प्रयोगाः

सम्पादयतु

कर्तरि प्रयोगः, कर्मणि प्रयोगः भावेप्रयोगश्चेति प्रयोगाः त्रिविधाः भवन्ति। अद्यत्वे तु कर्तृवाच्यं कर्मवाच्यं भाववाच्यम् इति प्रयोगः दृश्यते परम् एतेषां शब्दानां साधुता कथम् इति न ज्ञायते । कर्तरि प्रयोगः, कर्मणि प्रयोगः भावेप्रयोगश्चेति प्रयोगाः केभ्यः केभ्यः धातुभ्यः करणीयाः इति विषये पाणिनीयसूत्रं प्रवर्तते- “लः कर्मणि च भावे चाकर्मकेभ्यः” इति । लकाराः सकर्मकेभ्यः धातुभ्यः कर्मणि कर्तरि च भवन्ति अपि च अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च भवन्ति इति सूत्रार्थः। अत्र लकारशब्दः प्रत्ययपरकः वर्तते । सकर्मकेभ्यः धातुभ्यः कर्मणि कर्तरि च प्रत्ययाः भवन्ति, तथैव अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च प्रत्ययाः भवन्ति इति तु अस्माभिः अवगतं परन्तु कः धातुः सकर्मकः कश्च अकर्मकः इति वयं कथम् अवगमिष्यामः? एषः प्रश्नः भवतां सर्वेषां मनसि उद्भूतः स्यात् इति धिया त्रिविधप्रयोगाणां विवरणात् प्राक् सकर्मकाकर्मकविषये किञ्चित् वदामि ।

सकर्मकाकर्मकविषये किञ्चित्

सम्पादयतु

सकर्मकेभ्यः धातुभ्यः कर्मणि कर्तरि च प्रत्ययाः भवन्ति, तथैव अकर्मकेभ्यः धातुभ्यः कर्तरि भावे च प्रत्ययाः भवन्ति । परं वयं कथम् अवगच्छामः यत् कः धातुः सकर्मकः कश्च धातुः अकर्मकः इत्येव भवतां सर्वेषां प्रश्नः खलु। सकर्मकाकर्मकविषयस्य अवगमनार्थम् अत्र अस्ति कश्चन सरलः उपायः । कृपया अवधानं कुर्वन्तु । प्रस्तूयते सकर्मकाकर्मकविषयः ।

प्रथमः अंशः

सम्पादयतु

प्रथमं यत्किञ्चित् क्रियापदम् उच्चारणीयम्, अपि च कर्तुः जिज्ञासा करणीया, ततः परं किम् इतिशब्देन प्रश्नः करणीयः, प्रश्ने कृते सति यदि उत्तरं प्राप्यते तर्हि सः धातुः सकर्मकः यदि उत्तरं न प्राप्यते तर्हि अकर्मकः इति अवगन्तव्यम्। यथा- "पठति" इति क्रियापदं स्वीकुर्मः । अत्र क्रमेण पश्यामः- पठति

कः पठति ?

बालः पठति।

बालः किं पठति ?

बालः पुस्तकं पठति ।

अत्र प्रश्नस्य अस्य उत्तरं वर्तते अतः एषः पठ् धातुः सकर्मकधातुः।

अधुना “पतति” इति क्रियापदं स्वीकुर्मः ।

पतति

कः पतति ?

बालः पतति ।

बालः किं पतति ?

अत्र उत्तरं नास्ति । अतः एषः धातुः अकर्मकः ।

एवमेव विभिन्नधातून् स्वीकृत्य अभ्यासः करणीयः ।

यथा- वर्धते, विकसति, खादति, लिखति, भुनक्ति, क्रीणाति, उपविशति, रोदिति, आनयति, हसति, शेते, एधते, ददाति, स्मरति, जीवति, उत्तिष्ठति । अत्र सर्वत्र पूर्वोक्तक्रमेण प्रश्नान् कृत्वा अवगन्तव्यम् ।

विशेषः -

विकसति एधते इत्यादिक्रियापदानि यदा वयम् उच्चारयामः अपि च किं विकसति किम् एधते इत्यादीन् प्रश्नान् कुर्मः तदा पुष्पं विकसति सस्यं फलं वा वर्धते इति उत्तरं प्राप्यते अतः एतादृशाः अपि धातवः सकर्मकाः स्युः इति काचित् जिज्ञासा समुदेति ।

सत्यम् एव । तादृशी जिज्ञासा भवत्येव । अत्र अस्माभिः अवधातव्यम् अस्ति । अत्र अवधातव्याः केचन अंशाः-

१- क्रियापदम् उच्चार्य कर्तृपदस्य जिज्ञासा करणीया । २- अधुना कम्, काम्, किम् इति प्रश्नः करणीयः । ३- अत्र कम्, काम्, किम् इति द्वितीयान्तानि पदानि सन्ति इत्यपि अवधेयम् । यथा –

किं पठति ?

पुस्तकं पठति ।

कं पठति ?

ग्रन्थं पठति ।

कां पठति ?

गीतां पठति ।

अत्र प्रथमे वाक्ये नपुंसकलिङ्गे प्रश्नः अस्ति। द्वितीये पुंसि तृतीये च स्त्रियां प्रश्नः अस्तीति ज्ञेयम् । ४- अधुना उत्तरं प्राप्यते न वा इति पश्यामः।

एतेन क्रमेण यदि वयं चलामः तर्हि अवश्यम् एव अस्माकं जिज्ञासा शान्ता भविष्यति। वयं तत्र किं कृतवन्तः इति स्मरन्ति वा ? अहं वदामि - तत्र वयं क्रियापदम् उच्चार्य साक्षात् प्रश्नं कृतवन्तः अतः दोषः जातः । अपि च तत्र किम् इति पदं प्रथमान्तम् आसीत् । प्रश्नस्तु द्वितीयान्तेन भवति । अत्र फलितार्थः - अत्र वक्तुं शक्यते कर्तृपदसहितं क्रियापदम् उच्चार्य प्रश्नः करणीयः । उत्तरं प्राप्यते चेत् सकर्मकः, न प्राप्यते चेत् अकर्मकः इति । कर्मपदस्य अर्हता अस्ति चेत् सकर्मकः न तु केवलं कर्मणा सहितः एव सकर्मकः। यथा बालः पठति इत्यत्र कर्म न दृश्यते तथापि सकर्मकत्वं तु भवत्येव ।

द्वितीयः अंशः

सम्पादयतु

कदाचित् परिस्थितिवशात् सकर्मकाः अपि धातवः अकर्मकाः भवन्ति तथैव अकर्मकाः अपि धातवः कदाचित् सकर्मकाः भवन्ति । एतद् वैपरीत्यं तु कदाचित् एव भवति अपि च केषाञ्चन धातूनाम् एव भवति । तथापि अपवादाः अपि अवगन्तव्याः भवन्तीति कारणेन किञ्चित् दिग्दर्शयितुं प्रयते ।

धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।

प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ।।

अर्थात् – धातोः अर्थान्तरे [ अन्यः अर्थः – अर्थान्तरः तस्मिन् अर्थान्तरे ] वृत्तौ सति, कर्मणः धात्वर्थेन उपसङ्ग्रहात् , कर्मणः प्रसिद्धेः, कर्मणः अविवक्षातः अपि धातुः अकर्मकः भवितुं शक्नोति । क्रमेण सर्वेषाम् उदाहरणानि यथा - “धातोरर्थान्तरे वृत्तेः” - नदी वहति । वह् धातुः वस्तुतः प्रापणार्थकः परन्तु अत्र भिन्नः अर्थः अस्ति अर्थात् वह् धातुः अधुना अर्थान्तरे वर्तते अतः सकर्मकः अपि वह् धातुः अकर्मकः जातः । “कर्मणः धात्वर्थेनोपसङ्ग्रहात्” – बालः क्रीडति । क्रीडति अर्थात् क्रीडां करोतीत्यर्थः । अत्र क्रीडा इति कर्म अन्तर्भूतं वर्तते अतः अकर्मकः । तथैव बालः जीवति [ प्राणान् धरति ] इत्यत्र प्राणधारणार्थकः जीवधातुः प्रयुक्तः । कर्मभूताः प्राणाः धात्वर्थेन एव उपसङ्गृहीताः इत्यतः जीव् धातोः अपि अकर्मकत्वम् । एवमेव कर्मणः धात्वर्थेनोपसङ्ग्रहात् गात्रविक्षेपार्थकस्य नृतीधातोः अपि अकर्मकत्वं ज्ञेयम् । “कर्मणः प्रसिद्धेः” – जलं वर्षति । अत्र वर्षतीति कथनेनैव जलम् एव वर्षति इति बोधः भवति । अर्थात् अत्र कर्मणः प्रसिद्धिः वर्तते । “कर्मणः अविवक्षातः” – बालकः मातुः स्मरति । अत्र बालकः मातरं स्मरति इति वाक्यं भवेत् परन्तु कर्मणः अविवक्षाकारणेन अकर्मकत्वम् आगतम् ।

विशेषः –

कदाचित् उपसर्गकारणेन अपि कदाचित् सकर्मकाः धातवः अकर्मकाः भवन्ति तथैव अकर्मकाः अपि धातवः कदाचित् सकर्मकाः भवन्ति । यथा – विष्णुः वैकुण्ठम् अधितिष्ठति । ष्ठा गतिनिवृत्तौ इति धातुः वस्तुतः अकर्मकः अस्ति परम् अत्र उपसर्गकारणेन सकर्मकत्वम् आगतम् । एवमेव सङ्गच्छन्ते बालाः [ सम्मिलिताः भवन्ति ] । गम् इति धातुः वस्तुतः सकर्मकः परम् अत्र उपसर्गकारणेन अकर्मकत्वम् आगतम् ।

[ पत् धातुः वस्तुतः सकर्मक आसीत् परम् अद्यत्वे तस्य प्रयोगः अकर्मकत्वेन दृश्यते । तथैव क्रीड् धातुः वस्तुतः अकर्मकः आसीत् परम् अधुना सकर्मत्वेन प्रयोगः दृश्यते । यथा – क्रीकेट्क्रीडां क्रीडति ।]

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=प्रयोगाः&oldid=409444" इत्यस्माद् प्रतिप्राप्तम्