परावर्तनम् (भौतविज्ञानम्)

(प्रतिफलनम् (भौतविज्ञानम्) इत्यस्मात् पुनर्निर्दिष्टम्)
दर्पणह्रदे (मीरर् लेक्)उड् पर्वतस्य प्रतिफलनम्

पूर्णान्तरिकं परावर्तनम्(Total Internal Reflection) सम्पादयतु

 
दर्पणे परावर्तनम्

यदा प्रकाशास्य कोऽपि किरणः सघनात् माध्यमात् विरले माध्यमे गच्छति तर्हि सोऽभिलम्बात् दूरं प्रति विचलितो भवति । कल्प्यं यत् १६.९ इति चित्रे सीसकात् वायौ आगन्तुकः `अ म’ इति किरणः `म य’ इति दिशि अपवर्तिता भवति, यतः किरणः सघनात् माघ्यमात् विरले माघ्यमे गच्छति अतएव L अ म च इत्यतः L न म य इति बृहद् स्यात् प्रत्येकदशायाञ्च :-

ज्या न म य/ ज्या अ म च = वा = १.५ इति स्यात्

यदि चेद् L अ म च इति शनैश्शनैः वर्ध्यते तर्हि L न म य इत्यपि वर्द्धते । यदा आपतनकोणः ब म च इत्यनेन तुल्यो भवेत् तर्हि अपवर्तनकोणः न म र इत्यनेन तुल्यः स्यात् । इत्थमेव यदि आपतनकोणः भूयोपि वद्धर्यते तर्हि आपतितकिरणस्य `स म’ इत्येतादृशी एकावस्या उपस्थास्यति यर्हि वायौ आगमनान्तरं अपवर्तितः किरणः माध्यमद्वस्य पृथक्कारिणं तलं संस्पृशन्नेव निर्गमिष्यति, अर्थात् न म ख इत्यपवर्तनकोणः एकसमकोणतुल्यो भविष्यति । यदि चेद् भूयोऽपि वर्ध्यते अर्थात् आपतितकिरणः `द म’ इति दिशि आगच्छेत् तर्हि अपवर्तितः किरणः वायौ निर्गमनस्थाने शीशके एव `म व’ इति दिशि प्रत्यावर्तनं करिष्यति इदानीञ्च अनेन परावर्तननियमाः परिपाल्यन्ते । एतादृशं परावर्तनं पूर्णान्तरिकं परावर्तनमित्यभिधीयते । सथनमाध्यमस्य स आपतनकोणः यस्य सङ्गत्यपवर्तनकोणः एकसमकोण तुल्यो भवति स क्रान्तिकः कोण (Critical angle) इत्यभिधीयते ।

क्रान्तिकः कोणः = L स म च = क्रा

= ज्या ९००/ ज्या क्रा = १/ ज्या क्रा ज्याक्रा = १

अतएव कस्यचिद् सघनमाध्यमस्य क्रान्तिकः कोणः स कोणोऽस्ति यस्य ज्या १ इत्यनेन तुल्या अस्ति (= विरलात् समनमाध्यमस्य अपवर्तनाङ्क)`

पूर्णपरावर्तनस्य कतिपयोदाहरणानि सम्पादयतु

 
भिन्नघनत्वविशिष्टवस्तुद्वये प्रकाशस्य अपावर्तनम्

जलपूर्णे एकस्मिन् बोकरे एका रिक्ता प्रईक्षणनलिका अधिक्षेप्या सा च हस्तेन शनैः शनैः साचीकरणीया उपरितश्च तस्यास्तलम् अवलोकनीयम् । यदा परिक्षणनलिकायाः नम्रत्वम् एतावद् भविष्यति यत् आपतनकोणः ४८० ३६’ इत्यतोऽधिकः स्यात् (४८० ३६’ इत्ययं जलात् वायोः क्रान्तिककोणोऽस्ति ) त्रहि शीशकस्य परीक्षणनलिका रजतवद् भासमाना ज्ञास्यते । कारणञ्चास्य यत् बाह्यतः नलिकायां निष्पतिष्णुः प्रकाशः पूर्णपरावर्तनद्वारा नेत्रे गच्छति ।

यदि परीक्षणनलिका जलेन आपूर्यते तर्हि सा पुनः भासमाना न प्रतीयते यतः पूर्णपरावर्तनं समाप्यते । यदि शीशकेऽथवा जले वायोः बुद्बुदः स्याद् तर्हि पूर्णपरावर्तनस्य हेतोः स भासमानः प्रतीयते ।

पूर्णपरावर्तकः प्रिज्मः (Totally Reflecting Prism) सम्पादयतु

 
पूर्णपरावर्तकः प्रिज्म्

यदा प्रकाशस्य समातरकिरणाः कस्यचिद् समद्विबाहुसमकोणप्रज्मस्य समकोणनिर्वर्तकतले लम्बरूपाः स्युः तर्हि ते कर्णतलाद् पूर्णंपरावर्तिताः भवन्ति यथा चित्र प्रदर्शिताः । इमे किरणाः कर्णे ४५० इत्यंशकम् आपतनकोणम् निर्वर्तयन्ति शीशकाच्च समीरार्थं प्रायशः ४२० इत्यंशकः क्रान्तिकः कोणोऽस्ति अतएव पूर्णं परावर्तिताः भूत्वा समकोणनिर्वर्तकाद् द्वितीयाद् तलात् बहिः निर्गच्छति ।

हीरकस्य भास्वरत्वम् सम्पादयतु

 
कौणिकप्रतिफलनम्

हीरकस्य बहूनां बहुमुल्यप्रस्तराणाञ्च अपवर्तनाङ्का अधिकास्सन्ति अतएव तेषां क्रान्तिककोणाः अल्पाः भवन्ति । यदा बाह्यः प्रकाशः कस्मिंश्चिद् छिन्ने हीरके माणिक्ये वा निप्पतति त्रहि स तस्य पारं गन्तुं न शक्नोति अपितु तस्य तलेभ्य वार्ंवारं पूर्णपरावर्तितो भव्ति । अस्मादेव कारणात् इमे प्रस्तराः अतिभास्वराः प्रतीयन्ते । हीरकस्य अपवर्तनाङ्क २.४७ इत्यस्ति तस्य क्रान्तिककोणश्च = २३० ५३ इति ।

मत्स्यद्वारा अस्तङ्गामिन आदित्यस्यावलोकनम् सम्पादयतु

चित्रे अस्तङ्गामिन आधित्यस्य किरणाः जलतलं स्पृशन्त आगच्छन्ति । ते ऊर्ध्वाधर रेखया ४८० ३६’ इत्यंशकं कोणं निर्वर्तयन्त अपवर्तिताः भवन्ति , यतः ४८० ३६’ इति तु जलस्य क्रान्तिकः कोणः । वस्तुतः आकाशीयानां सर्वेषां वस्तूनां प्रतिबिम्बं मत्स्येन ४८० ३६ इत्यस्यार्द्धशीर्षकोणस्य (Semi Vertical angle) शंक्वभ्यन्तरे (Cone) दृश्यते । शङ्कोरस्माद् बहिः स मत्स्यः समुद्रतले स्थितानां प्रस्तरादीनां प्रतिबिम्बाणि पूर्णपरावर्तनद्वारा पश्यति ।

सम्बद्धाः लेखाः सम्पादयतु