तु वैद्यकेन।
योऽपाकरोत्तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि।।

आभ्याम् श्लोकाभ्यां स्पष्टतयेदं ज्ञायते यत्, आयुर्वेदस्य, योगसूत्रस्य तथा च महाभाष्यस्य पतञ्जलिप्रणेतृत्वम् । तत्रादौ महाभाष्यविषयेचर्च्यते ।

महाभाष्यम् सम्पादयतु

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन।
योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि॥

महामुनेः पतञ्जलेः विषये उक्तं सुप्रसिद्धं पद्यम् इदम् । एतेन ज्ञायते यत् सः योगशास्त्रे, व्याकरणशास्त्रे, वैद्यकशास्त्रे च ग्रन्थरचनां कृतवान् आसीत् इति । एषः महाभाष्यकाररूपेण प्रसिद्धः अस्ति ।

भविष्यपुराणे गदितं यत् –

चित्रकूटे गिरौ रम्ये, नानाधातुविचित्रिते ।
तत्रावसन्महाप्राज्ञ: उपाध्यायः पतञ्जलिः ॥
वेदवेदाङ्गतत्त्वज्ञो, गीताशास्त्रपरायणः ।
विष्णुभक्तः सत्यसन्धो, भाष्यशास्त्रविशारदः॥ ३५/१-२

चित्रकूटनामके रमणीये पर्वते महाप्राज्ञः पतञ्जलिः अवसत् । काश्याम् एतस्य पतञ्जलेः तथा कात्यायनस्य मध्ये महान् वादः अभूत् । वादोऽयम् एकवर्षं यावत् प्राचलत् । वर्षान्ते पतञ्जलिः कात्यायनेन पराजितः । लज्जितः सः धर्मात्मा सरस्वत्याः आराधनं चकार । तदनु सः पुनः कात्यायनं पराजित्य प्रसन्नताञ्च प्राप्य महाभाष्यस्य रचनामकरोत् । भर्तृहरेः लेखेनेदं विदितम्भवति यत्, सौभव-हर्यक्षादीनां वैतण्डिकानां शुष्कतार्किकाणां प्रभावेण महाभाष्यस्य प्रचारप्रसारः विलुप्तः जातः । परन्तु चन्द्राचार्येण अपि च कश्मीरस्थैः भूभृद्भिश्च जयापीडादिभिः कथमपि महाभाष्यं पुनः प्राकाश्यम् आनीतम् ।

महाभाष्यं नव्यव्याकरणस्य प्रमाणभूतो ग्रन्थः इत्यत्र नास्ति कस्यापि संशीतिः ।

महान्दनकाव्यम् सम्पादयतु

इदं महाकाव्यं भगवता पतञ्जलिना रचितम् ।

योगसूत्रम् सम्पादयतु

भगवान् पतञ्जलिः चित्तवृत्तिशोधनाय उपायभूतानि योगसूत्राण्यपि प्रणिनाय यानि च विश्वप्रसिद्धानि सन्ति ।

सिद्धान्तसारावली सम्पादयतु

अयं वैद्यकग्रन्थः अपि भैषज्यशास्त्रविचक्षणेन पतञ्जलिना प्राणायि ।

भाषाशैली सम्पादयतु

पाणिनिमुनिना प्रणीतस्य व्याकरणग्रन्थस्य अष्टाध्याय्याः महद्व्याख्यानम् एतेन रचितम् । तत् भाष्यं वार्तिककारस्य कात्यायनस्य वार्तिकम् अधिकृत्य अपि लिखितम् आसीत् । अस्य भाष्यस्य नाम - 'महाभाष्यम्' । इदं नाम तस्य आकारस्य, माहात्म्यस्य च परिचायकम् अस्ति । महाभाष्यस्य अध्ययनं विना संस्कृतव्याकरणस्य ज्ञानम् अपूर्णम् एव । अत एव पतञ्जलिः व्याकरणस्य 'मुनित्रये' अन्यतमः इति परिगणितः । अष्टाध्याय्यां विषयाः सूक्ष्मतया वर्णिताः सन्ति । उदाहरणप्रत्युदाहरणैः शङ्कासमाधानपद्धत्या विषयस्य स्पष्टीकरणं पतञ्जलिना कृतम् । लौकिकैः उदाहरणैः, लघुकथाभिः, विनोदवचनैः च नीरसः व्याकरणविषयः अपि मनोरञ्जकः जातः । अत एव भाष्यविषये एका प्रशंसोक्तिः श्रूयते -

"महाभाष्यं वा पठनीयं, महाराज्यं वा पालनीयम्" इति ।

महाभाष्यकारस्य पतञ्जलेः शैली वैदर्भी अस्ति । यस्याः स्वरूपम् अधोलिखितमस्ति -


अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।
तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥

समासरहितं गद्यं चूर्णकम् इति कथ्यते । पतञ्जलेः एतादृशी चूर्णकगद्यशैली अस्ति । एषा गद्यशैली विषयनिरूपणदृष्ट्या अतीव सरला सम्भाषणात्मिका च अस्ति । तत्र कठिनविषयाणाम् उपक्रमे मध्ये मध्ये 'किं वक्तव्यमेतत्', 'कथम् अनुच्यमानं गंस्यते', 'अहोस्वित्', 'अस्ति प्रयोजनमेतत्', 'कथं तर्हि' इत्येतादृशैः सम्भाषणात्मकैः वचनैः पाठकानां मनः लक्ष्यं प्रति समाकृष्यते ।

सम्बद्धाः लेखाः सम्पादयतु

पाणिनिः

कात्यायनः

महाभाष्यम्

योगसूत्रम्

अधिकवाचनाय सम्पादयतु

पतञ्जलेः कथा

पतञ्जलेः जीवनम्]

सन्दर्भाः सम्पादयतु

  1. १५७
  2. ४॥२॥९३
  3. ३।२।१२३
  4. १।१७६
  5. १।१७३
  6. १।४७६-८१
  7. ४/४८६-८९
  8. १।१७६
  9. १/१७५
"https://sa.wikipedia.org/w/index.php?title=पतञ्जलिः&oldid=474578" इत्यस्माद् प्रतिप्राप्तम्