प्रतिकृतिः (चलच्चित्रम्)

प्रतिकृतिः संस्कृतभाषया निर्मितं प्रथमं वाणिज्यचलच्चित्रम्[१] । ओटिटि द्वारा 2021 तमे वर्षे श्रावणपूर्णिमायाम् (22-08-2021) एतस्य चित्रस्य लोकार्पणम् अभवत् ।

प्रतिकृतिः
चलच्चित्रपत्रम्
निर्देशकः डा. निधीषगोपिः
निर्माता प्रवीणः पी. आर्
अभिनेतारः सुनिलसुखदा
राजनसितारा
निपिन्-उण्णिः
सङ्गीतनिर्देशकः विष्णुशिवः
सम्पादकः निधीशगोपिः
चलच्चित्रमुक्तिदिवसः २०२० (२०२०)
देशः भारतम्
अर्थसङ्कल्पः १५ लक्षाणि

निर्माणम् सम्पादयतु

केरलराज्ये निधीशगोपी इत्यनेन चित्रस्य निर्देशनम् 2020 तमे अक्टोबर् मासे आरब्धम् । करोनाकारणतः चित्रीकरणं तन्नियमानुसारमेव प्रवृत्तम् । एकविंशतिः दिनानि यावत् चित्रीकरणं कृतम् । ततः चित्रसम्बद्धानि अन्यानि कार्याणि कृतानि । केरलेषु तृश्शूरुजनपदस्य विभिन्नेषु प्रदेशेषु चित्रस्य चित्रीकरणम् अभवत् ।

कथावस्तु सम्पादयतु

 
चलच्चित्रनिर्माणदृश्यम्

ताडग्रन्थानां संरक्षकस्य कस्यचन महापण्डितस्य गृहे शोधच्छात्रः शोधार्थम् आयाति । स एव चित्रस्य नायकः । तस्य पण्डितपुत्र्याम् अनुरागः भवति । पण्डितपुत्रः ताडग्रन्थादीनां विक्रयणे प्रवृत्तः । पण्डितस्य अनारोग्यकारणतः सः इदं न जानाति । शोधच्छात्रः एव न्यायालये पण्डितस्य ताडग्रन्थानां रक्षणं करोति ।

नटाः सम्पादयतु

सुनिलसुखदा, राजनसितारा, निपिन् उण्णिः, चिन्मयीरविः, प्रसादमल्लिश्शेरी, मालिनीसजित्, गोपि-आशन्, अखिलवेलायुधन्, डा. रागेश् एस्.आर्, डा. अरुणभास्करः, प्रा.षैन.के.करुणः, शशि एरणूर्, लेय्सण् जोण्, प्रशान्तराजन् इत्यादयः उपचत्वारिंशाः केरलीयाः नटाः चलच्चित्रेऽस्मिन् नटितवन्तः ।

पृष्ठभूमिकाकार्याणि सम्पादयतु

देव्लाग् प्रोडक्षन्स्संस्थानाम्नमि पि. आर्. प्रवीणः चित्रस्य निर्माणम् अकरोत् । संस्कृतभाषया कथां पटकथां सम्भाषणं च विरचय्य निर्देशनम् अकरोत् डा.निधीशगोपिः । छायाग्रहणं सजिलशशिकुमारः, चित्रसंयोजनं षिविन् के, चन्द्रनः च निरवहताम् । विष्णुशिवस्य सङ्गीतेन युक्तानि त्रीणि गीतानि चित्रे सन्ति । गीतानां लेखकः अपि निधीशगोपिः । श्रीनन्दा श्रीकुमार्, गोविन्दवेलायुधन्, रञ्जितः एम् पिल्लै च गायकाः [२][३]

उल्लेखाः सम्पादयतु