अथवा ॐ-कारः (अपरशैल्या ओङ्कारः)[ अ+ उ+म् ]। प्रणवः त्र्यैक्षरं वा हिन्दुधर्मस्य पवित्रतमं प्रतीकचिह्नम् । इदं हिन्दुदर्शनस्य परब्रह्मणः वाचकम् [१]स्वामी विवेकानन्दस्य मतानुसारं, ॐ-कारः “समग्रस्य ब्रह्माण्डस्य प्रतीकः, ईश्वरस्याऽपि प्रतीकः ।”[२] श्रीरामकृष्णपरमहंसः अस्मिन् विषये उवाच-, “...ॐ-कारतः ‘ॐ शिवः’, ‘ॐ काली’, ‘ॐ कृष्णः इत्यादयः आगतः” [३] । ॐ-कारः बौद्धधर्मे तथा जैनधर्मेऽपि पवित्रप्रतीकत्वेन मन्यते ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

व्युत्पत्तिः संपादित करें

अक्षरमिदम् ‘अव्’ धातुनिष्पन्नम् । अयञ्च धातुः एकोनविशंतिः (१९) भिन्नभिन्नार्थेषु प्रयुज्यते । अस्याः व्युत्पत्त्यनुसारं -कारः सर्वज्ञः, ब्रह्माण्डस्य शासनकर्ता, अमङ्गलतः रक्षाकर्ता, अज्ञाननाशकः तथा ज्ञानप्रदाता[४] । त्र्यक्षरमिति ॐ-कारस्य अपरा आख्या । त्रिमात्रासहितं (‘अ-कारः’, ‘उ-कारः’ ও ‘म-कारः’) अत्र्यक्षरमिति । ‘अ-कारः’ ‘आप्तिः’ वा ‘आदिमत्वम्’ अर्थात् प्रारम्भस्य प्रतीकः । ‘उ-कारः’ ‘उत्कर्षः’ वा ‘अभेदता’याः प्रतीकः । ‘म-कारः’ ‘मितिः’ वा ‘अपीतिः’ अर्थात् लयस्य द्योतकः । [५] अन्यव्याख्यानुसारं, ॐ-कारः सृष्टेः, स्थितेः तथा प्रलयस्य संघटनकारिणः ईश्वरस्य द्योतकः[४]

‘प्रणवः’ शब्दस्य अस्य आक्षरिकार्थः, ‘यत् उच्चारणं कृत्वा स्तूयते ’[६] । अस्य अपरार्थः, ‘यः चिरनूतनः’[७]

इत्येदक्षरम् । इदं सर्वं तस्योपव्याख्यानम्। भूतं वर्तमानं भविष्यद् इति यत् अस्ति तत् सर्वम् ॐकारः एव। यच्चान्यत् त्रिकालातीतं तदपि ॐकारमेव।(माण्डूक्योपनिषत्)

ॐ तद् ब्रह्म । ॐ तत् सत्यम् । ॐ तत् सर्वम् । - तैत्तरीयोपनिषत्
अकार उकार मकार इति । तानेकधा समभरत्तदेतद् ॐ इति । - तैत्तरीयलघुनारायणोपनिषत् ।
ॐकार बिंदु संयुक्तम् नित्यम् ध्यायन्ति योगिनःकामदं मोक्षदं चैव ॐकाराय नमो नमः। एवं अपि कथ्यते।

॥ ॐ - प्रणवाक्षरम् ॥ संपादित करें

ॐ इति एतत् प्रणवाक्षरम् जगतः सृष्टेः आदिः इति वेदाः प्रतिपादयन्ति। वेदारम्भे एतस्य अक्षरस्य उच्चारणं भवति । यथाह कालिदासः स्वकीये रघुवंशे-

वैवस्वतो मनुर्नाम माननीयो मनीषिणाम्।
आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥ १-११ ।

व्याख्या गुरुत्वञ्च संपादित करें

ॐ-कारः ईश्वरस्य सर्वाविधनाम्नः प्रतिनिधिस्वरूपः तथा तस्य श्रेष्ठनाम[८]वेदे, उपनिषदि, गीतायां तथा अन्यान्यशास्त्रेष्वपि ॐ-कारस्य सर्वोच्चगुरुत्वारोपणं कृतमस्ति । अथर्ववेदस्य गोपथब्राह्मणस्य एकस्याः कथानुसारं, देवराजः इन्द्रः ॐ-कारस्य साहाय्येन दैत्यगणं पराजितवान् । अस्याः कथायाः अन्तर्निहितार्थः अयमस्ति- ॐ-कारस्य पौनःपुन्येन उच्चारणेन मनुष्याः देवाः वा पाशविकवृत्तिं पराजेतुं समर्थाः भवन्ति[४]

टिप्पणी संपादित करें

  1. तैत्तिरीयोपनिषत्, प्रथमोध्यायः, अष्टमः अनुवाकः, प्रथमश्लोकः
  2. स्वामी विवेकानन्दस्य वाणी ओ रचना, चतुर्थखण्डः, उद्बोधन कार्यालय, कोलकाता, १९६४, पृ. ११४
  3. श्रीश्रीरामकृष्णकथामृत, अखण्ड, श्रीम-कथित, उद्बोधन कार्यालय, कोलकाता, १९८६-८७, पृ. ३५९
  4. ४.० ४.१ ४.२ हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.८
  5. माण्डूक्योपनिषत्, ८-११ श्लोकः
  6. भाषा अभिधान, ज्ञानेन्द्रमोहन दास, साहित्य संसद्, कोलकाता
  7. हिन्दु सीम्बल्स्, स्वामि हर्षानन्द, रामकृष्णमठम्, बेङ्गलूरु, २०००, पृ.७
  8. Hindu Symbols, Swami Harshananda, Ramakrishna Math, Bangalore, 2000, p.11

सन्दर्भलेखाः संपादित करें

बाह्यसम्बन्धाः संपादित करें

"https://sa.wikipedia.org/w/index.php?title=ॐ&oldid=453102" इत्यस्माद् प्रतिप्राप्तम्